सामग्री पर जाएँ
सर्वकोश
मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

Manusmriti with Kulluka Bhatta Tika & Hindi Translation

महर्षि मनु द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished649 पृष्ठ

पृष्ठ 570, कुल 649 में से

संदर्भ में पढ़ें
पृष्ठ 570

४३० मनुस्मृति ।
प्रायश्चित्त न करनेवाले पातकियों के साथ दान आदि का
कोई सम्बन्ध न रक्खे । और प्रायश्चित्त करनेवालों की फिर
निन्दा भी न करे । बालहत्यावाले, कृतघ्न, शरणागत को मारने
वाले और स्त्रियों की हत्या करनेवाले, प्रायश्चित्त कर भी लें
तोभी उनका संसर्ग न करे । जिन द्विजों का शास्त्रोक्त समय में
यज्ञोपवीत न हुआ हो उनको तीन प्राजापत्य व्रत कराकर विधि-
पूर्वक यज्ञोपवीत करावे ॥ १६०-१६२ ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्था तु ये द्विजाः ।
ब्राह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १६३ ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १६४ ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ १६५ ॥
उपवासकृशं तं तु गोव्रजान्पुनरागतम् ।
प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १६६ ॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ १६७ ॥
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ १६८ ॥
शरणागतं परित्यज्य वेदं विप्लाव्या च द्विजः ।
संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १६६ ॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रवराहेश्च प्राणायामेन शुद्ध्यति ॥ २०० ॥