गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका ४ ॥
गोपथब्राह्मणे उत्तरभागे प्र० २। क० ४ ३११
आगे को नहीं अपमान योग्य, ( अनभिशस्ति ) हिंसा के अयोग्य ( अनभिशस्तेन्यम् )
अहिंसित कर्म में ले चलने वाला ( ओजः असि ) बल है। ( स्विते ) सुन्दर चले हुए
[ मार्ग ] में ( मा धाः ) मुझे तू धारण कर । ( अञ्जसा ) तेज के साथ वा सहज से
( सत्यम् उपगेषम् ) सत्य को मैं खोजता रहूं ॥ ३ ॥
कण्डिका ४ ॥
घृतं वै देवा वज्रं कृत्वा सोममघ्नन् । स्रुचौ बाहू, तस्मात् स्रुचौ सौमी-
माहुतिं नासाते । अवधीयेत सोमः, तस्मात् स्रुचौ चाज्यं चान्तिकमाहार्षीत् ।
अन्तिकमिव खलु वा अस्यैतत् प्रचरन्ति, यत्तानूनप्त्रेण प्रचरन्ति । अंशु॒रंशु॑ष्टे
देव सोमाप्यायतामिन्द्रायैकघनविद इत्याह, यदेवास्यापवायते यन्मीयते, तदेवास्यै-
तेनाप्याययन्ति । आ तुभ्यमिन्द्रः प्यायतामात्वमिन्द्राय प्यायस्वेत्याह, उभावे-
वेन्द्रञ्च सोमं चाप्याययन्ति । आप्याययास्मान्त्सखीन् सन्या मेध॑या प्रजया धने-
नेत्याह ⸱ ऋत्विजो वा एतस्य सखायः, तानेवास्यैतेनाप्याययन्ति। स्वस्ति ते देव
सोम सुत्यामुदृचमशीयेत्याह, आशिषमेवैतामाशास्ते, प्र वा एतस्माल्लोकाच्च्य-
वन्ते, ये सोममाप्याययन्ति । अन्तरिक्षदेवत्यो हि सोमः आप्यायन्त एष्टा राय
एष्टा वामानि प्रैषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति,
द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिँल्लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥
कण्डिका ४ ॥ सोम यज्ञ में त्रुटि की यजुर्वेद मन्त्र से पूर्ति ॥
( देवाः वै घृतं वज्रं कृत्वा सोमम् अघ्नन् ) देवों [ ऋत्विजों ] ने घृत [ घी वा
प्रकाश ] को वज्र बनाकर सोम [ ओषधिराज ] को पीड़ित किया । ( स्रुचौ बाहू, तस्मात्
स्रुचौ सौमीम् आहुतिं न आसाते ) दोनों स्रुचा [ घृतपात्र ] दो भुजायें हैं, इसलिये
दोनों स्रुचायें सोम देवता वाली आहुति को नहीं छोड़ते । ( सोमः अवधीयेत, तस्मात्
स्रुचौ च आज्यं च अन्तिकम् आहार्षीत् ) सोम ध्यान में किया जावे, इसलिये दोनों
स्रुचाओं और घी को समीप में वह [ यजमान ] लावे । ( अन्तिकम् इव खलु वै अस्य
एतत् प्रचरन्ति, यत् तानूनप्त्रेण प्रचरन्ति ) समीप रक्खे हुये के समान ही इस [ सोम ]
के लिये यह [कर्म ] वे करते हैं, जो तनूनप्ता देवता वाले [ शरीर को न गिराने वाले
चरु ] से वे करते हैं। ( देव सोम ते अंशुः-अंशुः एकघनविदे इन्द्राय आप्यायताम्-
४-(अघ्नन् ) अपीडयन् ( आसाते ) अस्यतः। क्षिपतः ( अवधीयेत )
अव + दधातेः कर्मणि-विधिलिङ् । अवधाने ध्याने क्रियेत (अन्तिकम् ) समीपम् ।
समीपस्थम् ( आहार्षीत् ) आहरेत् । आनयेत् ( तानूनप्त्रेण ) तनूनप्तृदेवताकेन
चरुणा (अंशुरंशुः) मृग्य्वादयश्च ( उ० १।३७ ) अंश विभाजने-कुः^१।
अवयवोऽवयवः । अङ्गमङ्गम् ( देव ) दिव्यगुणयुक्त । (सोम ) हे ऐश्वर्यवन् पुरुष
ओषध वा ( आ ) समन्तात् ( प्यायताम् ) वर्धताम् ( इन्द्राय ) परमैश्वर्यवते
१. अत्र नित्यवीप्सयोः (पा० ८।१।४) इत्यनेन "अंशुः" शब्दस्य द्विर्वचनम् ॥ सम्पा० ॥
३१२ गोपथब्राह्मणे उत्तरभागे प्र० २ । क० ४
इति आह, यत् एव अस्य अपवायते, यत् मीयते, तत् एव अस्य एतेन
