गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका ३२ ॥ मौद्गल्य और मैत्रेय का गायत्री मन्त्र पर
गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३२ ॥ ५७
पुरा संवत्सरादार्त्तिमाकृष्यसीति । स ह मैत्रेयः स्वानन्तेवासिन उवाच यथार्थं
भवन्तो यथागृहं यथामनो विप्रसृज्यन्तां दुर्धीयानं वा अहं मौद्गल्यमवोचं स
मा यं प्रश्नमप्राक्षीन्न तं व्यवोचं, तमुपैष्यामि शान्तिं करिष्यामीति । स ह मैत्रेयः
प्रातः समित्पाणिर्मौद्गल्यमुपससादासावाहं भो मैत्रेयः किमर्थमिति दुर्धी-
यानं वा अहं भवन्तमवोचं त्वं मा यम्प्रश्नमप्राक्षीर्न तं व्यवोचं त्वामुपैष्यामि
शान्तिं करिष्यामीति, स होवाचात्र वा उपेतश्च सर्वञ्च कृतं पापकेन त्वा यानेन
चरन्तमाहुरथोऽयं मम कल्याणस्तं ते ददामि तेन याहीति । स होवाचंतदेवात्रा-
त्विषञ्चानृशंस्यञ्च यथा भवानाहोपायामित्येवं भवन्तमिति तं होपेयाय तं होपेत्य
पप्रच्छ किँस्विदाहुर्भोंः सवितुर्वरेण्यं भर्गो देवस्य कवयः किमाहुर्धियो विचक्ष्व
यदि ताः प्रविश्य प्रचोदयात्सविता याभिरेतीति ।
तस्मा एतत् प्रोवाच वेदाश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयो-
ऽन्त्रमाहुः कर्माणि धियस्तदु ते ब्रवीमि प्रचोदयात्सविता याभिरेतीति ।
तमुपसङ्गृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥
कण्डिका ३२ ॥ मौद्गल्य और मैत्रेय का गायत्री मन्त्र पर
वार्तालाप ॥
( सः तत्र आजगाम यत्र इतरः बभूव ) वह वहां आया जहां दूसरा [ मैत्रेय ]
था । ( तं ह पप्रच्छ सः ह न प्रतिपेदे ) उससे उसने पूंछा और वह [ मैत्रेय ] न बता
सका। (तं ह उवाच ) उस [मैत्रेय] से वह बोला - ( भवान् तं मौद्गल्यं दुर्धीयानम्
अवोचत् ) आपने उस मौद्गल्य को कुपढ़ बताया है, ( सः त्वा यं प्रश्नम् अप्राक्षीत्
तं पुरा न व्यवोचः संवत्सरात् आर्त्तिम् आकृष्यसि इति ) उसने तुझसे जो प्रश्न
पूंछा था वह तूने हमारे सामने नहीं बताया है, एक वर्ष तक तुझे पीड़ा खींचनी होगी।
( सः ह मैत्रेयः स्वान् अन्तेवासिनः यथार्थम् उवाच ) वह मैत्रेय अपने शिष्यों से
ठीक ठीक बोला-( भवन्तः यथागृहं यथामनः विप्रसृज्यन्ताम् ) आप लोग अपने
अपने घर को जैसा मन हो चले जावें, ( अहं वै मौद्गल्यं दुर्धीयानम् अवोचम् )
मैंने मौद्गल्य को कुपढ़ बताया है, ( सः मा यं प्रश्नम् अप्राक्षीत् तं न व्यवोचम् )
उसने मुझसे जो प्रश्न पूंछा था वह मैंने न बताया, ( तम् उपैष्यामि शान्तिं करिष्यामि
इति ) मैं उसके पास जाऊँगा और उसको शान्ति [ सन्तुष्टता ] करूंगा । ( सः ह
३२--( प्रतिपेदे ) प्रतिपादितवान् । बोधितवान् ( यथागृहम् ) गृहमन-
तिक्रम्य ( यथामनः ) यथेच्छम् ( विप्रसृज्यन्ताम् ) विविधं प्रकर्षेण गच्छन्ताम्
( शान्तिम् ) सन्तोषम् । प्रसन्नताम् ( समित्पाणिः ) होमार्थं हस्तयोः समिधा-
युक्तः ( आग्रहम् ) आग्रह-अर्शआद्यच् । अनुग्रहवन्तम् ( कृतम् ) करोते.--
भूतकाले क्तः। कृतवन्तः (पापकेन) पापयुक्तेन । दुःखकरेण (आहुः) मनुष्याः कथ-
यन्ति ( कल्याणः ) मङ्गलकरः (अत्विषम् ) नञ् + त्विष दीप्तौ--कः। त्वेषप्रतीका
