सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

ब्राह्मणाच्छंसीया, द्वितीयं वरं वृणीष्वेति वृणा इति स वरमवृणीतास्यामेव मां

गोपथब्राह्मणे पूर्वभागे प्र० २। क० १९॥ ११५
यावदसुरैः संयतामहा इति, स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं
छादयसि येन शक्ष्यसि गोप्तुमिति, स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत्तं
देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि
गोप्तुमिति, स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत्तं देवा अब्रुवन्नन्यत्तद्रूपं
कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति, स सामवेदो
भूत्वा उत्तरतः परीत्योपातिष्ठत् तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो
रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति, स इन्द्र उष्णीषी ब्रह्मवेदो
भूत्वा दक्षिणतः परीत्योपातिष्ठत्तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण
भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुमिति, तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षि-
णतः परीत्योपातिष्ठत्तद् ब्रह्माऽभवत्तद्ब्रह्मणो ब्रह्मत्वं तद्वा एतदथर्वणो रूपं यदु-
ष्णीषी ब्रह्मा, तं दक्षिणतो विश्वेदेवा उपासीदंस्तं यद्दक्षिणतो विश्वेदेवा उपा-
सीदंस्तत्स॒दस्योऽभवत्तत्सदस्यस्य सदस्यत्वं बलेहं वा एतद् बलगुंपजायते यत्स-
दस्य ओमयनो वै व्रजस्य बहुलतरं व्रजं विदन्ति, घोरा वा एषा दिग्दक्षिणा
शान्ता इतरास्तद्यानि स्तुतानि ब्रह्माऽनुमन्त्रयते मनसैव तानि सदस्यो जनदि-
त्येतां व्याहृतिं जपन् चेत्यात्मानं जनयति न जित्यात्मानमपित्वे दधाति, तं देवा
अब्रुवन्वरं वृणीष्वेति वृणा इति, स वरमवृणीतास्यामेव मां होत्रायामिन्द्रभूतं
पुनन्त स्तुवन्तः शंसन्तः तिष्ठेयुरिति तं तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः
शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद्
ब्राह्मणाच्छंस्यभवत्तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वं सैषेन्द्री होत्रा यद्
ब्राह्मणाच्छंसीया, द्वितीयं वरं वृणीष्वेति वृणा इति स वरमवृणीतास्यामेव मां
होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति तं तस्यामेव होत्रायां वायु-
भूतं पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायां वायुभूतं पुनन्तः
स्तुवन्तः शंसन्तोऽतिष्ठंस्तत् पोता ऽभवत्तत् पोतुः पोतृत्वं सैषा वायव्या होत्रा यत्
पोत्रीया, तृतीयं वरं वृणीष्वेति वृणा इति स वरमवृणीतास्यामेव मां होत्राया-
मग्निभूतमिन्धानाः पुनन्तः स्तुवन्तः शंसन्तस्तिष्ठेयुरिति तन्तस्यामेव होत्राया-
मग्निभूतमिन्धानाः पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तं यत्तस्यामेव होत्रायामग्नि-
भूतमन्धानाः पुनन्तः स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्तदाग्नीध्रस्याग्नी-
ध्रत्वं सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणम् ॥ १६ ॥
कण्डिका १९ ॥ आख्यायिका—असुरों से इन्द्र द्वारा देवताओं की
रक्षा और अग्न्याधान ॥
( देवाः च ह वै असुराः च अस्पर्धन्त ) देवता और असुर लड़ने लगे । ( ते
