गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
कण्डिका १९ ।। दीक्षित पुरुष के कर्त्तव्य और अकर्त्तव्य कर्म ।।
गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १९ १७१
परेषां च नामानि न गृह्ण'न्त्येवं ह तस्मिन्नासादातामनश्चैव परेषां च नामानि न
गृह्यन्ते, विचक्षणवतीं वाचम्भाषन्ते चनसितवतीं विचक्षयन्ति, ब्राह्मणं चनसयन्ति
प्राजापत्यं, सैषा व्रतभृगथर्वाङ्गिरसस्तां ह्वान्व्यायत्ताः ४, कस्यस्विद्धेतोर्दीक्षितो
नाश्यन्नो भवति नास्य नाम गृह्णन्त्यन्नस्थो नामस्थो भवतीत्याहुस्तस्य येऽन्नमदन्ति
तेऽस्य पाप्मानमदन्त्यथास्य ये नाम गृह्णन्ति तेऽस्य नाम्नः पाप्मानमपाम्नते ५,
अथापि वेदानां गर्भभूतो भवतीत्याहुस्तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं
भवतीत्याहुः । स दीक्षाणां प्रातर्जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य
क्रीतसोमस्य भोजनीयं भवतीत्याहुः ६ । कस्यस्विद्धेतोः संस्रवाः १ परिजिहीर्षिता
भवन्ति यतरो वीर्य्यवत्तरो२ भवति स परस्य यज्ञं परिमुष्णाति ७ । कस्यस्विद्धेतो-
र्दैवे. न ध्यायेत् संस्थिते नाधीयी३तेति संस्रवस्यैव हेतोरिति विद्योतमाने स्तनयत्यथो
वर्षति वायव्यमभिपुण्वन्ति वै देवाः सोमञ्च भक्षयन्ति तदभिपुण्वन्ति ब्राह्मणाः
शुश्रुवांसोऽनूचानास्तेषां सर्वंरसमक्षाः पितृपितामहा भवन्ति, स दैवे न ध्यायेत्
संस्थिते नाधीयीतेति ब्राह्मणम् । ८ ।। १९ ।।
कण्डिका १९ ।। दीक्षित पुरुष के कर्त्तव्य और अकर्त्तव्य कर्म ।।
(अथ अतः दीक्षाः) अब यहाँ दीक्षाएँ [कही जाती हैं] । (कस्यस्वित् हेतोः
दीक्षितः इति आचक्षते) किस हेतु से यह दीक्षित [नियम धारण करने वाला] है,
ऐसा कहते हैं। (श्रेष्ठां धियं क्षियति इति, तं वै एतं धीक्षितं सन्तं दीक्षित इति
आचक्षते) [उत्तर] श्रेष्ठ [धी] बुद्धि को [क्षियति] प्राप्त होता है, उस ही
धीक्षित होते हुये को दीक्षित ऐसा कहते हैं। (परोक्षेण) परोक्ष [आँख ओट
प्रलय में वर्तमान ब्रह्म] के द्वारा (परोक्षप्रियाः इव हि) परोक्षप्रिय [आंख ओट
भविष्य के प्रेमी] लोगों के समान ही (देवाः) देवता [विद्वान् लोग] (प्रत्यक्षद्विषः)
प्रत्यक्ष [वर्तमान अवस्था] के द्वेषी [विरोधी] (भवन्ति) होते हैं [गो० ब्रा० पू०
१ । १] ? । (कस्यस्वित् हेतोः दीक्षितः अप्रत्युत्थायिकः अनभिवादुकः
प्रत्युत्थेयः अभिवाद्यः भवति) किस कारण से दीक्षित पुरुष बड़ों के लिये न उठने वाला
