गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका २६ ॥
३०२ गोपथब्राह्मणे उत्तरभागे प्र० १ । क० २६
कण्डिका २६ ॥
त्रयोदशं वा एतं मासमाप्नोति, यच्छुनासीर्येण यजते, एतावान्वै संवत्सरः,
यावानेष त्रयोदशो मासः। अथ यदग्निं प्रणयन्ति, यमेवामुं वैश्वदेवे मन्थन्ति,
तमेव तत् प्रणयन्ति, यन्मथ्यते, तस्योक्तं ब्राह्मणं, यद्यु न मथ्यते पौर्णमासमेव
तन्त्रं भवति, प्रतिष्ठा वै पौर्णमासं, प्रतिष्ठित्यै एव । अथ यद्वायुं यजति, प्राणो
वै वायुः प्राणमेव तेन प्रीणाति । अथ यच्छुनासीरं यजति. संवत्सरो वै
शुनासी१रः, संवत्सरमेव तेन प्रीणाति । अथ यत्सूर्य्यं यजति, असौ वै सूर्य्यः,
योऽसौ तपति, एतमेव तेन प्रीणाति । अथ यच्छ्वेता दक्षिणा ददाति, एतस्यैव
तद्रूपं क्रियते । अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति, स्वस्त्ययनमेव तत् कुर्वन्ति,
यज्ञस्यैव शान्तिर्यजमानस्य भेषज्याय । तैर्वा एतैश्चातुर्मास्यैर्देवाः सर्वान् कामा-
नाप्नुवन्, सर्वा इष्टीः सर्वममृतत्वम् । स वा एष प्रजापति२श्चतुर्विंशः, यच्चा-
तुर्मास्यानि, तस्य मुखमेव वैश्वदेवं, बाहू-वरुणप्रघासाः प्राणोऽपानो व्यान इत्ये-
तास्तिस्र इष्टयः, आत्मा महाहविः, प्रतिष्ठा शुनासीरं स वा एष प्रजापतिरेव
संवत्सरः, यच्चातुर्मास्यानि, सर्वं वै प्रजापतिः, सर्वं चातुर्मास्यानि, तत्सर्वेणैव
सर्वमाप्नोति य एवं वेद यश्चैवं विद्वांश्चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते ॥ २६ ॥
इति अथर्ववेदस्य गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः समाप्तः ॥
कण्डिका २६ ॥ तेरहवें महीने और शुनासीर यज्ञ के साथ अग्नि, वायु,
सूर्य, संवत्सर और चातुर्मास्यों का वर्णन ॥
( त्रयोदशं वै एतं मासम् आप्नोति, यत् शुनासीर्येण यजते ) तेरहवें ही
इस महीने को वह [ यजमान ] प्राप्त होता है जो शुनासीर [ इन्द्र, वायु वा सूर्य-आगे
देखो ] देवता वाले हवि से यज्ञ करता है । ( एतावान् वै संवत्सरः, यावान् एषः
त्रयोदशः मासः ) इतना ही संवत्सर [ यज्ञ ] है जितना [ जहां तक ] यह तेरहवां
महीना है । ( अथ यत् अग्निं प्रणयन्ति, यम् एव अमुं वैश्वदेवे मन्थन्ति तम् एव
तत् प्रणयन्ति ) फिर जब अग्नि को आगे लाते हैं, जिस उस [ अग्नि ] को ही वैश्वदेव
यज्ञ में मथते हैं उसको ही उससे आगे लाते हैं, ( यत् मथ्यते, तस्य ब्राह्मणम् उक्तम् )
जो वह [ अग्नि ] मथा जाता है, उसका ब्राह्मण कहा गया है [ क० २१ ] । ( यदि उ न
मथ्यते पौर्णमासम् एव तन्त्रं भवति ) जो वह [ अग्नि ] अब नहीं मथा जाता है,
पौर्णमास यज्ञ ही प्रधान होता है, ( पौर्णमासं वै प्रतिष्ठा, प्रतिष्ठित्यै एव ) पौर्णमास
२६--(शुनासीर्येण) द्यावापृथिवीशुनासीरमरुत्व० ( पा० ४ । २ । ३२)
शुनासीर-यत् । शुनासीरदेवताकेन यज्ञेन ( तन्त्रम् ) तनु विस्तारे-ष्ट्रन् । तन्त्रि
कुटुम्बधारणे-घञ् वा । कुटुम्बकृत्यम् । प्रधानम् ( प्रतिष्ठा ) यज्ञसमाप्तिः ।
१. जर्मनसंस्करणे सर्वत्र "शुनासीर" इत्येव पाठः ॥
२. अत्र ज. सं. "संवत्सरः" इत्यधिकः पाठः ॥ सम्पा० ॥
गोपथब्राह्मणे उत्तरभागे प्र० १ । क० २६ ३०३
