गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
ब्राह्मणम् ॥ ८ ॥
गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ८ ।। १८७
मयोर्देवतयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ७ । अथ यत् प्रातरनुवाक-
मुपयन्ति प्रातर्याव्ण एव तद् देवां देवतां यजन्ते प्रातर्याव्वाणो देवा देवता भवन्ति,
प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ८ । अथ यत् प्रातः
सवनमुपयन्ति वसूनैव तद् देवां देवतां यजन्ते, वसवो देवा देवता भवन्ति वसूनां
देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ९। अथ यन्माध्यन्दिनं सवनमुपयन्ति
रुद्रानेव तत् देवान् देवतां यजन्ते, रुद्रा देवा देवता भवन्ति रुद्राणां देवानां सायुज्यं
सलोकतां यन्ति य एतदुपयन्ति १० । अथ यत्तृतीयसवनमुपयन्त्यादित्यानेव तद्
देवान् देवतां यजन्ते, आदित्या देवा देवता भवन्त्यादित्यानां देवानां सायुज्यं सलो-
कतां यन्ति य एतदुपयन्ति ११ । अथ यदवभृथमुपयन्ति वरुणमेव तद् देवं देवतां
यजन्ते, वरुणो देवो देवता भवति वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य
एतदुपयन्ति १२। अथ यदुदयनीयया यजन्ते दितिमेव तद् देवीं देवतां यजन्ते
अदितिर्देवी देवता भवत्यदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति
१३ । अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद् देवौ देवते यजतो मित्रावरुणौ
देवौ देवते भवतो मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुप-
यन्ति १४। अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारमेव तद् देवं देवतां यजन्ते,
त्वष्टा देवो देवता भवति त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १५ ।
अथ यद् देविकाहविर्भिष्चरन्ति या एता उपसत्सुर्भवन्त्यग्निः सोमो विष्णु-
रिति देव्यो देविका देवता भवन्ति देवीनां देविकानां देवतानां सायुज्यं सलो-
कतां यन्ति य एतदुपयन्ति १६ । अथ यद् दशातिरात्रमुपयन्ति काममेव तद्
देवं देवतां यजन्ते, कामो देवो देवता भवति कामस्य देवस्य सायुज्यं सलोकतां
यन्ति य एतदुपयन्ति १७। अथ यदुदवसानीयया यजन्ते स्वर्गमेव तं लोकं देवं
देवतां यजन्ते स्वर्गो लोको देवो देवता भवति स्वर्गस्य लोकस्य देवस्य सायुज्यं
सलोकतां यन्ति य एतदुपयन्ति १८ । तद्वा एतदग्निष्टोमस्य जन्म स य एवमे-
तदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति, प्रतितिष्ठति
प्रजया पशुभिर्य एवं वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्येतीति
ब्राह्मणम् ॥ ८ ॥
कण्डिका ८ ॥ अठारह प्रकार के यज्ञ और उनके फल,
और अग्निष्टोम ॥
( अथ यत् दीक्षणीयया यजन्ते, तत् श्रद्धाम् एव देवीं देवतां यजन्ते, श्रद्धा
देवी देवता भवति, श्रद्धायाः देव्याः सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति )
फिर जब दीक्षणीया [ इष्टि ] [ क० ७ ] से यज्ञ करते हैं, तब श्रद्धा देवी ही देवता को
पूजते हैं, श्रद्धा देवी देवता [ प्रधान विषय ] होती है, श्रद्धा देवी के सहयोग [ दृढ
८-( यत् ) यदा ( तत् ) तदा ( सायुज्यम् ) सह+युजिर् योगे-क्विप्,
ततो भावे-ष्यञ् । सहयोगम् । दृढसंसर्गम् ( सलोकताम् ) सह एकस्मिन्
१८८ गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ८ ।।
