सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

कण्डिका ५ ॥ यज्ञ में दोषों को ब्रह्मा ही ठीक कर सकता है ॥

३१४ गोपथब्राह्मणे उत्तरभागे प्र० २ । क० ५
कल्पब्राह्मणानामप्रयोगाद् यथोक्तानां वा दक्षिणानामप्रदानाद्धीनाद्वातिरिक्ताद्धो-
त्पाताद् भूतेषु प्रायश्चित्तव्यतिक्रमादिति । इत्येतद्वै सर्वं ब्रह्मण्यर्पितं ब्रह्मैव विद्वान्
यद् भृग्वङ्गिरोवित् सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनातिरिक्ताङ्गः अप्रमत्तो यज्ञं
रक्षति, तस्य प्रमादाद्यदि वाप्यसान्निध्याद्यथा भिन्ना नौरगाधे महत्युदके सम्प्लवेत्,
मत्स्यकच्छपशिशुमारनक्रमकरपुण्डरीकझषरजसपिशाचानां भागधेयं भवति,
एवमादीनां चान्येषां विनष्टोपजीविनाम् । एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त
उत्पाताद्भुतो बहुलोऽयज्ञैरसंस्कृतोऽसुरगन्धर्वयक्षराक्षसपिशाचानां भागधेयं
भवति, एवमादीनां चान्येषां विनष्टोपजीविनाम् । तदपि श्लोकाः,
छिन्नभिन्नोपध्वस्तो विश्रुतो बहुधा मखः ।
इष्टापूर्त्तद्रविणं गृह्ययजमानस्यावापतत् ॥ १ ॥
ऋत्विजां च विनाशाय राज्ञो जनपदस्य च ।
संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ २ ॥
दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः ।
हीनाङ्गो रक्षसाम्भागो ब्रह्मवेदादसंस्कृतः ॥ ३ ॥
चतुष्पात् सकलो यज्ञश्चातुर्हौत्रविनिर्मितः ।
चतुर्विधैः स्थितो मन्त्रैर्ऋत्विग्भिर्वेदपारगैः ॥ ४ ॥
प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः ।
होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेत् ॥ इति । ५ ॥
तस्माद् यजमानो भृग्वङ्गिरोविदमेव तत्र ब्रह्माणं वृणीयात् । स हि यज्ञ-
न्तारयतीति ब्राह्मणम् ॥ ५ ॥
कण्डिका ५ ॥ यज्ञ में दोषों को ब्रह्मा ही ठीक कर सकता है ॥
( मखः इति एतत् यज्ञनामधेयम्, छिद्रप्रतिषेधसामर्थ्यात् ) मख यह यज्ञ का
नाम है, [ क्योंकि उसमें ] छिद्र [ दोष ] के निषेध का सामर्थ्य है। ( खम् इति छिद्रम्
उक्तम्, तस्य प्रतिषेधः मा इति, यज्ञं छिद्रं मा करिष्यति इति ) ख-यह शब्द छिद्र
कहा जाता है, उसका निषेध-मा यह पद है, यज्ञ को वह [ ब्रह्मा ] छिद्र वाला [ दूषित ] न
करेगा, यह [ तात्पर्य ] है। ( छिद्रः यज्ञः हि भिन्नः उदधिः इव विस्रवति ) क्योंकि
छिद्र वाला यज्ञ फूटे हुये जलाशय के समान बह जाता है। ( तत् वै खलु छिद्रं भवति,
ऋत्विग्यजमानविमानात् वा एषां व्यपेक्षया अपि वा, मन्त्रकल्पब्राह्मणानाम्
५-( मखः ) मख गतौ--घः, यद्वा मा निषेधे + खनु विदारणे-डः, ह्रस्व-
त्वम् । अच्छिद्रः । यज्ञः ( छिद्रम् ) छिद्र--अर्शआद्यच् । छिद्रयुक्तम् । दूषितम्
( उदधिः ) जलाशयः ( विमानात् ) अपमानात् ( व्यपेक्षया ) अनिच्छया ( कल्पः )
कर्मपद्धतिः । संस्कारविधिः ( उत्पातात् ) भूकम्पाद्युपद्रवात् ( अप्रमत्तः ) प्रमा-

