गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका ११ ॥
१५२ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० ११ ॥
कण्डिका ११ ॥
अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छेद् गोतम इति, पृच्छ
प्राचीनयोग्येति । किन्देवत्यं ते गवीडायां १, किन्देवत्यमुपहूतायां २, किन्देवत्य-
मुपसृष्टायां ३, किन्देवत्यं वत्समुन्नीयमानं ४, किन्देवत्यं वत्समुन्नीतम् ५, किन्दे-
वत्यं दुह्यमानं ६, किन्देवत्यं दुग्धं ७, किन्देवत्यं प्रक्रम्यमाणं ८, किन्देवत्यं ह्रिय-
माणं ९, किन्देवत्यमधिधिश्रियमाणं १०, किन्देवत्यमधिश्रितं ११, किन्देवत्यमभ्य-
ज्वाल्यमानं १२, किन्देवत्यमभ्यवज्वालितं १३, किन्देवत्यं समुद्वान्तं १४, किन्दे-
वत्यं त्रिष्यन्नं १५, किन्देवत्यमद्भिः प्रत्यनीतं १६, किन्देवत्यमुद्वास्यमानं १७,
किन्देवत्यमुद्वासितं १८, किन्देवत्यमुन्नीयमानं १९, किन्देवत्यमुन्नीतम् २०, किन्दे-
वत्यं प्रक्रम्यमाणं २१, किन्देवत्यं ह्रियमाणं २२, किन्देवत्यमुपसाद्यमानं २३, किन्दे-
वत्यमुपसादितं २४, किन्देवत्या समित् २५, किन्देवत्यां प्रथमामाहुतिमहौषीः २६,
किन्देवत्यं गार्हपत्यमवेक्षिष्ठाः २७, किन्देवत्योत्तराहुतिः २८, किन्देवत्यं हुत्वा
स्रुचं त्रिरुदञ्चमुदनैषीः २९, किन्देवत्यं बर्हिषि स्रुचन्निधायोन्मृज्योत्तरतः पाणी
निरमा१क्षीः ३०, किन्देवत्यं द्वितीयमुन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः
स्वधामकार्षीः ३१, किन्देवत्यं प्रथमं प्राशीः ३२, किन्देवत्यं द्वितीय ३३, किन्दे-
वत्यमन्ततः सर्वमेवाप्राशीः ३४, किन्देवत्यमप्रक्षालितयोदकं स्रुचा न्यनैषीः ३५,
किन्देवत्यं प्रक्षालितया ३६, किन्देवत्यमपरेणाहवनीयमुदकं स्रुचा न्यनैषीः ३७,
किन्देवत्यं स्रुवं स्रुवञ्च प्रत्यताप्सीः ३८, किन्देवत्यं रात्रौ स्रुग्दण्डमवा२मार्क्षीः
३९, किन्देवत्यं प्रातरुदमा३र्क्षीरित्थेत्तच्चेद्ध्वेत्थ ४०, गोतम हुतं, यदि४ न वेत्थाहतं
त इति ब्राह्मणम् ॥ ११ ॥
कण्डिका ११ ॥ प्राचीनयोग्य मुनि के उद्दालक से
अग्निहोत्र विषयक चालीस प्रश्न ॥
( अथ ह प्राचीनयोग्यः आजगाम ) फिर प्राचीनयोग्य [ सनातन वेदों में समर्थ
मुनि विशेष ] आया । ( अग्निहोत्रं भवन्तं पृच्छेत् गोतम इति ) [ उसने कहा ]
अग्निहोत्र को आपसे यह पूंछेगा, हे गोतम ! ( पृच्छ प्राचीनयोग्य इति ) [ उद्दालक ने
कहा—क० ६ ] पूंछ, हे प्राचीनयोग्य । [ प्राचीनयोग्य बोला ] ( किंदेवत्यं ते इडायां
गवि १ ) तेरी इडा [ पाने योग्य ] गो [ यज्ञ के लिये दूध देने वाली कामधेनु ] में कौन
देवता वाला कर्म है १, ( किंदेवत्यम् उपहूतायाम् २ ) उस बुलायी हुई में कौन देवता
वाला कर्म है २, ( किंदेवत्यम् उपसृष्टायाम् ३ ) उस पास आयी हुई में कौन देवता
११—(प्राचीनयोग्यः) प्राचीनेषु सनातनेषु वेदेषु योग्यः समर्थः । मुनिविशेषः
(किन्देवत्यम्) किम्+देवता—यत् । किंदेवताविषयकं कर्म (गवि) यज्ञार्थं दुग्धदात्र्यां
१. पू० सं० "निर्माक्षीः" इति पाठः ॥ २. पू० सं० अवमार्क्षीः इति पाठः ॥
३. पू० स० उन्मार्क्षीः इति पाठः ॥
४. पू० सं० 'चेद्यद्यु न' इति पाठः । जर्मनसंस्करणे यद्यु न इति पाठः, अस्माभिः 'यदि न'
संशोधितः ॥ सम्पा० ॥