संयोग, पक्के मेल ] और सलोकता [ सहवास ] को वे पाते हैं, जो इस [ कर्म ] को
स्वीकार करते हैं । १ । ( अथ यत् प्रायणीयया यजन्ते, तत् अदितिम् एव देवीं
देवतां यजन्ते, अदितिः देवी देवता भवति, अदित्याः देव्याः सायुज्यं सलोकतां
यन्ति ये एतत् उपयन्ति ) फिर जब प्रायणीया [ इष्टि ] से यज्ञ करते हैं, तब अदिति
[ अखण्ड शक्ति ] देवी ही देवता को पूजते हैं, अदिति देवी देवता होती है,
अदिति देवी के सहयोग और सहवास को वे पाते हैं जो इसको स्वीकार करते हैं । २ ।
( अथ यत् क्रयम् उपयन्ति, तत् सोमम् एव देवं देवतां यजन्ते, सोमः देवः देवता
भवति, सोमस्य देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब
क्रय [ मोल लेना ] स्वीकार करते हैं, तब सोम [ ऐश्वर्यवान् ] ही देव देवता को पूजते
हैं, सोम देव देवता होता है, सोम देव के सहयोग और सहवास को वे पाते हैं जो इसको
स्वीकार करते हैं । ३ । ( अथ यत् आतिथ्यया यजन्ते, तत् विष्णुम् एव देवं देवतां
यजन्ते, विष्णुः देवः देवता भवति, विष्णोः देवस्य सायुज्यं सलोकतां यन्ति [ ये ]
एतत् उपयन्ति ) फिर जब आतिथ्या [ इष्टि ] से यज्ञ करते हैं, तब विष्णु [ व्यापक ]
ही देव देवता को पूजते हैं, विष्णु देव देवता होता है, विष्णु देवता के सहयोग और
सहवास को वे पाते हैं [ जो ] इसको स्वीकार करते हैं । ४ । ( अथ यत् प्रवर्ग्यम्
उपयन्ति तत् आदित्यम् एव देवं देवतां यजन्ते, आदित्यः देवः देवता भवति आदि-
त्यस्य देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब प्रवर्ग्य
[ होमाग्नि ] को स्वीकार करते हैं, तब सूर्य ही देव देवता को पूजते हैं, सूर्य देव देवता
होता है, सूर्य देव के सहयोग और सहवास को वे पाते हैं, जो इसको स्वीकार करते
हैं । ५ । ( अथ यत् उपसदम् उपयन्ति, तत् स्वधाम् एव देवीं देवतां यजन्ते,
स्वधा देवी देवता भवति, स्वधायाः देव्याः सायुज्यं सलोकतां यन्ति ये एतत्
उपयन्ति ) फिर जब उपसद [ पास बैठने, उपासना ] को स्वीकार करते हैं, तब स्वधा
[ अन्न वा स्वधारण शक्ति ] ही देवी देवता को पूजते हैं, स्वधा देवी देवता होती है,
स्वधा देवी के सहयोग और सहवास को वे पाते हैं जो इसको स्वीकार करते हैं । ६ ।
( अथ यत् औपवसथ्यम् अहः उपयन्ति तत् अग्नीषोमौ एव देवौ देवते यजतः
अग्नीषोमौ देवौ देवते भवतः, अग्नीषोमयोः देवतयोः सायुज्यं सलोकतां यन्ति ये
एतत् उपयन्ति ) फिर जब औपवसथ्य अहः [ उपवसथ अर्थात् याग सम्बन्धी दिन के
यज्ञ ] को स्वीकार करते हैं, तब अग्नि और सोम [ जल ] ही दोनों देव देवता पूजे जाते
हैं, अग्नि और सोम दोनों देव देवता होते हैं, अग्नि और सोम देवता के सहयोग और
सहवास को वे पाते हैं जो इसको स्वीकार करते हैं । ७ । ( अथ यत् प्रातरनुवाकम्
उपयन्ति, तत् प्रातर्याव्णः एव देवान् देवतां यजन्ते, प्रातर्यावाणः देवाः देवताः
लोके वासम् ( यन्ति ) प्राप्नुवन्ति ( उपयन्ति ) स्वीकुर्वन्ति ( अदितिम् ) अखण्ड-
शक्तिम् ( यजतः ) इज्येते । पूज्येते ( प्रातर्याव्णः ) कं ७ । प्रातर्गन्तॄन् ( उप-
सत्सुः ) इषेः क्वसुः । ( उ० ३ । १५७ ) उप+षदॢ गतौ-क्वसुः, बहुवचनस्यैक-
वचनम् । उपसत्सवः । समीपे स्थितिशीलाः ( आप्त्वा ) प्राप्य ( तत् ) तेन कर्मणा
( वेद ) जानाति । अन्यद्गतम्-क० ७ ॥
गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ८ ।। १८६
