सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

कण्डिका ३ ॥

गोपथब्राह्मणे उत्तरभागे प्र० १ । क० ३ २६७
कण्डिका ३ ॥
अथो आहुर्ब्राह्मणस्योदर इत्यात्माऽस्यात्मनाऽऽत्मानं मे मा हिंसीः स्वाहेत्यन्नं
वै सर्वेषां भूतानामात्मा तेनैवैतच्छमयाञ्चकार प्राशित्रमनुमन्त्रयते । योऽग्निर्नृमणा
नाम ब्राह्मणेषु प्रविष्टः तस्मिन् म एतत् सुहुतमस्तु प्राशित्रं तन्मा मा हिंसीत् परमे
व्योमन्निति तत्सर्वेण ब्रह्मणा प्राश्नात्तत एनं नाहिनत्तस्माद्यो ब्रह्मिष्ठः स्यात्तं
ब्रह्माणं कुर्वीत बृहस्पतिर्वै सर्वं ब्रह्म सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत
उद्यच्छतेऽप एव वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नात्यद्भिर्मार्जयित्वा
प्राणान् संस्पृशते वाङ् म आस्यं नित्यमृतं वै प्राणा अमृतमापः प्राणानेव यथा-
स्थानमुपाह्वयते तदु हैक आहुरिन्द्राय पर्यहरन्निति ते देवा अब्रुवन्निन्द्रो वै देवा-
नामोजिष्ठो बलिष्ठस्तस्मा एतःपरिहरन्तीति तत्तस्मै पर्यहरंस्तत्सद् ब्रह्मणा
शमयाञ्चकार तस्मादाहुरिन्द्रो ब्रह्मेति यवमात्रं भवति यवमात्रं वै विषस्य न
हिनस्ति यदधस्तादभिघारयति तस्मादधस्तात् प्रक्षरणं प्रजा अरुनं हिनस्ति यदु-
परिष्टादभिघारयति तस्मादुपरिष्टात् प्रक्षरणं प्रजा अरुनं हिनस्ति यदुभयतोऽभि-
धारयत्युभयतोऽभिधारि प्रजा अरुर्घातुकं स्याद्यत्सम१याभिहरेदनभिविद्धं यज्ञस्या-
भिविध्येत् ॥ ३ ॥
कण्डिका ३ ॥ प्राशित्र [ अन्न ] का विधान ॥
( अथो आहुः, ब्राह्मणस्य उदरे + त्वासादयामि-क० २ इति । आत्मा
असि आत्मना मे आत्मानं मा हिंसी: स्वाहा इति ) फिर वे [ ऋषि ] कहते हैं
-ब्राह्मण [ ब्रह्मज्ञानी ] के पेट में [ तुझ प्राशित्र को रखता हूं-क० २, यह मन्त्र ], हे
प्राशित्र ! तू आत्मा [ अन्न ] है, तू आत्मा [ अन्न के कुप्रयोग ] से मेरे आत्मा [जीवात्मा]
को मत सता, यह स्वाहा [ सुन्दर वचन ] है [ और यह दो मन्त्र वे बोलते हैं ] । ( अन्नं वै
सर्वेषां भूतानाम् आत्मा, तेन एव एतत् प्राशित्रं शमयांचकार अनुमन्त्रयते ) अन्न
ही सब प्राणियों का आत्मा [ जीवन ] है, उससे ही इस प्राशित्र [ अन्न ] को वह शान्त
करता है और मन्त्र के अनुकूल करता है । ( यः नृमणाः नाम अग्निः ब्राह्मणेषु प्रविष्टः,
तस्मिन् मे एतत् प्राशित्रं सुहुतम् अस्तु, तत् मा परमे व्योमन् मा हिंसीत् इति )
जो नृमणा [ मनुष्यों के हित के लिये ज्ञान वाला ] नाम अग्नि [ जठराग्नि ] ब्रह्मज्ञानियों
में प्रविष्ट है, उस [ अग्नि में मेरा यह प्राशित्र [ अन्न ] अच्छे प्रकार होम किया गया होवे,
वह [ अन्न ] मुझको उत्तम विविध रक्षा स्थान में [ रख कर ] न मारे [ वह इस ब्राह्मण
वचन को पढता है ] । ( तत् सर्वेण ब्रह्मणा प्राश्नात् ततः एनं मा अहिनत् ) उसको
३-( अनुमन्त्रयते ) मन्त्रेण अनुकूलं करोति ( नृमणाः) नयेर्डिच्च
( उ० २ । १०० ) णीञ् प्रापणे--ऋः, डित् । गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च
( उ० ४ । २२७) नृ+मनु अवबोधने-असिः। छन्दस्युदवग्रहात् ( पा० ८ । ४ ।
२६ ) इति णत्वम् । नृभ्यो मनुष्याणां हिताय बोधनं यस्य सः ( परमे ) उत्तमे
( व्योमन् ) नामन्सीमन्व्योमन्० ( उ० ४ । १५१) वि + अव रक्षणे--मनिन् सप्तमी-
१. पू. सं. 'शमया' इति पाठः ॥ सम्पा० ॥