और न नमस्कार करने वाला, [किन्तु] बड़ों से उठकर आदर योग्य और नमस्कार योग्य
१९- (दीक्षाः) दीक्ष मौण्ड्ये, यागे, उपनयने, नियमव्रतयोरादेशे च-
अ, टाप् । अभीष्टप्रदमन्त्रग्रहणानि (कस्यस्वित् हेतोः) सर्वनाम्नस्तृतीया च
(पा० २ । ३ । २७) इति षष्ठी । कस्मादेव कारणात् (दीक्षितः) दीक्ष मौण्ड्यां-
दिषु-क्तः । अथवा । तदस्य संजातं तारकादिभ्य इतच् (पा० ५ । २ । ३६) दीक्षा-
इतच् । प्राप्तदीक्षः । सोमयागादौ संकल्पं विधाय धृतनियमः (धियम्) बुद्धिम्
(क्षियति) गच्छति, प्राप्नोति (धीक्षितम्) दीक्षितम्, धस्य दः । प्राप्तबुद्धिम् (अप्रत्यु-
त्थायिकः) अप्रति+उद्+ष्ठा गतिनिवृत्तौ । जनेर्युक (उ० ४ । १११) इति यक्,
१. पू. सं. 'संस्रवा' इति पाठः ॥ २. पू. सं. 'वीर्यंवत्तमः' इति पाठः ॥
३. पू. सं. नाधीयेत इति पाठः ॥ सम्पा० ॥
१७२ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १६
होता है। (ये प्रत्युत्थेयाभिवाद्याः ते एनम् आविष्टाः भवन्ति २) [ उत्तर ] जो
पुरुष उठकर आदर योग्य और नमस्कार योग्य होते हैं वे [ उनके गुण ] इसमें प्रविष्ट
हो जाते हैं २ । (अथर्वाङ्गिरसः तस्य किम् आथर्वणम् इति) निश्चल ब्रह्म के जानने
वाले और वेद विज्ञान रखने वाले उस [ दीक्षित ] का क्या अथर्वणपन [ निश्चल ब्रह्म का
ज्ञान ] है। (यत् आत्मनि एव जुह्वति न परस्मिन्, एवं ह अदनसमानाम्
आथर्वणानाम् आत्मनि एव जुह्वति [ जुहोति ] न परस्मिन् ३) [ उत्तर ] क्योंकि
आत्मा में ही वे [ विद्वान् ] होम करते हैं, न दूसरे [ अग्नि ] में, ऐसे ही एक से हवि रखने
वाले निश्चल ब्रह्मज्ञानियों के मध्य वह [ दीक्षित ] आत्मा में ही होम करता है न दूसरे
[ अग्नि ] में [ यह अथर्वपन है ] ३ । (अथ अस्य किम् आङ्गिरसम् इति) फिर इस
[ दीक्षित ] का क्या आङ्गिरस [ वेदज्ञान का भाव ] है। (यत् आत्मनः च परेषां च
नामानि न गृह्णाति [ गृह्णन्ति ] एवं ह तस्मिन् १आसात् आत्मनः च एव परेषां च
नामानि न गृह्यन्ते ) [ उत्तर ] क्योंकि वे [ विद्वान् ] अपने और दूसरों के नाम नहीं लेते
हैं, ऐसे ही उस [ यज्ञ ] में आसन पर से अपने और दूसरों के नाम [ उस दीक्षित करके ]
नहीं लिए जाते हैं, (विचक्षणवतीं वाचं भाषन्ते [ भाषते ] चनमितवतीं विचक्षयन्ति
[विचक्षयन्ति ] प्राजापत्यं ब्राह्मणं चनसयन्ति ) वह [ दीक्षित ] विचक्षण [विविधदर्शी]
शब्दवाली वाणी बोलता है, और चनसित [ पूजनीय ] शब्द वाली कहता है, और
प्रजापति देवता वाले ब्राह्मण [ ब्रह्मज्ञानी ] को चनसित [ पूजनीय ] शब्द वाली