भवन्ति, प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर
जब प्रातरनुवाक [ यज्ञ ] को वे स्वीकार करते हैं, तब प्रातःकाल चलने वाले ही देवों
देवताओं को पूजते हैं, प्रातःकाल चलने वाले देव देवता होते हैं प्रातःकाल चलने वाले
देवों के सहयोग और सहवास को वे पाते हैं जो इसको स्वीकार करते हैं । ८ । ( अथ
यत् प्रातः सवनम् उपयन्ति तत् वसून् एव देवान् देवतां यजन्ते, वसवः देवाः
देवताः भवन्ति, वसूनां देवानां सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर
जब प्रातःसवन [ प्रातःकालीन यज्ञ ] को स्वीकार करते हैं, तब वसु देवों ही [ आठ
वसु—क० ७ ] देवता को पूजते हैं, वसु देव देवता होते हैं, वसु देवताओं के सहयोग
और सहवास को वे पाते हैं, जो इसको स्वीकार करते हैं । ६ । ( अथ यत् माध्यन्दिनं
सवनम् उपयन्ति, तत् रुद्रान् एव देवान् देवतां यजन्ते. रुद्राः देवाः देवताः भवन्ति
रुद्राणां देवानां सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति) फिर जब माध्यन्दिन सवन
[ दोपहर के यज्ञ ] को स्वीकार करते हैं, तब रुद्र देवों ही [ ग्यारह रुद्रों—क० ७ ] देवता
को पूजते हैं रुद्र देव देवता होते हैं, रुद्र देवों के सहयोग और सहवास को वे पाते हैं, जो
इसको स्वीकार करते हैं । १० । ( अथ यत् तृतीयं सवनम् उपयन्ति, तत् आदित्यान्
एव देवान् देवतां यजन्ते, आदित्याः देवाः देवताः भवन्ति, आदित्यानां देवानां
सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब तृतीय सवन [ तीसरे पहर के
यज्ञ ] को स्वीकार करते हैं, तब आदित्य [ बारह महीनों—क० ७ ] देवों देवता को ही
पूजते हैं, आदित्य देव देवता हैं, आदित्य देवों के सहयोग और सहवास को वे पाते हैं जो
इसको स्वीकार करते हैं । ११ । ( अथ यत् अवभृथम् उपयन्ति, तत् वरुणम् एव देवं
देवतां यजन्ते, वरुणः देवः देवता भवति वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति
ये एतत् उपयन्ति ) फिर जब अवभृथ [यज्ञान्त स्नान] को वे स्वीकार करते हैं, तब वरुण
[जल] ही देव देवता को पूजते हैं, वरुण देव देवता होता है, वरुण देव के ही सहयोग और
सहवास को वे पाते हैं, जो इसको स्वीकार करते हैं । १२ । (अथ यत् उदयनीयया यजन्ते
तत् दितिम् एव देवीं देवतां यजन्ते, अदितिः देवी देवता भवति अदित्याः [दित्याः]
देव्याः सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति) फिर जब उदयनीया [इष्टि] से यज्ञ
करते हैं । तब दिति ही [ दोषखण्डक शक्ति ] देवी देवता को पूजते हैं, अदिति [दिति] देवी
देवता होती है, अदिति [ दिति ] के सहयोग और सहवास को वे पाते हैं जो इसको
स्वीकार करते हैं । १३ । ( अथ यत् अनूबन्ध्या यजन्ते तत् मित्रावरुणौ एव देवौ
देवते यजतः, मित्रावरुणौ देवौ देवते भवतः, मित्रावरुणयोः देवयोः सायुज्यं
सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब अनूबन्ध्या [ इष्टि ] से यज्ञ करते हैं तब
मित्र और वरुण ही [ प्राण और अपान ] देव देवता पूजे जाते हैं, मित्र और वरुण दोनों
देव देवता होते हैं, मित्र और वरुण देव के सहयोग और सहवास को वे पाते हैं, जो इस-
को स्वीकार करते हैं । १४ । ( अथ यत् त्वाष्ट्रेण पशुना यजन्ते, तत् त्वष्टारम् एव
देवं देवतां यजन्ते, त्वष्टा देवः देवता भवति त्वष्टुः देवस्य सायुज्यं सलोकतां
