गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका २ ॥ ब्रह्मचारी के सात मनोरागों का दमन
७८ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० २
स्नायात्तेन तां श्लाघामवरुन्धे, याऽस्याप्सु भवति स ह स्नातः श्लाघीयोऽन्येभ्यः
श्लाघ्यते । अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्तान्नयान्नोदैक्षतैरैति वेति मुखं
विपरिधापयेत्तेन तद्रूपमवरुन्धे, यदस्य कुमार्यां भवति तं ह स्नातं कुमारीमिव
निरीक्षन्ते । अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं
गन्धं प्रच्छिद्य नोपजिघ्रेत्तेन तं पुण्य गन्धमवरुन्धे, योऽस्यौषधिवनस्पतिषु भवति
स ह स्नातः पुण्यगन्धिर्भवति ॥२॥
कण्डिका २ ॥ ब्रह्मचारी के सात मनोरागों का दमन
आदि कर्त्तव्य ॥
( जायमानः ह वै ब्राह्मणः सप्त इन्द्रियाणि अभिजायन्ते [ अभिजनयति ]
ब्रह्मवर्चसं च यशः च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं
सप्तमम् ) उत्पन्न होता हुआ [ उपनयन आदि संस्कार किये हुये ] ही ब्राह्मण
[ ब्रह्मचारी ] सात इन्द्रियों [ मनोरागों ] को वश में करता है, ब्रह्मवर्चस [ वेद पढने
का तेज ] १, यश २ स्वप्न [ नींद ] ३, क्रोध ४ घमण्ड ५, रूप ६, और सातवें पवित्र
गन्ध को भी ७ । ( तानि ह वै एतानि अस्य ब्रह्मचर्यम् उपेतः अपक्रामन्ति ) वे सब
ही इस ब्रह्मचर्य पाये हुये के दूर चले जाते हैं, ( मृगान् अस्य ब्रह्मवर्चसं गच्छति,
आचार्यं यशः, अजगरं स्वप्नः, वराहं क्रोधः, अपः श्लाघा, कुमारीं रूपम्, ओषधि-
वनस्पतीन् पुण्यः गन्धः ) मृगों [ सिंहों वा हरिणों ] को इसके वेद पढ़ने का तेज जाता
है १, आचार्य को यश २, अजगर [ बड़े सांप विशेष ] को नींद ३, सूअर को क्रोध ४,
जल को घमण्ड ५, कुमारी [ कन्या ] को रूप [ सुन्दरता ] ६, और ओषधि वनस्पतियों
को पवित्र गन्ध ७ । ( सः यत् मृगाजिनानि वस्ते तेन तत् ब्रह्मवर्चसम् अवरुन्धे,
यत् अस्य मृगेषु भवति, सः ह स्नातः ब्रह्मवर्चसी भवति, ) वह जो मृगछालायें
पहिरता है उससे उस ब्रह्मतेज को पाता है जो उसका मृगों [ सिंहों वा हरिणों ] में होता
है, वही स्नातक [ विद्या में स्नान किया हुआ ] ब्रह्मवर्चसी [ वेद पढ़ने से तेज वाला ]
होता है । १ । ( सः यत् अहरहः आचार्याय कर्म करोति तेन तत् यशः अवरुन्धे
यत् अस्य आचार्ये भवति, सः ह स्नातः यशस्वी भवति ) वह जो दिन दिन आचार्य
२--( जायमानः ) उत्पद्यमानः । उपनयनादिसंस्कारं प्राप्यमाणः
( इन्द्रियाणि ) इन्द्रियमिन्द्रलिङ्गमिन्र्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ( पा०
५।२।६३ ) इन्द्र--घप्रत्ययः । इन्द्रियं धननाम--निघ० २ । १० । मनोरागान् ।
(अभिजायन्ते) अभि जनौ प्रादुर्भावे-श्यन्, ज्ञाजनोर्जा (पा० ७।३।७६) इति धातोः
'जा' आदेशः, आत्मनेपदस्य लटि बहुवचने रूपम् । अभिजनयति । अभिभवति ।
(ब्रह्मवर्चसम्) वेदाध्ययनतेजः ( श्लाघाम् ) श्लाघृ कथने-अङ्, टाप् । आत्मस्तुतिम् ।
दम्भम् ( रूपम् ) सौन्दर्यम् ( उपेतः ) प्रथमा षष्ठ्यर्थे । उपेतस्य । प्राप्तस्य
( अपक्रामन्ति ) दूरे गच्छन्ति ( अजगरम् ) बृहत्सर्पविशेषम् ( वराहम् ) वराय
अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम् । वर + आ + हन हिंसागत्योः-