२६८ गोपथब्राह्मणे उत्तरभागे प्र० १ । क० ३ ॥
सम्पूर्ण ब्रह्मज्ञान से खावे, इसलिये इसको वह न मारे। (तस्मात् यः ब्रह्मिष्ठः स्यात् तं
ब्रह्माणं कुर्वीत) इसलिये जो अत्यन्त ब्रह्मज्ञान वाला हो, उसको ब्रह्मा बनावे। (बृहस्पतिः
वै सर्वं ब्रह्म) बृहस्पति [बड़ी विद्याओं का स्वामी] ही सम्पूर्ण ब्रह्म [ब्रह्मा] है।
(एतत् सर्वेण ह वै ब्रह्मणा यज्ञं दक्षिणतः उद्यच्छते) इसलिये वह सम्पूर्ण ब्रह्मज्ञान
के साथ यज्ञ को दक्षिण दिशा में बैठकर ऊंचा करता है। (एतस्मात् अपः एव वै प्र णाः
क्रामन्ति) इसलिये जल को ही प्राण प्राप्त करते हैं। (यः आविद्धं प्राश्नाति अद्भिः
प्राणान् मार्जयित्वा संस्पृशते, मे नित्यं वाक् आस्यम् ऋतम्) जो पुरुष अच्छे छेदन
किये हुये [प्राशित्र अन्न] को खाता है, वह जल से प्राणों को शुद्ध करके [इन्द्रिय] स्पर्श
करता है—मेरे लिये नित्य वाणी, मुख और सत्य होवे। [यह वाक्य पढ़ता है। (प्राणाः
वै अमृतम्, आपः प्राणान् एव यथास्थानम् उपाह्वयते) प्राण ही अमृत [जल] हैं,
जल प्राणों [जीवन साधनों] को ही अपने अपने स्थान पर बुलाता है। (तत् उ ह एके
आहुः, इन्द्राय पर्यहरन् इति) सो कोई कोई कहते हैं—इन्द्र [जीवात्मा] को वे [इन्द्रिय
अन्न] लाकर देते हैं। (ते देवाः अब्रुवन् इन्द्रः वै देवानाम् ओजिष्ठः बलिष्ठः तस्मै
एतत् परिहरन्ति इति तत् तस्मै पर्यहरन्) उन देवों [इन्द्रियों] ने कहा—इन्द्र
[जीवात्मा] ही देवों [इन्द्रियों] में अति ओजस्वी [पराक्रमी] और अति बलवान् है,
उसके लिये यह [अन्न] वे लाते हैं—इसलिये उसे उसके लिये वे लाये हैं। (तत् सत्
ब्रह्मणा शमयांचकार) उस होते हुये को ब्रह्मज्ञान से उस [इन्द्र] ने शान्त किया।
(तस्मात् आहुः इन्द्रः ब्रह्मा इति) इसलिये वह कहते हैं—इन्द्र [जीवात्मा] ब्रह्मा है।
(यवमात्रं भवति यवमात्रं वै विषस्य न हिनस्ति) वह [इन्द्र] जौ के आकार वाला
[परमाणु रूप] है, जौ के आकार वाला जल का नाश नहीं करता है। (यत् अधस्तात्
अभिघारयति तस्मात् प्रक्षरणम् अधस्तात् प्रजाः अरुः न हिनस्ति) जो वह नीचे की
ओर सींचता है, इसलिये बहाव नीचे की ओर प्रजाओं [इन्द्रियों] को मर्म में न नष्ट
करता है। (यत् उपरिष्टात् अभिघारयति तस्मात् प्रक्षरणम् उपरिष्टात् प्रजाः अरुः
न हिनस्ति) जो वह ऊपर की ओर सींचता है, इसलिये बहाव [रुधिर रूप जल] ऊपर
की ओर प्रजाओं [इन्द्रियों] को मर्म में नहीं नष्ट करता है। (यत् उभयतः अभिघारयति
उभयतः अभिघारि प्रजाः अरुर्घातुकं स्यात्) जो वह दोनों ओर से [आमने सामने
लुक् । व्योमन् व्यवने—निरु० १२ । ४० । विविधरक्षस्थाने (ब्राह्मणा) ब्रह्मज्ञानेन
(ब्रह्मिष्ठः) अतिशयेन ब्रह्मज्ञानवान् । (दक्षिणत) दक्षिणस्यां दिशि स्थितः
(उद्यच्छते) उत्+यम नियमे। उन्नयते (क्रामन्ति) गच्छन्ति। प्राप्नुवन्ति
(मार्जयित्वा) शोधयित्वा (अमृतम्) उदकम्—निघ० १ । १२ । (आपः)
जलम् (इन्द्राय) परमेश्वर्यवते। जीवात्मने (देवाः) इन्द्रियाणि (ओजिष्ठः)
अतिशयेन ओजस्वी पराक्रमी (यवमात्रम्) अणुपरिमाणम् (विषस्य) उदकम्—
निघ० १ । १२ । (अभिघारयति) घृ क्षरणदीप्त्योः—सर्वतः सिञ्चति प्रवहति
(प्रक्षरणम्) प्रवहणम्। (अरुः) अर्त्तिपूपिव्यजि० (उ० २ । ११७) ऋ गतौ
हिंसने च—उसिः । अरूंषि । मर्मणि (अभिघारि) सर्वतः सेचकं जलम्