वाणी बोलता है [ क्षत्रिय और वैश्य को विचक्षण वाली वाणी बोलता है, जैसे देवदत्त
चनसित ! वीरेन्द्र विचक्षण ! धनपाल विचक्षण—गो० ब्रा० उ० २ । २३ ] । (सा
एषा व्रतधुक्, अथर्वाङ्गिरसः तां हि अन्व.यत्ताः ४) यह [ वाणी ] व्रत पूर्ण
करने वाली होती है, निश्चल ब्रह्मज्ञानी और वेदज्ञान वाले पुरुष उसके आधीन होते हैं ४।
(कस्यस्वित् हेतोः दीक्षितः आश्यन्नः न भवति. अस्य नाम न गृह्णन्ति अन्नस्थः
नामस्थः भवति इति आहुः) किस कारण से ही दीक्षित पुरुष अन्न खिलाने वाला नहीं
होता है और न इसका नाम लोग लेते हैं, वह [ दीक्षित ] अन्न वाला और नाम वाला
ततः ठक् । सम्मानार्थम् आसनात् अनुत्थितः ( अनभिवादुकः ) अनभिवादनकर्ता
(आविष्टाः) प्रविष्टाः (अथर्वाङ्गिरसः) अथर्वणः निश्चल ब्रह्मविदः, अङ्गिरसो वेद-
ज्ञानयुक्तस्य (आथर्वणम्) अथर्वभावः . जुह्वति) होमं कुर्वन्ति ( आथर्वणानाम् )
निश्चल ब्रह्मज्ञानिनाम् (अदनसमानाम्) समानहविष्कानाम् ( आङ्गिरसम् ) अङ्गि-
रोभावम् (विचक्षणवतीम् ) विचक्षणशब्दयुक्ताम् । विचक्षणः । वि+चक्षिङ्
कथने दर्शने च—युच् । विविधं द्रष्टा ( चनसितवतीम् ) चनसितशब्दयुक्ताम् ।
चायतेर्ह्रस्वश्च ( उ० ४। २००) चायू पूजादौ—असुन्, तुट् च । इति चनस् ।
चनश्शब्दे नामधातौ कृते—क्तः । इति चनसितशब्दः ( चनसयन्ति ) चनसित-
शब्दयुक्तां वाचं कथयति ( व्रतधुक् ) व्रतस्य नियमस्य दोग्ध्री पूरयित्री ( न )
निषेधे ( आश्यन्नः ) अश भोजने—ण्यत्, आर्षो ह्रस्वः । आश्यान्नः । आश्यं
१. यहाँ आसनात् पाठ युक्त है ॥ सम्पा० ॥
Here is the accurate line-by-line transcription of the provided image:
गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १६ ॥ १७३
होता है, ऐसा कहते हैं । (ये तस्य अन्नम् अदन्ति ते अस्य पाप्मानम् अदन्ति, अथ
ये अस्य नाम गृह्णन्ति ते अस्य नाम्नः पाप्मानम् अपाघ्नते ५) जो पुरुष उसका अन्न
खाते हैं वे उसका पाप [ न खाने योग्य भोजन ] खाते हैं और जो इसका नाम लेते हैं वे
इसके नाम का पाप मिटाते हैं [ उसके नाम को निष्पाप और बड़ा समझते हैं ] ५ ।
(अथ अपि वेदानां गर्भभूतः भवति इति आहुः, तस्य अजातस्य अविज्ञातस्य
अक्रीतसोमस्य अभोजनीयं भवति इति आहुः ) फिर वह [ दीक्षित ] वेदों का गर्भभूत
[ आधार ] होता है ऐसा कहते हैं, उस न उत्पन्न हुये, न जाने गये, और सोम न मोल
लेने वाले [ दीक्षित ] का अभोजनीय [ अन्न ] होता है । ( सः दीक्षाणां प्रातः जायते