गोपथब्राह्मणे पूर्वभागे प्र० २ । क० २ ७६
के लिये कर्म [ वेदाध्ययन और अन्य सेवा ] करता है, उससे वह उस यश को पाता है जो
उसका आचार्य में होता है, वही स्नातक यशस्वी होता है। २ । ( सः यत् सुषुप्सुः
निद्रां निनयति तेन तं स्वप्नम् अवरुन्धे यः अस्य अजगरे भवति तं ह स्नातं स्वपन्तं
आहु.-—स्वपितु मा एन बोबुधथ इति ) वह जो सोने की इच्छा करता हुआ निद्रा को
हटा देता है, उससे उस स्वप्न [ निद्रा ] को पाता है जो इसका अजगर में होता है, उस
ही सोते हुए स्नातक को लोग कहते हैं--यह सोता रहे इसे तुम मत जगाओ ।। ३ ।।
( सः यत् क्रुद्धः वाचा कञ्चन न हिनस्ति, [ यतः ] पुरुषात् पुरुषात् पापीयान् इव
मन्यमानः, तेन तं क्रोधम् अवरुन्धे, यः अस्य वराहे भवति, तस्य ह स्नातस्य
क्रोधाः श्लाघीयसं विशन्ते ) वह जो क्रुद्ध होकर वाणी से किसी को नहीं सताता
है, [ क्योंकि अपने को ] पुरुष पुरुष से अधिक पापी के समान वह मानता हुआ है, उससे
वह उस क्रोध को पाता है जो इसका सूअर में होता है. उस ही स्नातक के क्रोध अधिक
घमण्डी में प्रवेश करते हैं। ४ । ( अथ अद्भ्यः श्लाघ्यमानः न स्नायात् तेन ताम्
श्लाघाम् अवरुन्धे या अस्य अप्सु भवति, सः ह स्नातः श्लाघीयः अन्नेभ्यः
श्लाघ्यते ) और वह जल से घमण्ड करता हुआ न स्नान करे, उससे वह उस घमण्ड
को पाता है जो इसका जल में होता है वही प्रशंसनीय स्नातक अन्नों के लिये बड़ाई
किया जाता है। ५ । ( अथ एतत् ब्रह्मचारिणो रूपम् यत् कुमार्याः तां नग्नां न
उदक्षेत एति वेति मुखं विपरिधापयेत्, तेन तत् रूपम् अवरुन्धे यत् अस्य कुमार्यां
भवति, तं ह स्नातं कुमारीम् इव निरीक्षन्ते ) और यही ब्रह्मचारी का रूप है जो
कुमारी का है, उसको वह नङ्गा न देखे, चलते फिरते मुख ढक लेवे, उससे वह उस रूप
को पाता है जो इसका कुमारी में है, उस ही स्नातक को कुमारी के समान [ रूपवान् ]
देखते हैं। ६ । ( अथ एतत् ब्रह्मचारिणः पुण्यः गन्धः यः ओषधिवनस्पतीनां तासां
पुण्यं गन्धं प्रच्छिद्य न उपजिघ्रेत्, तेन तं पुण्यं गन्धम् अवरुन्धे यः अस्य ओषधि-
वनस्पतिषु भवति, सः ह स्नातः पुण्यगन्धिः भवति ) और यह ब्रह्मचारी का पवित्र
गन्ध है जो ओषधि वनस्पतियों का है उनके पवित्र गन्ध को तोड़कर न सूंघे, उससे वह
ङप्रत्ययः । वराहो मेघो भवति......अयम्पीतरो वराह एतस्मादेव । वृहति मूलानि वरं वरं
मूलं वृहतीति वा—निरु० ५ । ४ । शूकरम् ( अपः ) जलम् ( कुमारीम् ) अनूढां
कन्याम् ( मृगाजिनानि ) हरिणचर्माणि ( वस्ते ) आच्छादयति ( स्नातः )
स्नातकः । वेदाध्ययनानन्तरं कृतसमावर्त्तनाङ्गस्नानः ( कर्म ) वेदाध्ययनम् ।
अन्यशुश्रूषां च ( सुषुप्सुः ) त्रिष्वप् शये-सन्, उः प्रत्ययः । शयनेच्छुकः ( निनयति )
दूरीकरोति ( मा बोबुधथ ) मा बोधयत ( पापीयान् ) पापवत्-ईयसुन् । विन्मतोर्लुक्
( पा० ५ । ३ । ६५ ) मतुपो लुक् । पापितरः ( श्लाघीयसम् ) श्लाघावत्-ईयसुन् ।
पूर्ववत् मतुपो लुक् । प्रशंसनीयतरम् ( श्लाघ्यमानः ) स्तूयमानः ( श्लाघीयः )
वृद्धाच्छः ( पा० ४ । २ । १०६ ) श्लाघा--छः । प्रशंसनीयः ( एति ) गच्छति
( वेति ) वी गतौ--लट् । चलति ( विपरिधापयेत् ) आच्छादयेत् ( प्रच्छिद्य )
प्र + छिदिर् द्वैधीकरणे--ल्यप् । विभिद्य ॥