देवाः इन्द्रम् अब्रुवन् इमं नः यज्ञं तावत् गोपाय, यावत् असुरैः संयतामहै इति )
१६—( गोपाय ) रक्ष ( संयतामहै ) यती प्रयत्ने-लोट् । संग्रामं करवामहै ।

११६ गोपथब्राह्मणे पूर्वभागे प्र० २ । क० १९ ॥
वे देवता इन्द्र से बोले—इस हमारे यज्ञ की तब तक रक्षा कर, जब तक हम असुरों से लड़ें ।
( सः वै नः तेन रूपेण गोपाय येन रूपेण नः भूयिष्ठं छादयसि येन गोप्तुं शक्ष्यसि
इति ) सो तू हमें उस रूप से बचा जिस रूप से तू हमें बहुत बहुत छिपाता है और जिससे
तू रक्षा कर सकता है । ( सः ऋग्वेदो भूत्वा पुरस्तात् परीत्य उपातिष्ठत् ) वह
[ इन्द्र ] ऋग्वेद होकर पूर्व ओर से घूम कर पास बैठ गया [ देखो कण्डिका १८ ] ।
( तं देवाः अब्रुवन् अन्यत् तत् रूपं कुरुष्व एतेन रूपेण नः भूयिष्ठं न छादयसि न
एतेन गोप्तुं शक्ष्यसि इति ) उससे देवता बोले—दूसरा वह रूप कर, इस रूप से तू हमें
बहुत बहुत नहीं छिपाता है और न इससे तू बचा सकता है ।
( सः यजुर्वेदः भूत्वा पश्चात् परीत्य उपातिष्ठत् ) वह यजुर्वेद हो कर
पश्चिम ओर से घूम कर पास बैठ गया । ( तं देवाः अब्रुवन् अन्यत् तत् रूपं कुरुष्व
एतेन रूपेण नः भूयिष्ठं न छादयसि न एतेन गोप्तुं शक्ष्यसि इति ) उससे देवता
बोले—दूसरा वह रूप कर, इस रूप से तू हमें बहुत बहुत नहीं छिपाता है और न इससे
तू बचा सकता है । ( स सामवेदः भूत्वा उत्तरतः परीत्य उपातिष्ठत् ) वह सामवेद
होकर उत्तर की ओर से घूमकर पास बैठ गया । ( तं देवा अब्रुवन् अन्यत् एव तत् रूपं
कुरुष्व एतेन रूपेण नः भूयिष्ठं न छादयसि न एतेन गोप्तुं शक्ष्यसि इति ) उससे
देवता बोले—दूसरा ही वह रूप कर, इस रूप से तू हमें बहुत बहुत नहीं छिपाता है और
न इससे तू बचा सकता है । ( सः उष्णीषी इन्द्रः ब्रह्मवेदः भूत्वा दक्षिणतः परीत्य
उपातिष्ठत् ) वह पगड़ी वाला इन्द्र ब्रह्मवेद [ चारों वेदों का समूह ] होकर दक्षिण की
ओर से घूम कर पास बैठ गया । ( तं देवाः अब्रुवन् एतत् तत् रूपं कुरुष्व एतेन रूपेण
नः भूयिष्ठं छादयसि एतेन गोप्तुं शक्ष्यसि इति ) उससे देवता बोले -इससे वह
रूप कर, इस रूप से तू हमें बहुत बहुत छिपाता है और इससे बचा सकता है । ( तत्
यत् उष्णीषी इन्द्रः ब्रह्मवेदः भूत्वा दक्षिणतः परीत्य उपातिष्ठत्, तत् ब्रह्मा
अभवत् तत् ब्रह्मणः ब्रह्मत्वम्, तत् वै एतत् अथर्वणः रूपम् यत् उष्णीषी ब्रह्मा )
वह जो पगड़ी वाला इन्द्र ब्रह्मवेद [ चारों वेदों का समूह ] हो कर दक्षिण की ओर से
घूम कर पास बैठ गया वह ब्रह्मा हो गया. वह ब्रह्मा का ब्रह्मपन है, वही यह अथर्वा
[ निश्चल ब्रह्म ] का रूप है जो पगड़ी वाला ब्रह्मा है [ अर्थात् सब वेद जानने वाला
ब्रह्मा होता है—क० १८ ] ।
( तं दक्षिणतः विश्वेदेवाः उपासीदन् ) उसके दक्षिण ओर सब देवता बैठ
गये । ( तं दक्षिणतः यत् विश्वेदेवाः उपासीदन् तत् सदस्यः अभवत् तत् सदस्यस्य
( छादयसि ) वेष्टयसि ( उष्णीषी ) उष्णीष—इनिः । शिरोवेष्टनवान् ( ब्रह्मवेदः )
चतुर्वेदसमूहः ( ब्रह्मा ) चतुर्वेदवेत्ता ( अथर्वणः ) निश्चलब्रह्मणः ( विश्वेदेवाः )
सर्वे याजकाः ( उपासीदन् ) षद्लृ विशरणगत्यवसादनेषु—लङ् । उपातिष्ठन्
