मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
by महर्षि मनु
Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)
सातवां अध्याय। २३१
सातवां अध्याय। २३१
विक्रोशन्त्यो यस्य राष्ट्राद् ध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ १४३ ॥
क्षत्रियस्य परोधर्मः प्रजानामेव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ १४४ ॥
अपने सब कर्त्तव्यों को इस तरह पूरा कर के, प्रमाद-रहित और
कार्यपरायण होकर अपनी प्रजा की रक्षा करे । राजा और उसके
कर्मचारियों के देखते यदि चोर, लुटेरे प्रजा को लूट पाट से दुःख
पहुंचावें, तो वह राजा मरा सा है, जीता नहीं है। प्रजा का
पालन करना ही क्षत्रिय का मुख्य धर्म है। इसलिए अपने धर्म ही से
प्राप्त हो फल भोग करना उचित है ॥ १४२-१४४ ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्सशुभां सभाम् ॥ १४५॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥ १४६॥
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ १४७॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
सकृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ १४८ ॥
जडमूकन्धबधिरान्तिर्यग्योनान्र्वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥ १४६॥
राजा बड़े तड़के उठकर, शौच से निपटकर, एकाग्र चित्त होकर
अग्निहोत्र और ब्राह्मणसत्कार करके, राजसभा में प्रवेश करे ।
वहां दर्शकों को प्रीतिपूर्वक पहले बिदा करके फिर मन्त्रियों के साथ
२३२ : मनुस्मृतिः ।
राजकाज का विचार करे। पर्वत पर या महल में जाकर, एकान्त
में वा वृक्षरहित वन में, जहाँ भेद लेनेवाले दूत न पहुँच सकें,
वहाँ मन्त्रणा करे। जिस राजा के मन्त्र को दूसरे लोग मिले रहने
पर भी नहीं जान सकते, वह धन-सम्पत्ति के न होते भी संपूर्ण
पृथिवी को भोगता है। मूर्ख, गूँगा, अंधा, बहिरा, तोता-मैना
आदि पक्षी, बूढ़े, स्त्री, म्लेच्छ, रोगी, और अङ्गहीनों को, सलाह के
समय हटा देवे। प्रायः ये लोग गुप्त बातों को प्रकट कर दिया
करते हैं॥ १४५-१४६ ॥
भिन्दन्त्यवमता मन्त्रं तिर्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ १५० ॥
मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान् सार्धं तैरैक एव वा ॥ १५१ ॥
परस्परविरुद्धानां तेषां च समुपाजर्नम् ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ १५२ ॥
दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ १५३ ॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ १५४ ॥
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ १५५ ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ १५६ ॥
अमात्यं राष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।