गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका ९ ॥ नाभानेदिष्ठ, बालखिल्य, वृषाकपि और एवयामरुत्
५१८ गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ९ ॥
मिति । स होवाच, छन्दस्त्विदमु माध्यन्दिनं, सातिजागतं वातिजागतं वा स
उ मारुतो मैवं संसृष्टेति [ शंसिष्टेति ] । स होवाच, अरमच्छावाकेत्यथा-
स्मिन्ननुशासनमीषे । स होवाच, इन्द्रमेष विष्णू न्व्यङ्गानि शंसति, अथ त्वं होतु-
रुपरिष्टाद्रौद्रिया धाय्या, या पुरस्तान्मारुतस्य सूक्तस्याप्यस्यधा इति । तथेति ।
तदप्येतर्हि तथैव शस्यते, यथा षष्ठे पृष्ठ्याहनि । कल्पत एव यज्ञः, कल्पते यज-
मानस्य प्रजापतिः, कथमत्राशस्त एव नाभानेदिष्ठो भवति । अथ बालखिल्याः शंसति,
रेतो वा अग्रेऽथ प्राणाः एवं ब्राह्मणाच्छंस्यशस्त एव नाभानेदिष्ठो भवति । अथ
वृषाकपिं शंसति, रेतो वा अग्रेऽथात्मा, कथमत्र यजमानस्य प्रजापतिः, कथं प्राणा
अवरुद्धा भवन्तीति । यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति, स यथा गर्भो
योन्यामन्तरेव१ सम्भवच्छेते, न ह वै सकृदेवाग्रे सर्वं सम्भवति, एकैकं वाऽङ्गं
सम्भवति । सर्वाणि चेत्समानेऽहनि क्रियेरन्, कल्पत एव यज्ञः, कल्पते यजमानस्य
प्रजापतिः । अथ हैव एवयामरुतं होता शंसेत्, तस्यास्य प्रतिष्ठा, तस्या एवैनमन्ततः
प्रतिष्ठापयति प्रतिष्ठापयति ॥ ६ ॥
कण्डिका ९ ॥ नाभानेदिष्ठ, बालखिल्य, वृषाकपि और एवयामरुत्
सहचरणों का वर्णन तथा बुडिल और गोश्रल के प्रश्नोत्तर ॥
-.. (तानि वै एतानि सहचरणानि इति आचक्षते, यत् नाभानेदिष्ठः, बालखिल्यः,
वृषाकपिः एवयामरुत्, तानि सह वा शंसेत्, सह वा न शंसेत् ) वे ही यह सहचरण
[एक दिन में बोले गये सूक्त] हैं, ऐसा वे [ ब्रह्मवादी ] कहते हैं, जो नाभानेदिष्ठ, बालखिल्य,
वृषाकपि और एवयामरुत् [ क० ७] हैं, उनको अथवा वह एक साथ ही बोले, अथवा एक
साथ न बोले । ( यत् एषाम् अन्तरीयात्, तत् यजमानस्य अन्तरीयात् ) जो इनमें से कुछ
वह छोड़ दे, उससे यजमान का नाश करे । ( यदि नाभानेदिष्ठम्, अस्य रेतः अन्तरीयात् )
यदि नाभानेदिष्ठ को [ छोड़े ], इस के वीर्य को वह नष्ट करे, ( यदि बालखिल्याः, अस्य
प्राणान् अन्तरीयात् ) यदि बालखिल्यों को [ वह छोड़े ! ] इस के प्राणों को वह नष्ट
करे । ( यदि वृषाकपिम्, अस्य आत्मानम् अन्तरीयात् ) यदि वृषाकपि को [ वह छोड़े ]
वह इस के आत्मा को नष्ट करे । ( यत् एवयामरुतम्, प्रतिष्ठा वै एवयामरुत्, दैव्याः
च मानुष्याः च प्रतिष्ठायाः एव एनं तं श्रावयेत् ) यदि एवयामरुत् को वह छोड़े प्रतिष्ठा
ही एवयामरुत् है, दैवी [ दिव्य गुण वाली ] और मानुषी [ मननशीलों वाली ] प्रतिष्ठा से
ही इस [ यजमान ] को वह निकाल देवे । ( तानि सह वा शंसेत्, सह वा न शंसेत् )
उनको अथवा वह एक साथ ही बोले, अथवा एक साथ न बोले ॥
६-(सहचरणानि) एकस्मिन् दिने सह शंसनीयानि शिल्पसूक्तानि
(अन्तरीयात्) विच्छेदो भेदो भवेत् । विनाशयेत् (श्रावयेत्) श्रु गतौ ।
गमयेत् । च्यावयेत् (दैव्याः) देवसंबन्धिन्याः (मानुष्याः) मनुष्यसम्बन्धि-
१. योन्यामन्तरेव इत्यस्यानन्तरं जर्मनसंस्करणे “प्राणानस्यान्तरियाद्यदि वृषाकपि-
मात्मानमस्यान्तरियाद्यद्येव वा” इत्यधिकः पाठः ॥ सम्पा० ॥
गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ६ ॥ ५३१
