गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका ३१ ॥
Here is the accurate transcription of the provided Vedic Brahmana page into pure Markdown in Unicode Devanagari.
५४ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३१ ॥
वाकोवाक्यम् इति ब्राह्मणम् ) सभी [ उपर्युक्त ] प्रश्नोत्तरात्मक स्थलों में यही ब्राह्मण
[ ब्रह्मज्ञान ] है ॥ ३० ॥
भावार्थः-मनुष्य को चाहिये कि ओम् को सर्वाधार जानकर उसका चिन्तन करता
हुआ आत्म-सामर्थ्य बढ़ावे और विषय को भली भांति समझ कर ठीक ठीक अर्थ का ग्रहण
करे ॥ ३० ॥
कण्डिका ३१ ॥
एतद्ध स्मैतद् विद्वांसमेकादशाक्षमौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम ।
स तस्मिन् ब्रह्मचर्यं वसतो¹ विज्ञायोवाच किं स्विन्मर्यादा² अयं तं मौद्गल्यो
अध्येति यदस्मिन् ब्रह्मचर्यं वसतीति तद्धि मौद्गल्यस्यान्तेवासी शुश्राव स
आचार्यायाव्रज्याचचष्टे, दुरधीयानं वा अयं भवन्तमवोचद्योऽयमद्यातिथिर्भवति ।
किं सोम्य विद्धानीति । त्रीन् वेदान् ब्रूते भो३ इति तस्य सौम्य यो विस्पष्टो विजि-
गीषोऽन्तेवासी तन्मे ह्वयेति, तमाजुहाव, तमभ्युवाचासाविति भो३ इति किं सोम्य
त आचार्य्योऽध्येतीति, त्रीन् वेदान् ब्रूते भो३ इति, यन्नु खलु सौम्यासमाभिः सर्वे
वेदा मुखतो गृहीताः कथन्त एवमाचार्य्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं
भाषेरन् यं ह्येनमहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्येनमध्यैतीति । स ह
मौद्गल्यः स्वमन्तेवासिनमुवाच, परेहि सोम्य ग्लावं मैत्रेयमुपसीदाधीहि भोः
सावित्रीं गायत्रीञ्चतुर्विंशतियोनिं द्वादशमिथुनां यस्या भृग्वाङ्गिरसश्चक्षुर्यस्यां सर्व-
मिदं श्रितं, तां भवान् प्रब्रवीत्विति स चेत्सोम्य दुरधीयानो भविष्यत्याचार्य्योवाच
ब्रह्मचारी ब्रह्मचारिणे सावित्रीं प्राहैति वक्ष्यति, तत्त्वं ब्रूयात् दुरधीयानन्तं वै
भवान् मौद्गल्यमवोचत् स त्वा यं प्रश्नमप्राक्षीन्न तं व्यवोचः पुरा संवत्सरादार्त्ति-
मार्कुप्स्यसीति ॥ ३१ ॥
कण्डिका ३१ ॥ मौद्गल्य और मैत्रेय की कथा ॥
( एतद् ह स्म एतत् ) यह बहुत प्रसिद्ध है— विद्वांसम् एकादशाक्षम्
मौद्गल्यम् ग्लावः मैत्रेयः अभ्याजगाम ) विद्वान् [ दो कान, दो आंख, दो नथने,
एक मुख, एक ब्रह्मरन्ध्र एक नाभि, एक उपस्थ एक पायु ] ग्यारह इन्द्रियों से युक्त शरीर
वाले [ सर्वथा स्वस्थ ] मौद्गल्य [ मुद्गल ऋषि के सन्तान ] के पास ग्लाव [ चन्द्र-
आत्मज्ञानफलम् (पदम्) सुप्तिङन्तं पदम् (पा० १ । ४ । १४) (विषयी)
इन्द्रियगोचरज्ञानयुक्तः । ( वाकोवाक्यम् ) क० २१ द्र० ।
३१–( एकादशाक्षम् ) अक्षू व्याप्तौ—अच् । नासिकाश्रोत्रनेत्राणां द्वयं द्वयं
मुखमेकं ब्रह्मरन्ध्रमेकं नाभ्या सहाधःस्थानि त्रीणि, इत्थमेकादश अक्षाणि इन्द्रि-
याणि यस्मिन् तच्छरीरम्, ततः अर्शआद्यच् । एकादशेन्द्रिययुक्तशरीरवन्तं
१. पू० सं० "वसतीति" इति पाठः । सम्पा० ॥
२. अत्र जर्मनसंस्करगे 'मर्या' इति पाठः । सोऽपि युक्तः । तथा च "मर्या इति मनुष्यनाम
मर्यादामिधानं वा स्यात् । मर्यादा मर्येरादीयते" इति निरुक्तम् ४ । २ ॥ सम्पा० ॥
गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३१ ॥ ५५