यन्ति ये एतत् उपयन्ति ) फिर जब त्वष्टा [ सूक्ष्म बनाने वाले ] को देवता मानने
वाले पशु [ प्राणी अर्थात् आत्मा ] के साथ यज्ञ करते हैं, तब त्वष्टा ही
१६० गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ८ ॥
वाले ] देव देवता को ही पूजते हैं, त्वष्टा देव देवता होता है त्वष्टा देव के सहयोग और
सहवास को वे पाते हैं, जो इसको स्वीकार करते हैं। १५ । ( अथ यद् देविकाः हविर्भिः
चरन्ति याः एताः उपसत्सुः भवन्ति, अग्निः, सोमः, विष्णुः इति द्वेव्यः देविकाः
देवताः भवन्ति, देवींनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति ये एतत्
उपयन्ति ) फिर जो देविकायें [ व्यवहार कुशल देवियां ] हवियों [ ग्राह्य पदार्थों ] से
काम करती हैं, जो समीप बैठने वाली होती हैं, अग्नि, सोम [ ऐश्वर्यवान् ] विष्णु व्यापक
यह देवी देविकायें देवता होती है, देवियों, देविकाओं, और देवताओं के सहयोग और
सहवास को वे पाते हैं, जो इसको स्वीकार करते हैं। १६ । ( अथ यत् दशातिरात्रम्
उपयन्ति, तत् कामम् एव देवं देवतां यजन्ते कामः देवः देवता भवति, कामस्य
देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब दशातिरात्र [ यज्ञ ]
को वे स्वीकार करते हैं, तब काम [ श्रेष्ठ इच्छा ] ही देव देवता को पूजते हैं, काम देव
देवता होता है, काम देव के सहयोग और सहवास को पाते हैं, जो इसको स्वीकार करते
हैं। १७ । ( अथ यद् उदवसानीयया यजन्ते, तं स्वर्गम् एव लोकं देवं देवतां यज-
न्ते, स्वर्गः लोकः देवः देवता भवति, स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां
यन्ति ये एतत् उपयन्ति ) फिर जब उदवसानीया [ उत्तम समाप्ति योग्य इष्टि ]
से यज्ञ करते हैं, उस स्वर्ग लोक ही देव देवता को पूजते हैं, स्वर्ग लोक देव देवता [ प्रधान
विषय ] होता है, स्वर्ग लोक देव के सहयोग [ पक्के मेल ] और सहवास [ एक स्थान में
निवास ] को वे पाते हैं जो इसको स्वीकार करते हैं ॥ १८ ॥
( तत् वै एतत् अग्निष्टोमस्य जन्म ) सो यही अग्निष्टोम यज्ञ का जन्म है । ( यः
एवम् एतत् अग्निष्टोमस्य जन्म वेद, सः तत् अग्निष्टोमम् आप्त्वा एव स्वर्गे लोके
प्रतितिष्ठति ) जो इस प्रकार इस अग्निष्टोम के जन्म को जानता है, वह उससे अग्निष्टोम
को पाकर ही स्वर्ग लोक में ठहरता है। (प्रजया पशुभिः प्रतितिष्ठति यः एवं वेद,
अग्निष्टोमेन सात्मा सलोकः भूत्वा देवान् अप्येति इति ब्राह्मणम् ) वह प्रजा
[ संतान आदि ] से और पशुओं से प्रतिष्ठा पाता है और वही अग्निष्टोम के साथ एक
आत्मा वाला और एक निवास वाला होकर उत्तम गुणों को पाता है - यह ब्राह्मण
[ ब्रह्मज्ञान ] है ॥ ८ ॥
भावार्थः-कण्डिका ७ के समान है ॥ ८ ॥
विशेषः १-इस कण्डिका का मिलान कण्डिका ७ से करो।
२-प्रकरण मिलाने से जान पड़ता है कि [ विश्वेभ्यो देवेभ्यः१ दशरात्रं
दिग्भ्यो दशरात्रिकं पृष्ठ्यं षडहमहेभ्यो लोकेभ्यः छन्दोमत् त्र्यहं संवत्सरात् दशम-
महः प्रजा-] इतना विषय कण्डिका ६ के [ गवायुषी ] पद के पीछे का कण्डिका आठ
में छप गया है। यह भूल एशियाटिक सुसैटी के पुस्तक और जीवानन्द सं. दोनों में है।
हमने पुस्तक का मूल और अपना भाष्य प्रकरण के अनुसार ठीक कर दिया है ॥
१. यह पाठ जर्मन सं. में यथास्थान ६ वीं कण्डिका में है ॥ सम्पा० ॥