( सः ह बुडिलः, आश्वितराः स्युः, विश्वजितः होता सन् ईक्षाञ्चक्रे एतेषां वै एषां
शिल्पानां सांवत्सरिके विश्वजिति होतुः द्वे उक्थे माध्यन्दिनम् अभि प्रच्यवेते ) वह
[प्रसिद्ध] बुडिल [त्यागी ऋषि] यह विचार कर, कि [यह लोग] बलवान् पुरुषों के तराने
वाले हों, विश्वजित् यज्ञ का होता होकर विचारने लगा—इन शिल्पों [नाभानेदिष्ठ आदि] के
संवत्सर रहने वाले विश्वजित् यज्ञ में होता के दो उक्थ माध्यन्दिन सवन पर होते हैं ।(हन्त,
अहम् इच्छम् एवयामरुतं शंसयानि इति, तत् ह तथा शंसयाञ्चक्रे ) हर्ष है—मैंने चाहा
है-मैं एवयामरुत् सूक्त बोलूं उसको उसने उसी प्रकार उच्चारण कराया । (तत् ह तथा
शंसमाने गोशलः आजगाम) तब ही वैसा बोले जाने पर गोशल [वेदवाणी का सेवक, ऋषि]
आ गया । ( सः ह उवाच, होतः कथा ते शस्त्रं विचक्रं प्लवते इति ) वह गोशल बोला-
हे होता ! कैसे तेरा स्तोत्र बिना पहिये चलता है। (किं हि अभूत् इति ) [ बुडिल बोला ]
क्या ही [ दोष ] हुआ है। ( एवयामरुत् अयम् उत्तरतः शस्यते [शंसति ] इति ) ।
[ गोशल बोला ] एवयामरुत् सूक्त को यह [ अच्छावाक ] उत्तर ओर से बोलता है । ( सः ह
उवाच, इन्द्रः [ ऐन्द्रः ] वै माध्यन्दिनः, कथा इन्द्रं माध्यन्दिनानि अनीकसि इति )
वही [ गोशल फिर ] बोला—इन्द्र देवता वाला ही माध्यन्दिन सवन है, कैसे इन्द्र को
माध्यन्दिन सूक्तों से तूने निकाला है । ( इन्द्रं माध्यन्दिनानि न अनीषाम् इति ) [बुडिल
बोला ] इन्द्र को माध्यन्दिन सूक्तों से मैंने नहीं निकाला । ( सः उवाच, इदम् उच्छन्दः
तु माध्यन्दिनं साति जागतं वा अतिजागतं वा ) वह [ गोशल ] बोला-यह छन्द तो
माध्यन्दिन के अवसान में जगती छन्द वा अतिजगती छन्द [ तो ठीक है, परन्तु ] ( सः उ
मारुतः, एवं मा संसृष्ट [ शंसिष्ट ] इति ) वह [ स्तोम ] मरुत् देवता वाला है, इस
प्रकार वह [ उसे ] न बोले । ( सः ह उवाच अरम् अच्छावाक इति, अथ अस्मिन् अनु-
शासनम् ईषे ) वह [ बुडिल ] बोला-हे अच्छावाक ! बस [ चुप रह ], क्योंकि इसमें
[ गोशल का ] अनुशासन मैं मानता हूं। ( सः ह उवाच एषः इन्द्रं विष्णू न्यङ्गानि
शंसति=शंसतु ) वह [ गोशल ] बोला—यह अच्छावाक इन्द्र को विष्णु के चिह्नों सहित
न्याः ( बुडिलः ) बुड त्यागे संवरणे च—इलच्, कित् । त्यागी । ऋषिविशेषः
( आश्वितराः ) अश्व—इञ् स्वार्थे+तृ तारण—अप् आश्वीनाम् अश्वानां
बलवत्पुरुषाणां तारकाः ( ईक्षाञ्चक्रे ) विचारितवान् (अभि) अभिलक्ष्य ( प्रच्य-
वेते ) प्रवर्तते ( हन्त ) हर्षोऽस्ति ( इच्छम् ) लङि आर्षरूपम् । ऐच्छम्
( शंसयाञ्चक्रे ) शंसनं कारितवान् ( गोशलः ) गो+श्रिञ् सेवायां—डप्रत्ययः, रस्य
लः । वेदवाणीसेवकः । ऋषिविशेषः ( कथा ) कथम् ( विचक्रम् ) चक्ररहितं
(प्लवते) गच्छति प्रवर्तते (उत्तरतः) उत्तरस्यां दिशि ( अनीकसि ) णीञ्
प्रापणे—लुङ्, आर्षम् । अनैषीः । प्रेरितवान् असि ( अनीषाम् ) लुङ्, आर्षम् ।
अनैषम् । प्रेरितवान् अस्मि ( साति ) ऊतियूतिजूतिसाति० ( पा० ३।३।६७ )
षो अन्तकर्मणि यद्वा षै क्षये—क्तिन्, विभक्तंलुक् । सातौ । अवसाने ( मा
संसृष्ट ) मा शंसिष्ट । शंसनं मा करोतु ( अरम् ) अलम् । पर्याप्तम् ( ईषे ) ईष
गतौ । गच्छामि । प्राप्नोमि ( विष्णूम् ) विष्णोः ( न्यङ्गानि ) लिङ्गानि (होतुः)