( सदस्यः ) सदस्—यत् । सभायां साधुः ( बलेः ) उपहारात् । पूजनद्रव्यात्

गोपथब्राह्मणे पूर्वभागे प्र० २ । क० १९ ॥ १२७
सदस्यत्त्वं, बलेः ह वै 'एतत् बलम् उपजायते यत् सदस्यः आमयतः वै व्रजस्य
बहुलतरं व्रजं विदन्ति ) उसके दक्षिण ओर जो सब देवता बैठ गये, उससे वह सदस्य
[ सभा में चतुर ] हुआ, वह सभा में चतुर पुरुष का सभा में चतुर्पन है। बलि [ भेंट ]
से ही यह बल [ सामर्थ्य ] उत्पन्न होता है जो सभा में चतुर है चलते हुये मार्ग के देश
की बहुत कर के बड़ाई करते हैं। (एषा दक्षिणा दिक् वै घोरा इतराः शान्ताः )
यह दक्षिण दिशा भयानक है और दूसरी शान्त हैं। [क्योंकि दक्षिण में यज्ञ का द्वार
होता है ]। (तत् यानि स्तुतानि ब्रह्मा अनुमंत्रयते मनसा एव सदस्यः तानि
जनत् इति एतां व्याहृतिं जपन् च इति आत्मानं जनयति, जित्या आत्मानम्
अपित्वे न दधाति) सो जिन स्तोत्रों को ब्रह्मा मन्त्र के अनुकूल करता है, मन से ही
सदस्य उन [स्तोत्रों] को और जनत् [गो० पू० १। ८] इस व्याहृति को जपता हुआ
[ यज्ञ के ] आत्मा को प्रकट करता है और जीव से आत्मा को अप्राप्ति [ वस्तुओं को
अभाव ] में नहीं रखता है [ अर्थात् सब पदार्थ पा लेता है ] । (तं देवाः अब्रुवन् वरं
वृणीष्व इति ) उससे देवता बोले-वर मांग। (वृणै इति) [ इन्द्र बोला ] मैं मांगूं ।
( स वरम् अवृणीत अस्याम् एव होत्रायां माम् इन्द्रभूतं पुनन्तः स्तुवन्तः शंसन्तः
तिष्ठेयुः इति ) उसने वर मांगा - इस ही स्तुति में मुझ इन्द्र [ सूर्य समान ] होते हुये
को पवित्र करते हुये, पूजते हुये और बड़ाई करते हुये आप लोग ठहरें। (तस्याम् एव
होत्रायां तम् इन्द्रभूतं पुनन्तः स्तुवन्तः शंसन्तः अतिष्ठन् ) उस ही स्तुति में उस
इन्द्र होते हुए को पवित्र करते हुए, पूजते हुए और बड़ाई करते हुए वे ठहरे । ( यत्
तस्याम् एव होत्रायां तम् इन्द्रभूतं पुनन्तः स्तुवन्तः शंसन्तः अतिष्ठन् तत्
ब्राह्मणाच्छंसी अभवत् ) जो उसी ही स्तुति में उस इन्द्र [ सूर्य ] होते हुए को पवित्र
करते हुए, पूजते हुए, और बड़ाई करते हुए वे ठहरे, उससे वह ब्राह्मणाच्छंसी [ ब्रह्मज्ञान
( आमयतः) अम गतौ चुरादिः- शतृ । गच्छतः ( व्रजस्य ) मार्गस्य ( व्रजम् )
देशम् (विदन्ति) विद ज्ञाने-लट् । जानन्ति ( स्तुतानि ) स्तोत्राणि (जित्या) जयेन
( अपित्वे ) अ+पि गतौ - त्वन् । अभिपित्वम् = अभिप्राप्तिम् - निरु० ३ । १५ ।
अप्राप्तौ (होत्रायाम्) क० १६ । स्तुतौ । ( स्तुवन्तः) स्तौति=अर्चति-
निघ० ३ । १४ । पूजयन्तः (शंसन्तः) प्रशंसन्तः (ब्राह्मणाच्छंसी) ब्राह्मणात्-
१. यहाँ अर्थ की सङ्गति इस प्रकार है- दक्षिण दिशा की ओर समासीन ब्रह्मा के
सामने सभी देवता सभा के रूप में बैठ गये इससे वह ब्रह्मा (सदसि साधुः ) सदस्य
कहलाया । बलशाली ब्रह्मा का बल भी तभी उत्पन्न होता है जब सदस्य (देव) बैठते हैं।
आगे- 'आमयतः वै व्रजस्य' यहाँ 'छादयति' का अध्याहार तथा विभक्ति विपरिणाम
करके वाक्य होगा 'आमयतः वै व्रजम् छादयति' अर्थात् इस यज्ञ से व्रज = गोष्ठ रोगमुक्त
हो जाता है, इस प्रकार पुष्कल पशुधन प्राप्त होते हैं।
ऐसी अर्थसङ्गति 'बली' को इनि प्रत्ययान्त तथा 'व्रजः' में पचाद्यच् मानने से
होगी ॥ सम्पा० ॥