सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

कण्डिका १५ ॥

गोपथब्राह्मणे पूर्वभागे प्र० २ । क० १५ १०५
भावार्थ:—मनुष्यों को चाहिये कि भौतिक यज्ञ के साथ आत्मिक यज्ञ का विचार
करते रहें ॥ १४ ॥
कण्डिका १५ ॥
अदितिर्वै प्रजाकामौदनमपचत् तत उच्छिष्टमाश्नात् सा गर्भमधत्त, तत
आदित्या अजायन्त, य एष ओदनः पच्यत आरम्भणमेवैतत् क्रियते आक्रमण-
मेव प्रादेशमात्रीः समिधो भवन्त्येतावान् ह्यात्मा प्रजापतिना सम्मितो ऽग्नेर्वै
या यज्ञिया तनूरश्वत्थे तया समगच्छत एषा स्वधृत्या तनूर्यद् घृतम्, यद्
घृतेन समिधो अनक्ति ताभ्यामेवैनं तन्तूभ्यां समर्द्धयति यन्निर्मार्गस्यादधात्यव-
कूत्या वै वीर्यं क्रियते यन्निर्मार्गस्यादधात्यवकूत्या एव संवत्सरो वै प्रजननमनग्निः
प्रजननमेतत् प्रजननं यत्संवत्सर ऋचाऽग्नौ समिधमादधाति, प्रजननादेवैनन्तत्
प्रजनयिता प्रजनयत्यभक्तुर्वे पुरुषो न हि तद्वेद यदृतुमभिजायते, यन्नक्षत्रं
तदाप्नोति, य एष ओदनः पच्यते, योनिरेवैषा क्रियते, यत्समिध आधीयन्ते रेत-
स्तत् ध्रियते संवत्सरो वै रेतो हितं प्रजायते, ये संवत्सरे पर्य्येतेऽग्निमाधत्ते
प्रजापतिरेवैनमाधत्ते, द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयात्ता हि संवत्सरस्य
प्रतिमा अथो तिसृष्वथो द्वयोरथो पूर्वद्युराधेयात् ते वा अग्निमादधानेनादित्या
वा इत उत्तरमेव मेऽमुष्मिंल्लोक आयंस्ते पथि रक्षन्त इयन्तदु यक्ष्यमाणं प्रतिनु-
दन्त उच्छेषणभाजा वा आदित्या यदुच्छिष्टं यदुच्छिष्टेन समिधो अनक्ति तेभ्य
एव प्रोवाच तेभ्य एव प्रोच्य स्वर्गंलोकं यन्ति ॥ १५ ॥
कण्डिका १५ ॥ अदिति की सृष्टि रचना के दृष्टान्त से
भौतिक यज्ञ की रचना ॥
( प्रजाकामा अदितिः वै ओदनम् अपचत् ) सन्तान चाहने वाली अदिति
[ अदीन और अखण्ड परमेश्वर शक्ति ] ने सींचने वाला भात वा अन्न पकाया [ परमाणुओं
को चलाया ], ( ततः उच्छिष्टम् आश्नात् ) फिर बचे हुये को खाया [ प्रलय से पीछे
बचे संयोग वियोग सामर्थ्य को काम में लाया ] । ( सा गर्भम् अधत्त ) उसने गर्भ धारण
लिङ् । अवशिष्टं भवेत् ( पर्य्युपासीरन् ) परि + उप + आस उपवेशने—विधिलिङ् ।
उपविशेयुः ॥
१५—( अदितिः ) कृत्यल्युटो बहुलम् ( पा० ३ । ३ । ११३ ) दोङ् क्षये, दो
अवखण्डने, दाप् लवने—क्तिन्। द्यतिस्यतिमास्थामित्ति किति ( पा० ७ । ४ ।
४० ) इति इत्वम् । दीङ्पक्षे ह्रस्वत्व नञ्समासः । अदितिः पृथिवी निघ० १ ।
१ । वाक्—निघ० १ । ११ । गोः—निघ० २ । ११ । अदीना देवमाता—निरु०
४ । २२ । अदीना अक्षीणा अखण्डिता वा परमेश्वरशक्तिः ( ओदनम् ) उन्देर्न-
लोपश्च ( उ० २ । ७६ ) उन्दी क्लेदने—युच् । ओदनो मेघः—निघ० १ । १० ।
ओदनमुदकदानं मेघम्—निरु० ६ । ३४ । सेचकं भक्तम् । अन्नम् ( उच्छिष्टम् )
उत् + शिष असर्वोपयोगे—क्तः । यः प्रलयात् शिष्यते शेषो भवति तं शेषपदार्थम् ।