यज्ञ ही प्रतिष्ठा [ यज्ञ की समाप्ति का व्रत ] है, वह प्रतिष्ठा [ कीर्ति ] के लिये ही है।
( अथ यत् वायुं यजति, प्राणः वै वायुः, प्राणम् एव तेन प्रीणाति ) फिर जब वायु
को यज्ञ करता है, प्राण ही वायु है, प्राण को ही उससे वह तृप्त करता है। ( अथ यत्
शुनासीरं यजति, संवत्सरः वै शुनासीरः, संवत्सरम् एव तेन प्रीणाति ) फिर जब
शुनासीर [ सुन्दर बड़ी वीर अग्रगामी सेना वाले सेनापति इन्द्र ] को यह यज्ञ करता है,
संवत्सर ही शुनासीर [ बड़े सेनापति के समान ] है, संवत्सर को ही उससे वह तृप्त
करता है। ( अथ यत् सूर्य्यं यजति, असौ वै सूर्य्यः, यः असौ तपति, एतम् एव तेन
प्रीणाति ) फिर जब सूर्य को यज्ञ करता है, वही सूर्य है जो वह तपाता है, इसको ही उससे
वह तृप्त करता है। ( अथ यत् शेताः दक्षिणाः ददाति, एतस्य एव तत् रूपं क्रियते )
फिर जब शेता [ सूक्ष्म कर्म करने वाला यजमान ] दक्षिणावें देता है, इस [ यजमान ] का
ही वह रूप किया जाता है। ( अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति, स्वस्त्ययनम्
एव तत् कुर्वन्ति ) फिर जब प्रायश्चित [ पापशोधन ] रूप प्रतिनिधि यज्ञ करते हैं,
स्वस्त्ययन [ स्वस्तिवाचन ] ही तब वे करते हैं, ( यज्ञस्य एव शान्तिः यजमानस्य
भैषज्याय) यज्ञ की ही शान्ति यजमान की ओषधि के लिये है। ( तैः वै एतैः चातुर्मास्यैः
देवाः सर्वान् कामान् सर्वाः इष्टीः सर्वम् अमृतत्वम् आप्नुवन् ) उन ही इन चातुर्मास्य
यज्ञों से देवताओं ने सब कामनाओं, [ अर्थात् ] सब इष्टियों [ सत्क्रियाओं ] और सब
अमरपन को पाया है। ( सः वै एषः प्रजापतिः चतुर्विंशः, यत् चातुर्मास्यानि ) वह
ही यह प्रजापति चौबीस अवयव [ अर्धमास ] वाला है, जो चातुर्मास्य यज्ञ हैं, ( तस्य मुखम्
एव वैश्वदेवम्, बाहू वरुणप्रघासाः, प्राणः अपानः व्यानः इति एताः तिस्रः इष्टयः,
आत्मा महाहविः प्रतिष्ठा शुनासीरम् ) उस [ प्रजापति ] का मुख ही वैश्वदेव यज्ञ है,
दोनों भुजायें श्रेष्ठ अन्न हैं, प्राण, अपान, व्यान यह तीन इष्टियां [ यज्ञ ] हैं, आत्मा
महाहवि है, प्रतिष्ठा [ ठहराव वा आश्रय ] शुनासीर [ इन्द्र का हवि ] है। ( सः वै एषः
प्रजापतिः एव संवत्सरः, यत् चातुर्मास्यानि ) वह ही यह प्रजापति ही संवत्सर है जो
चातुर्मास्य हैं। ( सर्वं वै प्रजापतिः, सर्वं चातुर्मास्यानि, तत् सर्वण एव सर्वम्
आप्नोति, यः एवं वेद यः च एवं विद्वान् चातुर्मास्यैः यजते चातुर्मास्यैः यजते )
सब ही प्रजापति है, सब ही चातुर्मास्य हैं, इस लिये सबके साथ ही वह सब पाता है, जो
ऐसा जानता है और जो ऐसा विद्वान् चातुर्मास्य यज्ञों से यज्ञ करता है, चातुर्मास्य यज्ञों से
यज्ञ करता है ॥ २६ ॥
स्थितिः । आश्रयः ( शुनासीरः, शुनासीरः ) कृशृपृकटिपटिशौटिभ्य ईरन् ( उ० ४ ।
३० ) सु+णासु शब्दे-ईरन्, सस्य शः विकल्पेन । सुष्ठु नासीरम् अग्रसैन्यं यस्य
सः । सेनापतिरिन्द्रः । शुनासीरौ शुनो वायुः शु अत्यन्तरिक्षे सीरः आदित्यः सरणात्-
निरु० ६ । ४० ( शेता ) शित् निशाने-तृच् । सूक्ष्मकर्मा । यजमानः ( प्रायश्चित्त-
प्रतिनिधिम् ) पापशोधनप्रतिनिधिरूपं यज्ञम् ( इष्टीः ) यजेः-क्तिन् । क्रियाः
( वरुणप्रघासाः ) श्रेष्ठानानि ॥