सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

Manusmriti with Kulluka Bhatta Tika & Hindi Translation

महर्षि मनु द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished649 पृष्ठ

आठवां अध्याय । २६६

आठवां अध्याय । २६६
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ १३३ ॥
सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम् ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ १३४ ॥
पलं सुवर्णाश्चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ १३५ ॥
ते षोडश स्याद्धरणं पुराणश्चैव राजतः ।
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३६ ॥
धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ १३७ ॥
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १३८ ॥
८ त्रसरेणु = १ लिक्षा । ३ लिक्षा = १ राई ।
३ राई = १ सफेद सरसों । ६ सरसों = १ मध्यमयव ।
३ मध्यमयव = १ कृष्णल । ५ कृष्णल = १ माष ।
१६ माष = १ सुवर्ण । ४ सुवर्ण = १ पल ।
१० पल = १ धरण । २ कृष्णल = १ चांदी का माषा ।
१६ चांदी माषा = १ धरण, वा चांदी का पुराण । तांबा के कर्ष-
भर के पण-पैसा को कार्षापण कहते हैं ।
१० धरण = १ चांदी का शतमान । ४ सुवर्ण = १ धरण ।
२५० पण = प्रथम साहस । ( साधारण दण्ड )
५०० पण = मध्यम साहस ।
१००० पण = उत्तम साहस ॥ १३३-१३८ ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।

२७० मनुस्मृति ।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम् ॥ १३६ ॥
वशिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ १४० ॥
द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ १४१ ॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ १४२ ॥
यदि ऋणी सभा में महाजन का रुपया देना क़बूल करे तो
सैकड़े पांच दण्ड देने योग्य है। और इन्कार करे तो सैकड़े दश
दण्ड देवे। वशिष्ठ के नियमानुसार सैकड़े का अस्सीवां भाग
(सवा रुपया सैकड़ा) व्याज लेवे । अथवा दो रुपया सैकड़ा
व्याज़ लेवे। दो रुपया सैकड़ा ब्याज लेने से दोष नहीं होता ।
ब्राह्मण आदि चारों वर्णों से क्रम से दो, तीन, चार और पांच
रुपये सैकड़ा माहवारी ब्याज ग्रहण करे ॥ १३६-१४२ ॥
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् ।
न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥ १४३ ॥
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ।
मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ १४४ ॥
आधिश्चोपनिधिश्चोभौ न कालात्ययमहर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ १४५ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ १४६ ॥