आप्याययन्ति ) हे दिव्यगुण वाले सोम ! तेरा अंश अंश एक धर्म से धन पाने वाले इन्द्र
[ बड़े ऐश्वर्य्य वाले पुरुष ] के लिये सब ओर से बढ़े—यह [ यजुर्वेद मन्त्र भाग ] वह
कहता है, जो कुछ भी इस [ सोम ] का सूख जाता है, जो कुछ मुरझा जाता है, इससे
उसको ही इस [ प्रयत्न ] से वे अच्छे प्रकार बढ़ाते हैं । ( इन्द्रः तुभ्यम् आ प्यायताम्,
त्वम् इन्द्राय आप्यायस्व इति आह, उभौ एवं इन्द्रं च सोमं च आप्याययन्ति )
इन्द्र तेरे लिये भले प्रकार बढ़े, तू इन्द्र के लिये भले प्रकार बढ़—यह [ मन्त्र भाग ] वह
बोलता है, दोनों ही इन्द्र और सोम को वे भले प्रकार बढ़ाते हैं । ( अस्मान् सखीन् सन्या
मेधया प्रजया धनेन आप्यायय इति आह, ऋत्विजः वै एतस्य सखायः, अस्य तान्
एतान् एव आप्याययन्ति ) हम मित्रों के दान से, निश्चल बुद्धि से, प्रजा से और धन से
तू भले प्रकार बढ़ा—यह [ मन्त्र भाग वह बोलता है ], ऋत्विज् लोग ही इस [ सोम ] के
मित्र हैं, इसके उन इनको ही वे भले प्रकार बढ़ाते हैं । ( देव सोम ते स्वस्ति, सुत्याम्
उद्ऋचम् अशीय इति आह, एताम् आशिषम् एव आशास्ते, एतस्मात् लोकात् वै
प्रच्यवन्ते, ये सोमम् आ प्याययन्ति ) हे दिव्य गुण वाले सोम ! तेरे लिये मंगल हो,
सोम निचोड़ने की क्रिया और समाप्ति सूचक ऋचा को मैं प्राप्त होऊं—यह [ मन्त्र भाग ]
वह बोलता है, इस आशीर्वाद को ही वह कहता है, इस लोक में ही वे अच्छे प्रकार चलते
हैं, जो सोम को भले प्रकार बढ़ाते हैं । ( अन्तरिक्षदेवतयः हि सोमः आप्यायते, एष्टाः
रायः एष्टा वामानि प्रइषे भगाय, ऋतवादिभ्यः ऋतम् नमः, दिवे पृथिव्यै नमः
इति, द्यावापृथिवीभ्याम् एव नमस्कृत्य अस्मिन् लोके प्रतितिष्ठति प्रतितिष्ठति )
अन्तरिक्ष [ मध्य में दिखाई देते हुये ] लोक देवता वाला ही सोम [ ओषधिराज ] भले
पुरुषाय ( एकधनविदे ) एकेन धर्मेण धनं विन्दति लभते यः, तस्मै ( अपवायते )
ओवै शोषणे यद्वा वा गतिगन्धनयोः—कर्मणि लट् । शुष्यते ( मीयते ) मीञ्
हिंसायाम्—कर्मणि लट् । हिंस्यते । नाश्यते ( प्याययन्ति ) वर्धयन्ति ( प्यायस्व )
वर्धस्व ( सन्या ) दृपिवृषिदृहि० ( उ० ४ । ११६ ) षणु दाने—इन् । दानेन ( सन्या )
सम्+णीञ् प्रापणे—क्विप् । सम्यक् नेत्र्या ( स्वस्ति ) कल्याणम् ( सुत्याम् )
सोमाभिषवक्रियाम् ( उद्ऋचम् ) उत्तमां समाप्तिसूचिकाम् ऋचम् ( अशीय )
प्राप्नुयाम् ( आशिषम् ) आङ्-शास आशीर्वादे—क्विप् । मङ्गलप्रार्थनाम्
( आशास्ते ) आशीर्वादं कथयति ( प्र ) प्रकर्षेण ( एतस्मात् लोकात् ) एतस्मिन्
लोके ( च्यवन्ते ) गच्छन्ति-निघ० २ । १४ । ( एष्टाः ) सर्वत इष्टाः । अभीष्टाः ।
अभीष्टानि वा ( वामानि ) अर्त्तिस्तुसुहु० ( उ० १ । १४० ) वा 'गतौ'-मन् ।
वामस्य वननीयस्य—निरु० ४ । २६ । शोभनानि वस्तूनि ( प्र ) प्रकर्षेण ( इषे )
अन्नाय ( भगाय ) ऐश्वर्याय ( ऋतम् ) सत्यव्यवहारम् ( ऋतवादिभ्यः )
सत्यकथनशीलेभ्यः ( नमः ) अन्नम्-निघ० २ । ७ ( दिवे ) प्रकाशमानाय परमात्मने
( नमः ) सत्कारः ( पृथिव्यै ) विस्तृताय परमेश्वराय ( द्यावापृथिवीभ्याम् )
प्रकाशभूमिसहिताभ्यम् ( नमस्कृत्य ) आदृत्य परमात्मानम् ॥