सोमं क्रीणन्ति [ क्रीणाति ] तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवति
इति आहुः ६) [ उत्तर ] वह दीक्षाओं के मध्य प्रातःकाल उत्पन्न होता है, सोम मोल
लेता है, उस उत्पन्न हुये, जाने हुये, सोम मोल ले चुके हुये [ दीक्षित ] का भोजनीय [अन्न]
होता है, ऐसा कहते हैं ६ । (कस्यस्वित् हेतोः संसवाः परिजिहीर्षिताः भवन्ति )—
किस कारण से ही संसव [ दो वा बहुत यजमानों के मिलकर सोम निचोड़ने के यज्ञ ] छोड़ने
योग्य होते हैं । (यतरः वीर्य्यवत्तरः भवति सः परस्य यज्ञं परिमुष्णाति ७)
[ उत्तर ] उनमें जो कोई अधिक बलवान् होता है वह दूसरे के यज्ञ को लूट लेता है [ इससे
यज्ञों के बीच में नदी वा पहाड़ का अन्तर रहे ] ७ । ( कस्यस्वित् हेतोः दैवे न
ध्यायेत् संस्थिते न अधीयीत इति संसवस्य एव हेतोः इति ) किस कारण से ही दैव
[ मेघ ] सम्बन्धी कर्म में न चिन्ता करे, और संसव दोष [ दो यज्ञों में गड़बड़ पड़ जाने ]
के कारण से संस्थित [ समाप्त यज्ञ ] में न मन्त्र पढ़े । (विद्योतमाने स्तनयति अथो
वर्षति वायव्यं सोमं च वै देवाः अभिषुण्वन्ति भक्षयन्ति, तत् शुश्रुवांसः अनूचानाः
ब्राह्मणाः [ सोमं अभिषुण्वन्ति ] तेषां पितृपितामहाः सर्वरसभाक्षाः भवन्ति, सः दैवे
न ध्यायेत् संस्थिते न अधीयीत इति ब्राह्मणम् ८) - [ उत्तर ] बिजुली चमकते हुये,
गरजते हुये और बरसते हुये पर वायु देवता वाले सोम [ जल ] को देव [ मेघ ] निचोड़ते
हैं और खाते हैं इसलिये वेद सुने हुये और अङ्गों सहित वेद विचारने वाले ब्राह्मण [ ब्रह्म
ज्ञानी सोम को ] निचोड़ते हैं, उनके मध्य पितर और पितामह [ बाप और दादे के
भोजनीयमन्नं यस्मात् सः । अन्नस्य भोजयिता । यद्वा अश भोजने-णिनिः । वाहिता-
ग्न्यादिषु ( पा० २ । २ । ३७ ) इति आशीशब्दस्य पूर्वप्रयोगः । अन्नाशी । अन्न-
भक्षकः (संसवाः) द्वयोर्बहूनां वा यजमानानां सम्भूय सोमाभिषवाः, ते च
महान्तो दोषाः (परिजिहीर्षिताः) परिहर्तुमभिकांक्षिताः (यतरः) अनयोर्मध्ये यः
(परिमुष्णाति) परिमुष्णाति (दैवे) दैवो मेघः । मेघसंबन्धिनि कर्मणि (संस्थिते)
समाप्तयज्ञे (विद्योतमाने) विद्युत्प्रकाशमाने मेघे (स्तनयति) स्तन मेघशब्दे--
शतृः । मेघशब्दं कुर्वति (वायव्यम्) वायुदेवताकं सोमम् (देवाः) मेघाः ।
विद्वांसः (सोमम्) जलरसम् । सोमलतारसम् (शुश्रुवांसः) श्रु श्रवणे-क्वसुः ।
वेद श्रुतवन्तः (अनूचानाः) अनु+वच परिभाषणे--कानच् । साङ्गवेदविचक्षणाः
(पितृपितामहाः) पितरश्च पितामहाश्च । तत्समानपूज्याः विद्वांसः ॥