१०६ गोपथब्राह्मणे पूर्वभागे प्र० २ । क० १५
किया । [ गर्भ वः पिण्ड के रूप में पदार्थ बनाये ], ( ततः आदित्याः अजायन्त ) उस
[ कर्म ] से आदित्य [ अखण्ड परमात्मा से उत्पन्न पदार्थ ] उत्पन्न हुये । ( यः एषः
ओदनः पच्यते एतत् आरम्भणम् एव, आक्रमणम् एव क्रियते ) [ इसी प्रकार यज्ञ
में ] जो यह भात पकाया जाता है वह आरम्भ कर्म ही और आगे बढ़ने का कर्म ही किया
जाता है, ( प्रादेशमात्रीः समिधः भवन्ति, एतावान् हि आत्मा प्रजापतिना सम्मितः )
प्रादेशमात्री [ अँगूठे से तर्जनी तक परिमाण वाली ] समिधायें होती हैं, इतना ही
आत्मा प्रजापति [ परमेश्वर ] करके नापा गया है । ( अश्वत्थे अग्नेः वै या यज्ञिया
तनूः तया समगच्छत ) पीपल [ आदि काष्ठ ] में अग्नि का जो निश्चय करके पूजनीय
शरीर है, उसके साथ वह [ अग्नि ] मिला है, ( एषा स्वधृत्या तनूः यत् घृतम् ) यह
अपने आप [ अग्नि को ] पुष्ट करने वाला शरीर है जो घृत है, ( यत् घृतेन समिधः
अनक्ति ताभ्यां तनूभ्याम् एव एनं तं समर्धयति ) वह जो घी से समिधाओं को
सींचता है, उन दोनों शरीरों [ घी और समिधा ] से ही इस प्रसिद्ध [ अग्नि ] को बढ़ाता
है । ( यत् निमार्गस्य अवकृत्या आदधाति वीर्यं वै क्रियते ) जो निश्चित मार्ग
के संकल्प से अग्न्याधान करता है, [ उससे ] वीर्यं [ सामर्थ्य ] ही किया जाता है,
( यत् निमार्गस्य अवकृत्या एव आदधाति संवत्सरः वै प्रजननम्, अग्निः प्रजननम्,
एतत् प्रजननम् यत् संवत्सरः ) जो निश्चित मार्ग के संकल्प से ही अग्न्याधान करता
है वह संवत्सर ही उत्पादन सामर्थ्य है, अग्नि उत्पादन सामर्थ्य है, यह उत्पादन सामर्थ्य है
जो संवत्सर है, ( ऋचा अग्नौ समिधम् आदधाति ) मन्त्र के साथ अग्नि में समिधा को
रखता है। ( प्रजननात् एव एनं तत् प्रजनयिता प्रजनयति ) उत्पादन सामर्थ्य से ही इस
अग्नि को वह उत्पन्न करने वाला [ यजमान ] उत्पन्न करता है ( अभक्तुर्वे पुरुषः नहि तत्
वेद यत् ऋतुम् अभिजायते ) इस सृष्टि विज्ञान को न समझने वाला पुरुष यह नहीं जानता
है कि ऋतुयें कैसे बनती हैं । ( यत् नक्षत्रं तत् आप्नोति ) जो नक्षत्र [ नक्षत्र का वृष्टि
आकर्षणादि प्रभाव ] है उसको वह पाता है । ( यः एषः ओदनः पच्यते एषा एव योनिः
क्रियते ) जो यह भात [ यज्ञ में ] पकाया जाता है यही गर्भाशय किया जाता है, ( यत्
समिधः आधीयन्ते तत् रेतः ध्रियते ) जो समिधायें यथावत् रक्खी जाती हैं उससे वीर्यं
धरा जाता है, ( संवत्सरः वै हितं रेतः प्रजायते ) संवत्सर [ समय ] ही हितकारी वीर्य हो
जाता है । ( ये एते संवत्सरे, परि अग्निम् आधत्ते प्रजापतिः एव एनम् आधत्ते )
यह जो [ नियम हैं उनसे ] संवत्सर तक अग्न्याधान करता है, प्रजापति [ यजमान ] ही
( आश्नात् ) अश भोजने-लङ् । अभक्षयत् । अगृह्णात् ( आदित्याः ) दित्यदित्या-
दित्य० ( पा० । ४ । १ । ८५ ) अदिति—ण्यप्रत्ययः, अपत्यार्थे । अदितिपुत्राः ।
सर्वे परमेश्वरजनितपदार्थाः ( प्रादेशमात्रीः ) हलश्च ( पा० ३ । ३ । १२१ )
प्र + दिश अतिसर्जने—घञ् । उपसर्गस्य घञ्यमनुष्ये बहुलम् ( पा० ६ । ३ । १२२ )
इति दीर्घः । मात्रच् प्रत्ययः । अंगुष्ठतर्जनीपरिमिताः । ( सम्मितः ) परिमितः ।
( स्वधृत्या ) स्व + धृञ् धारणे—क्यप् । स्वपोषिका ( अनक्ति ) संयोजयति
( निमार्गस्य ) निश्चितमार्गस्य ( अवकृत्या ) अव + कॄञ् शब्दे—क्तिन् । आकृत्या ।