गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका १४ ॥
२८ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० १४ ॥
उसकी ( अर्द्धस्य ) ऋद्धि [ सम्पत्ति ] का ( योगक्षेमः ) योगक्षेम [ पाने योग्य का
पाना और पाये हुये का बचाना ] ( विरिष्यते ) नष्ट हो जाता है ( यस्मिन् अर्द्धे )
जिस सम्पत्ति में ( यजन्ते ) लोग यज्ञ करते हैं-( इति ब्राह्मणम् ) यह ब्राह्मण [ वेद
ज्ञान ] है ॥ १३ ॥
भावार्थ.--ब्रह्मज्ञानियों का विचार है कि ब्रह्म यज्ञ अर्थात् संसार की सृष्टि
अवस्था में अग्नि, वायु, सूर्य, चन्द्र आदि याजक माने हैं । यदि वे अपना अपना काम
ठीक ठीक न करें तो सारी सृष्टि नष्ट हो जावे और यजमान अर्थात् ईश्वर भी कृतकृत्य
न होवे ॥ १३ ॥
कण्डिका १४ ॥
तं ह स्मैतमेवं विद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्युपा-
धावेरन् नमस्ते अस्तु भगवन् यज्ञस्य नो विरिष्टं सन्धेहीति, तद्यत्रैव विरिष्टं
स्यात्तत्राग्नीनुपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिरैवाग्नीन् सम्प्रो-
क्षति, त्रिः पर्युक्षति, त्रिः कारयमाणमाचामयति च, सम्प्रोक्षति च, यज्ञवास्तु
च सम्प्रोक्ष्यत्यथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते, तद्यथा लवणेन
सुवर्णं सन्दध्यात् सुवर्णेन रजतं रजतेन, लोहं लोहेन, सीसं सीसेन, एष्वेवमेवास्य
यज्ञस्य विरिष्टं सन्धीयते, यज्ञस्य सन्धितिमनु यजमानः सन्धीयते, यजमानस्य
सन्धितिमन्वृत्विजः सन्धीयन्ते, ऋत्विजां सन्धितमनुदक्षिणाः सन्धीयन्ते
दक्षिणानां सन्धितमनु यजमानः पुत्रपशुभिः सन्धीयते, पुत्रपशूनां सन्धितिमनु
यजमानः स्वर्गेण लोकेन सन्धीयते, स्वर्गस्य लोकस्य सन्धितिमनु तस्यार्द्धस्य
योगक्षेमः सन्धीयते, यस्मिन्नर्द्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥
कण्डिका १४ ॥ यज्ञ के दोष निवारण से इष्टफल की प्राप्ति ॥
( तम् ) उस ( ह स्म ) अवश्य ही ( एतम् ) इस ( एवम् ) ऐसे [ अनबूझ ]
( विद्वांसम् ) विद्वान् ( ब्रह्माणम् ) ब्रह्मा [ यज्ञनायक ] को ( यज्ञविरिष्टी ) यज्ञ
नाश करने वाला [ ब्रह्मा ] है ( वा वा ) अथवा ( यज्ञविरिष्टिनः ) यज्ञ नाश करने
वाले [ सब याजक ] हैं ( इति उपाधौ ) इस उपनाम में ( एरन् ) चलावें । ( नमस्ते
अस्तु भगवन् यज्ञस्य नो विरिष्टं सन्धेहि इति ) हे भगवन् तेरे लिए नमस्कार हो,
हमारे यज्ञ के दोष को सुधार दे [ यह वाक्य बोले ] । ( तत् यत्र एव ) सो जहाँ ही
अप + राग-यत् । अत्यन्तरागिणः । अतिलोभिनः । ( विरिष्टम् ) वि + रिष
हिंसायाम्-क्तः । विनाशम् ( अनु ) अनुसृत्य ( अर्द्धस्य ) ऋधु वृद्धौ--घञ् । ऋद्धेः
सम्पत्तेः ( योगक्षेमः ) योगेन युक्तः क्षेमो योगक्षेमः । योगः प्राप्यस्य प्रापणं क्षेमः
प्राप्तस्य रक्षणं तदुभयः । ब्राह्मणम्-ब्रह्म--अण् । ब्रह्मणो ज्ञानम् ॥
१४-( एवम् ) पूर्वोक्तप्रकारम् । अज्ञानिनम् ( यज्ञविरिष्टी ) यज्ञ +
विरिष्ट-इनिः । यज्ञदूषकः ( उपाधौ ) उप + आ + धा-किः । नामचित्ते ।
गोपथब्राह्मणे पूर्वभागे प्र० १ । क० १४ ॥ २९