गोपथब्राह्मणे उत्तरभागे प्र० २ । क० ५ ॥ ३१५
अप्रयोगात्, यथोक्तानां दक्षिणानां वा अप्रदानात्, हीनात् वा अतिरिक्तात् वा, भूतेषु
उत्पातात्, प्रायश्चित्तव्यतिक्रमात् इति) वह ही निश्चय करके छिद्र [दूषण] होता है—
ऋत्विजों और यजमान के अपमान से, अथवा इनकी अनपेक्षा से, अथवा मन्त्र, कल्प [कर्मपद्धति,
संस्कारविधि] और ब्राह्मणों [ब्राह्मण ग्रन्थों में कहे विधानों] के प्रयोग न करने से, अथवा
यथोक्त दक्षिणाओं के न देने से, अथवा न्यून वा अधिक [देने] से, अथवा प्राणियों पर उत्पात
[भूकम्प आदि उपद्रव] से, अथवा प्रायश्चित्त के उल्लंघन से । (इति एतत् वै सर्वं ब्रह्मणि
अर्पितम्) यह सब [विघ्नों की रोक] ही ब्रह्मा पर निर्भर है । (विद्वान् ब्रह्मा
एव, यत् भृग्वङ्गिरोवित् सम्यक् अधीयानः, चरितब्रह्मचर्यः अन्यूनातिरिक्ताङ्गः,
अप्रमत्तः, यज्ञं रक्षति) विद्वान् ब्रह्मा ही, जो भृगु अङ्गिराओं [परिपक्व ज्ञानों चारों वेदों]
का जानने वाला, यथाविधि पढ़ा हुआ, ब्रह्मचर्य किये हुये, न्यून वा अधिक अङ्ग न रखने वाला
[अङ्ग भङ्ग], न चूकने वाला है, यज्ञ की रक्षा करता है । (तस्य प्रमादात् यदि वा
अपि असांनिध्यात्, यथा भिन्ना नौः अगाधे महति उदके संप्लवेत्, मत्स्य-कच्छप-
शिशुमार-नक्र-मकर-पुण्डरीक-जषर-जसपिशाचानां भागधेयं भवति, एवमादीनाम्
अन्येषां विनष्टोपजीविनां च) उस [ब्रह्मा] की भूल से अथवा समीप न रहने से,
जैसे टूटी नाव अथाह बड़े जल में डूब जाती है, और मच्छ, कच्छ, शिशुमार, नाके, मगर,
पुण्डरीक, जषर, जस, पिशाचों [मांसाहारियों] का भाग हो जाती है, इसी प्रकार दूसरे
अपने आश्रितों के नष्ट करने वालों का [भाग होती है] । (एवं खलु अपि छिन्नभिन्नः
अपध्वस्तः उत्पाताद्भुतः बहुलः, अथर्वाभिः असंस्कृतः यज्ञः असुरगन्धर्वयक्षराक्षस-
पिशाचानां भागधेयं भवति, एवमादीनाम् अन्येषां विनष्टोपजीविनां च) इसी
प्रकार निश्चय करके टूटा फूटा, नष्ट हुआ, उत्पात [भूकम्पादि उपद्रव] से आश्चर्य
युक्त किया हुआ, बहुत दोष ग्रहण करने वाला, अथर्वों [चारों वेदों के निश्चल ज्ञानों] से
न संस्कार किया हुआ यज्ञ असुर, गन्धर्व, यक्ष, राक्षस, पिशाचों [मांसाहारियों] का भाग
होता है, और इसी प्रकार के दूसरे अपने आश्रितों के नष्ट करने वालों का [भाग
होता है] । (तत् अपि श्लोकाः) उस विषय में ही श्लोक हैं ॥
दरहितः (असान्निध्यात्) नञ् + सन्निधि—प्यञ् । अनैकट्यात् (सम्प्लवेत्)
निमज्जेत् (पुण्डरीकः) फर्फरीकादयश्च (उ० ४ । २०) पुडि मर्दने—ईकन्
प्रत्ययान्तो निपातितः । जलजन्तुविशेषः (जषरः) ऋच्छेररः (उ० ३ । १३१) जष
हिंसायाम्—अरः, हिंस्रजलजन्तुः (जसः) जष हिंसायाम्—घः । झषः ।
हिंसकमत्स्यभेदः (विनष्टोपजीविनाम्) विनष्टाश्रितानाम् (उत्पाताद्भुतः)
उपद्रवविस्मितः (बहुलः) बहु + ला आदाने—कः । बहुदोषग्राहकः (अपतत्)
पतति । अधोगच्छति (संवत्सरविरिष्टम्) संवत्सरयज्ञाद् विनष्टं कर्म
(दक्षिणतः) दक्ष वृद्धौ—इनन्, स्वार्थे तसिल् । वृद्धिमान् (चातुर्हौत्रविनिर्मितः)
चतुर्होतृ--अण् स्वार्थे, अनुशतिकादीनां च (पा० ७ । ३ । २०) उभयपदवृद्धिः ।
चतुर्होतृभिविरचितः (अनुमन्त्रणैः) अनुकूलविचारैः (विभ्रंशम्) भ्रंशु अधःपतने-
घञ् । विनाशम् (वृणीयात्) स्वीकुर्यात् ॥