वाला कर्म है ३, (वत्सम् उन्नीयमानम् किंदेवत्यम् ४) बछड़े को लाया जाता हुआ
कर्म कौन देवता वाला है ४, (वत्सम् उन्नीतं किंदेवत्यम् ५) बछड़ा लाया गया कर्म
कौन देवता वाला है ५, (दुह्यमानं किंदेवत्यम् ६) दुहता हुआ कर्म क्या देवता है ६,
(दुग्धं किंदेवत्यम् ७) दूध क्या देवता है ७, (प्रक्रम्यमाणं किंदेवत्यम् ८) घुमाया
जाता हुआ [दूध] क्या देवता है ८, (ह्रियमाणं किंदेवत्यम् ९) लिया जाता हुआ
[दूध] क्या देवता है ६, (अधिश्रियमाणं किंदेवत्यम् १०) रक्खा जाता हुआ दूध
क्या देवता है १०, (अधिश्रितं किंदेवत्यम् ११) रक्खा गया दूध क्या देवता है ११,
(अभ्यवज्वाल्यमान किंदेवत्यम् १२) औंटता हुआ दूध क्या देवता है १२, (अभ्य-
वज्वालितं किंदेवत्यम् १३) औंटा हुआ दूध क्या देवता है १३, (समुद्वान्तं
किंदेवत्यम् १४) उफनता हुआ दूध क्या देवता है १४, (विष्यन्नं किंदेवत्यम् १५)
बहता हुआ दूध क्या देवता है १५, (अद्भिः प्रत्यानीतं किंदेवत्यम् १६) जल से
लौटा दिया गया दूध क्या देवता है १६. (उद्वास्यमानं किंदेवत्यम् १७) छोड़ा जाता
हुआ दूध क्या देवता है १७, (उद्वासितं किंन्देवत्यम् १८) छोड़ा हुआ दूध क्या
देवता है १८, (उन्नीयमानं किंदेवत्यम् १९) ऊपर लाया जाता हुआ [नवनीत = माखन]
क्या देवता है १९, (उन्नीतं किंदेवत्यम् २०) ऊपर लाया गया नवनीत क्या देवता
है २०, (प्रक्रम्यमाणं किंदेवत्यम् २१) घुमाया जाता हुआ नवनीत क्या देवता है २१,
(ह्रियमाणं किंदेवत्यम् २२) लिया जाता हुआ नवनीत क्या देवता है २२, (उप-
साद्यमानं किंदेवत्यम् २३) पास लाया जाता हुआ नवनीत क्या देवता है २३, (उपसादितं
किंदेवत्यम् २४) पास रक्खा गया नवनीत क्या देवता है २४, (समित् किंदेवत्या
२५) समिधा कौन देवता वाली है २५, (किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः २६)
कौन देवता वाली पहिली आहुति को तूने दिया है २६, (किंदेवत्यं गार्हपत्यम्
अवेक्षिष्ठाः २७) कौन देवता वाली गार्हपत्य अग्नि वाली हवि को तूने विचारा है २७,
(किंदेवत्या उत्तरा आहुतिः २८) कौन देवता वाली पिछली आहुति हैं २८,
(किंदेवत्यं हुत्वा उदञ्चं स्रुचं त्रिः उदनंषीः २९) कौन देवता वाली हवि को देकर
उत्तर की ओर रक्खी हुई स्रुचा [वट के पत्ते के समान रूप वाला विकङ्कत काठ का बना
हुआ भुजा तुल्य चमच] को तीन बार तूने उठाया है २६, (किंदेवत्यं स्रुचं बर्हिषि
निधाय उन्मृज्य उत्तरतः पाणी निरमार्क्षीः ३०) कौन देवता वाली स्रुचा
को कुशासन पर धर के ओर धोके उत्तर की ओर दोनों हाथों को तूने धोया है ३०,
(किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम्
धेनो (इडायान्) इल गतौ कः, टाप् । प्रापणीयायां गवि (उपमृष्टायाम्)
संगतायाम् (वत्सम्) गोशिशुम् (प्रक्रम्यमाणम्) मध्यमानम् (ह्रियमाणम्) निः-
स्रियमाणम् (समुद्वान्तम्) सम् + उद् + टुवम उद्गिरणे-क्तः । उद्गीर्णम् । उद्गतम्
(विष्यन्नम्) वि + ष्यन्दू प्रस्रवणे-क्तः । प्रस्रुतम् (उद्वास्यमानम्) विसृज्यमानम्
(उद्वासितम्) विसृष्टम् (उपसादितम्) समीपे स्थापितम् (अहौषीः) हु दानादनयोः-
लुङ् । हुतवान् असि (अवेक्षिष्ठाः) अव + ईक्ष दर्शने-लुङ्, आडभावः । दृष्टवानसि
(स्रुचम्) यज्ञपात्रम् (उदञ्चम्) उदङ्मुखं कृत्वा (उत्तरतः) उत्तरस्यां दिशि