(विरिष्टं स्यात्) दोष होवे (तत्र अग्नीन् उपसमाधाय) वहां अग्नियों को ठीक
करके (शान्त्युदकं कृत्वा) शान्ति जल [शंनो देवीरभिष्टय आपो भवन्तु पीतये। शं
योरभिस्रवन्तु नः (अथर्व० १ । ६ । १) इस मन्त्र के साथ आचमन आदि के लिए
शान्ति जल] करके ('पृथिव्यै श्रोत्रायेति) पृथिव्यै श्रोत्राय० इत्यादि [अथर्व० ६ ।
१० । १ मन्त्र से] (त्रिः एव) तीन बार ही (अग्नीन्) अग्नियों को (सम्प्रोक्षति)
[घृत से] भली प्रकार सींचे (त्रिः) तीन बार (पर्युक्षति) सब ओर से सींचे, (च)
और (कारयमाणम्) कर्म कराने वाले को (आचामयति) आचमन करावे (च)
और (सम्प्रोक्षति) [जल से] भले प्रकार सींचे, (च) और (यज्ञवास्तु) यज्ञशाला
को (सम्प्रोक्षति) भले प्रकार सींचे । (अथ अपि) तब ही (वेदानां रसेन) वेदों
के रस [ध्वनि] से (यज्ञस्य विरिष्टम्) यज्ञ का दोष (सन्धीयते) सुधर जाता है ।
(तत् यथा) सो जैसे (लवणेन) लवण [खार] के साथ, (सुवर्णं सुवर्णेन) सोने
को सोने से, (रजतं रजतेन) चांदी को चांदी से, (लोहं लोहेन) लोहे को लोहे से
(सीसं सीसेन) सीसा [धातु विशेष] को सीसे से (सन्दध्यात्) जोड़े, (एषु)
इन [कर्मों में] (एवम् एव) ऐसे ही (अस्य यज्ञस्य विरिष्टम्) इस यज्ञ का दोष
(सन्धीयते) सुधर जाता है। (यज्ञस्य सन्धितिम् अनु) यज्ञ के सुधार के साथ
(यजमानः सन्धीयते) यजमान सुधर जाता है । (यजमानस्य सन्धितिम् अनु)
यजमान के सुधार के साथ (ऋत्विजः सन्धीयन्ते) ऋत्विज सुधर जाते हैं।
(ऋत्विजां सन्धितिम् अनु) ऋत्विजों के सुधार के साथ (दक्षिणाः सन्धीयन्ते)
दक्षिणायें सुधर जाती हैं। (दक्षिणानां सन्धितिम् अनु) दक्षिणाओं के सुधार के साथ
(यजमानः) यजमान (पुत्रपशुभिः सन्धीयते) पुत्रों और पशुओं सहित सुधर जाता
है। (पुत्रपशूनां सन्धितिम् अनु) पुत्रों और पशुओं के सुधार के साथ (यजमानः)
यजमान (स्वर्गेण लोकेन सन्धीयते) स्वर्ग लोक के साथ सुधर जाता है। (स्वर्गस्य
लोकस्य सन्धितिम् अनु) स्वर्ग लोक के सुधार के साथ (तस्य) उस [यजमान] को
(ऋद्धस्य) ऋद्धि [सम्पत्ति] का (योगक्षेमः) योगक्षेम [पाने योग्य का पाना और
पाये हुये का बचाना] (सन्धीयते) सुधर जाता है, (यस्मिन् ऋद्धे) जिस सम्पत्ति में
(यजन्ते) वे यज्ञ करते हैं, (इति ब्राह्मणम्) यह ब्राह्मण [वेद ज्ञान] है ॥ १४ ॥
उपनाम्नि (एरन्) ईर गतौ—लुङ्, आर्षरूपं लोडर्थे। ऐरयन्। प्रेरयन्तु (उप-
समाधाय) यथाविधि समाहितान् कृत्वा (त्रिः) द्वित्रिचतुर्भ्यः सुच् (पा० ५ ।
४ । १८) त्रि—सुच् । त्रिवारम् (सम्प्रोक्षति) उक्ष सेचने । घृतेन यथाविधि
सिंचति (कारयमाणम्) कारयतेः—शानच् । कर्मकारयितारम् (रसेन)
रस शब्दे आस्वादने च—अच् । रसा नदी रमतेः शब्दकर्मणः—निरु०
११ । २५ । रसो वाङ्नाम—निघ० १ । ११ । रसनेन ध्वनिना (लवणेन) लूञ्
छेदने—ल्युट् । क्षारविशेषेण (सन्दध्यात्) संयोजयेत् (सन्धितिम्) सुधितवसुधि-
तनेमधितधिष्वधिषीय च (पा० ७ । ४ । ४५) अत्र 'क्तिन्यपि दृश्यते" इति उक्तत्वात्
सम्+दधातेः—क्तिन्, इत्त्वं च । संहितिम्। संयोगम् । मेलनम् ।