बृहदारण्यकोपनिषद् (शाङ्करभाष्य सहित)
Brihadaranyaka Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
ब्राह्मण ५] शाङ्करभाष्यार्थ ३२३
ब्राह्मण ५] शाङ्करभाष्यार्थ ३२३
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया
हि तपसाजनयत्पिता । एकमस्य साधारणमितीदमेवास्य
तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स
पाप्मनो व्यावर्तते मिश्रꣳ ह्येतत् । द्वे देवानभाजयदिति
हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो
आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे
मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै-
वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जात-
माहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति
यच्च नेति पयसि हीदꣳ सर्वं प्रतिष्ठितं यच्च प्राणिति
यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं
जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्यु-
मपजयत्येवं विद्वान्सर्वꣳ हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा
अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं
वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया
जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति
प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपि-
गच्छति स ऊर्जमुपजीवतीति प्रशꣳसा ॥ २ ॥
'यत्सप्तान्नानि मेधया तपसाजनयत्पिता' इसका यह अर्थ प्रसिद्ध है
कि पिताने ज्ञान और कर्मके द्वारा ही अन्नोंकी उत्पत्ति की । उसका एक