वंशीय ] मैत्रेय [ मित्रयु का शिष्य ] आया । ( सः तस्मिन् ब्रह्मचर्यं वसतः
विज्ञाय उवाच ) वह [ मौद्गल्य में ] उस [ स्थान ] पर ब्रह्मचर्य्य [ वेदाभ्यास और
इन्द्रियनिग्रह ] से रहते हुये का ज्ञान कर [ मैत्रेय ] बोला-( किं स्वित् मर्यादाः
अयं मौद्गल्यः तम् अध्येति यत् अस्मिन् ब्रह्मचर्य्यं वसति इति ) यह क्या मर्यादायें
[ प्रशस्त जीवन पद्धतियां ] हैं [ जिनको सीखने के लिये ] यह मौद्गल्य उस [ वेद ]
को पढ़ता है जिसके लिये इस ब्रह्मचर्य्य में मनुष्य रहता है [ अर्थात् वेदाभ्यास के लिए
इतना ब्रह्मचर्य करना ठीक नहीं है ] । ( तत् हि मौद्गल्यस्य अन्तेवासी शुश्राव )
यह बात मौद्गल्य के शिष्य ने सुनी । ( सः आचार्य्याय आव्रज्य आचचष्टे ) वह
आचार्य से आकर बोला-( अयं भवन्तं वै दुरधीयानम् अवोचत् यः अयम् अद्य
अतिथिः भवति ) इसने आपको निश्चय करके कुपढ़ बताया है जो यह आज अतिथि
है । [ मौद्गल्य ने कहा ] ( किं सौम्य विद्वान् इति ) हे सौम्य ! [ प्रियदर्शन ]
क्या वह विद्वान् है ? [ शिष्य बोला ] ( त्रीन् वेदान् ब्रूते भो३ इति ) महाराज !
वह तीनों वेद बोलता है । [ मौद्गल्य ने कहा ] ( सौम्य विजिगीषो तस्य यः
विस्पष्टः अन्तेवासी तम् मे ह्वय इति ) हे प्रियदर्शन, जीतने की इच्छा करने वाले !
उसका जो विशेष करके स्पष्ट शिष्य है, उसे मेरे पास बुला । ( तम् आजुहाव ) वह
[ शिष्य ] उसे बुला लाया, ( तम् अभ्युवाच ) और उस [ मौद्गल्य ] से बोला- ( असौ
इति भो३ इति ) महाराज ! वह यह है । [ मौद्गल्य ने कहा ] ( सौम्य ते आचार्यः
किम् अध्येति इति ) हे प्रियदर्शन ! तेरा आचार्य क्या पढ़ता है । [ वह बोला ] ( त्रीन्
वेदान् ब्रूते भो३ इति ) महाराज ! वह तीनों वेदों को बोलता है । [ मौद्गल्य ने कहा ]
( सौम्य यत् नु खलु अस्माभिः सर्वे वेदाः मुखतः गृहीताः कथं ते आचार्यः एवं
भाषते ) हे सौम्य ! क्योंकि हमने सब वेद मुख से ग्रहण किये हैं, तेरा आचार्य कैसे ऐसा
कहता है । ( कथं नु शिष्टाः शिष्टेभ्यः एवं भाषेरन् ) कैसे शिष्ट लोग शिष्टों से
ऐसा बोलें । ( यं हि एनं प्रश्नम् अहं पृच्छामि न तं विवक्ष्यति न हि एनम् अध्येति
इति ) जिस इस प्रश्न को मैं पूछता हूँ [ जो ] उसको वह न बतायेगा, वह इस [ वेद ]
को नहीं पढ़ता है । ( सः ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच ) फिर वह
मौद्गल्य अपने शिष्य से बोला-( सौम्य परेहि ग्लावं मैत्रेयम् उपसीद ) हे प्रियदर्शन !
· सर्वथास्वास्यम् ( मौद्गल्यम् ) मुदिग्रोगंगौ ( उ० १ । १८८ ) मुद हर्षे - गक् ।
मुद्गं हर्ष लाति गृह्णातीति । मुद्ग + ला आदाने-कः । मुद्गलो मुनिः । ततः
ष्यञ् । मुद्गलस्य सन्तानम् (ग्लावः) ग्लानुदिभ्यां डौः ( उ० २ । ६४ ) ग्लै हर्षक्षये
डौः । ग्लौश्चन्द्रः । ग्लौ-अण् । चन्द्रवंशीयः ( मैत्रेयः ) मृग्य्वादयश्च ( उ०
१ । ३७ ) मित्र+या प्रापणे कुः । मित्रयुर्लोकव्यवहारवित् । मित्रयोः अपत्य-
मिति । गृष्ट्यादिभ्यश्च ( पा० ४ । १ । १३६ ) मित्रयु-ढञ् । दाण्डिनायनहास्ति-
नायन ० ( पा० ६ । ४ । १७४ ) युशब्दलोपः । मैत्र-एय । यस्येति च ( पा० ६ ।
४ । १४८ ) मैत्र इत्यस्य अकारलोपः । मित्रयोरपत्यं पुमान् ( अन्तेवासी )
अन्ते + वस निवासे-णिनिः । क्षयवासवासिस्र्वकालात् ( पा० ६ । ३ । १८ ) सप्तम्या