५४ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३२ ॥
समित्पाणिः मैत्रेयः प्रातः आग्रहं मौद्गल्यम् उपससाद ) वह [ यज्ञ के लिये ]
समिधा हाथ में लिये हुये प्रातःकाल अनुग्रहशील मौद्गल्य के पास पहुँचा [ और बोला ]
( भो असौ मैत्रेयः ) महाराज ! वह मैं मैत्रेय हूँ [ मौद्गल्य ने कहा-( किम् अर्थम्
इति ) किसलिये ? [ मैत्रेय बोला ]-( अहं वै भवन्तं दुरधीयानम् अवोचम् ) मैंने
आपको कुपढ़ बताया है, ( त्वं मा यं प्रश्नम् अप्राक्षीः तं न व्यवोचम् ) तूने मुझसे
जो प्रश्न पूंछा था, वह मैंने नहीं बताया, ( त्वाम् उपैष्यामि शान्तिं करिष्यामि इति )
तेरे पास आऊँगा और तेरी शान्ति करूँगा । ( सः ह उवाच ) वह [ मौद्गल्य बोला ]--
( अत्र वै उपेतं च सर्वं च कृतं त्वा पापकेन यानेन चरन्तम् आहुः ) यहां पर आये
हुये सब काम कर चुके हुये तुझको पापी रथ से चलता हुआ बताते हैं, ( अयम् मम
रथः कल्याणः तं ते ददामि तेन याहि इति ) यह मेरा [ शिक्षारूपी ] रथ कल्याण-
कारी है, वह मैं तुझे देता हूँ उससे चल । ( सः ह उवाच ) वह [ मैत्रेय ] बोला--
( एतत् एव अत्र अविषं च अनृशंस्यं च ) यही [ आप का ] कर्म यहां अभय और
अक्रूर [ अति दयालु ] है । ( यया भवान् आह, एवं भवन्तम् उप-आयाम् इति )
जैसा आप कहते हैं वैसे ही आप के पास मैं आया हूँ । ( तं ह उप--इयाय )
वह उस [ मौद्गल्य ] के पास आया, ( तां ह उपेत्य पप्रच्छ ) और पास आकर उससे
पूंछा-( भोः सवितुर्वरेण्यं भर्गो देवस्य, कवयः किंस्वित् आहुः ) हे महाराज !
सवितुर्वरेण्यं भर्गो देवस्य-इसका अर्थ कवि लोग क्या कहते हैं, ( धियः किम् आहुः )
और धियः, इस पद को वे क्या कहते हैं, (विचक्ष्व ) सो बता । ( यदि सविता
प्रविश्य ताः प्रचोदयात् याभिः एति इति ) यदि सविता प्रवेश करके उन्हें [ कर्मों
वा बुद्धियों को ] आगे बढ़ाता है, जिनसे वह चलता है ।
( तस्मै एतत् प्र उवाच ) उस [ उस मैत्रेय ] से वह यह बात बोला--( वेदाः
छन्दांसि ) वेद छन्द [ आनन्द देने वाले कर्म ] हैं, ( कवयः देवस्य सवितुः वरेण्यं
भर्गः अन्नम् आहुः ) कवि लोग प्रकाशवान् सविता [ सबके चलाने वाले ] के अति
श्रेष्ठ भर्गः [ तेज ] को अन्न कहते हैं । ( कर्माणि धियः तत् उ ते ब्रवीमि ) धियः
मयप्रतीका--निरु० १० । २१ अभयं कर्म (अनृशंस्यम् ) नृन् शंस्यति नृशंसम् ।
नञ् + शंसु हिंसायाम्-अण्, स्वार्थे यत् । अक्रूरम् । अतिदयालु कर्म ( उपायाम् )
उप + आङ् + या प्रापणे-लङ् । समीपे आगच्छम् । (उपेयाय) उप + इण् गतौ-लिट् ।
आजगाम ( सवितुः ) षू प्रसवे प्रेरणे च-तृच् । सविता सर्वस्य प्रसविता--निरु०
१० । ३१ सर्वप्रेरकस्य ( वरेण्यम् ) वृञ एण्यः ( उ० ३ । ६८ ) वृञ् वरणे-
एण्यः । स्वीकरणीयम् । अतिश्रेष्ठम् (भर्गः ) अव्यञ्जिजयृजिभृञिभ्यः कुश्व ( उ०
४ । २१६) भृजी भर्जने = पाके-असुन्, कुत्वञ्च । तेजः (कवयः ) विद्वांसः
( विचक्ष्व ) विविधं कथय ( प्रचोदयात् ) प्रेरयेत् ( उपसंगृह्य ) आदरेण प्राप्य ।
( अधीहि ) अन्तर्गतण्यर्थः । अध्यापय ( सविता ) प्रेरकः ( सावित्री ) सवितृ-
अण् । सवितृदेवताका । सवितुः प्रेरकस्योपासिका ॥