५२० गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ६
मन्त्रों [ ऋ० ६ । २० । १-१३ जिसके दूसरे मन्त्र में विष्णु शब्द है और जो इन्द्र देवता
वाला है ] बोले । ( अथ त्वम् होतुः [ होत : ] उपरिष्टात् या रौद्रिया धाय्या, अस्य
मारुतस्य सूक्तस्य पुरस्तात् अपि धाः इति ) और तू हे होता ! अन्त में जो रुद्र देवता
वाली धाय्या है, [ उसको ] इस मारुत सूक्त के पहिले ही धारण कर । ( तथा इति ) ।
[ बुडिल बोला ] वैसा ही हो । ( तत् अपि एतर्हि तथा एव शस्यते, यथा षष्ठे
पृष्ठयाहनि ) वह अब भी वैसा ही बोला जाता है, जैसे पृष्ठयाह यज्ञ के छठे दिन ॥
( यज्ञः एव कल्पते, यजमानस्य प्रजापतिः कल्पते, कथम् अत्र नाभानेदिष्ठः
अशस्तः एव भवति ) यज्ञ ही समर्थ होता है और यजमान का प्रजापालक व्यवहार
समर्थ होता है, कैसे यहां नाभानेदिष्ठ स्तोम बिना बोला हुआ ही रहता है । ( अथ
बालखिल्याः शंसति, रेतः वै अग्रे अथ प्राणाः, एवं ब्राह्मणाच्छंसी [ ब्राह्मणाच्छंसिना ]
नाभानेदिष्ठः अशस्तः एव भवति ) फिर वह बालखिल्य ऋचायें बोलता है, वीर्य ही
पहिले है फिर प्राण हैं, इस प्रकार ब्राह्मणाच्छंसी करके नाभानेदिष्ठ स्तोम बिना बोला हुआ
ही होता है । ( अथ वृषाकपिं शंसति, रेतः वै अग्रे अथ आत्मा, कथम् अत्र यजमा-
नस्य प्रजापतिः कथं प्राणाः अवरुद्धाः भवन्ति इति ) फिर वृषाकपि [वृषाकपि वाले स्तोम]
को वह बोलता है, वीर्य ही पहिले फिर आत्मा होता है, कैसे यहाँ यजमान का प्रजापालक
व्यवहार [ समर्थ होता हैं ], और कैसे प्राण रक्षित होते हैं । ( यजमानं वै एतेन सर्वेण
यज्ञक्रतुना संस्कुर्वन्ति, यथा सः गर्भः योन्याम् अन्तः एव सम्भवन् शेते ) [ उत्तर ] यज-
मान को ही इस सब यज्ञ कर्म से वे संस्कार युक्त करते हैं, जैसे गर्भ गर्भाशय के भीतर ही
उत्पन्न होता हुआ रहता है । ( सर्वं सकृत् एव अग्रे न ह वै सम्भवति, एकैकं वा अङ्गं
सम्भवति ) सब एक बार ही पहिले नहीं समर्थ होता, एक एक ही अङ्ग समर्थ होता है ।
( सर्वाणि चेत् समाने अहनि क्रियेरन्, यज्ञः एव कल्पते, यजमानस्य प्रजापतिः कल्पते )
जो सब [शिल्प स्तोत्र] एक दिन में किये जावें, यज्ञ अवश्य समर्थ होता है, और यजमान का
प्रजापालक व्यवहार समर्थ होता है । ( अथ ह एव एवयामरुतं होता शंसेत्, तस्य अस्य
प्रतिष्ठा, तस्यै एव एनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ) फिर ही एवयामरुत्
स्तोम को होता बोले, उस [ यजमान ] की प्रतिष्ठा है, उस [ प्रतिष्ठा ] के लिए ही इस
[ एवयामरुत् स्तोम ] को अन्त में वह स्थापित करता है, वह स्थापित करता है ॥ ६ ॥
भावार्थः-मनुष्य यज्ञ के अङ्ग अङ्ग के विचार के साथ यज्ञ सिद्धि करके
प्रतिष्ठा पावे ॥ ६ ॥
विशेषः १-इस कण्डिका के लिये देखो पीछे क० ७ । ८ और ऐ० ब्रा० ५ । १५
और ६ । ३०, ३१ ॥
विशेषः २-संकेतित मन्त्रों में से दो मन्त्र यहाँ लिखते हैं, शेष वेद में
देखो-द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् । तं नः सहस्र-
हे होतः ( धाः ) अधाः । धेहि ( प्रजापतिः ) प्रजातिः । जन्म ( अवरुद्धाः ) रक्षिताः
( संस्कुर्वन्ति ) संस्कारयुक्तं कुर्वन्ति ( योन्याम् ) गर्भाशये ( सम्भवन् ) उत्पन्नः सन्
( शेते ) वर्तते ( कल्पते ) समर्थयते ॥