आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
प्रथमः खण्डः] अनाविलोपेसम् । ३
प्रथमः खण्डः] अनाविलोपेसम् । ३
अनग्नौ क्रियमाणाः प्रहुता^१ नाम पाकयज्ञाः बलिहरण-
ब्रह्मयज्ञादयः^२ । ब्राह्मणभोजने ब्रह्मणिहुताः । यत्र ब्राह्मणभो-
जनमेव यत्र च ब्राह्मणभोजनमधिकं ते ब्रह्मणिहुताः^३ आति-
थ्यपार्वणश्राद्धादयः । त्रैविध्योपदेशस्य प्रयोजनं “पाकयज्ञा-
नामेतत्तन्त्रम्” इति वक्ष्यते । तद् यादृशेषु पाकयज्ञेषु तन्त्रं स-
माम्नातं तादृशेष्वेव यथा स्यात् । कीदृशे चै^४ तत् समा-
म्नातं, हुते । तस्माद्धुतेष्वेवै^५ तस्य तै^६न्त्रस्य प्रवृत्तिः । तेन
सर्पबल्यादाववदानधर्मो न भवति । ब्राह्मणभोजने निर्वा-
पप्रोक्षणादयो न भवन्ति ॥ ३ ॥
देवतामुद्दिश्य द्रव्यत्यागो यागः । स च ब्रह्मयज्ञादिषु नास्ति । तत्
कथमेतेषु यज्ञशब्द इत्याशङ्क्य तेषां यज्ञत्व^७मुपपादयितुमृच उदाहरति —
अथाप्यृच उदाहरति यः समिधा य आहुती यो वेदेनेति ॥
तत्राधिकपादग्रहणात् तृचस्य ग्रहणे प्राप्ते तृतीयार्थवि-
रोधान्न गृह्यते । ऋच इति बहुवचनं वक्ष्यमाणापेक्षम्^८ ।
यो मर्तो मर्त्यः समिधा अग्नये विभक्तिव्यत्ययः अग्निं ददाश
दाशतिर्दानकर्माण्यत्र इह तु प्रीणने द्रष्टव्यः प्रीणाति ।
य आहुती तृतीयैकवचनस्य पूर्वसवर्णदीर्घः यश्चाहुत्याग्निं
प्रीणाति । यो वेदेन यश्च वेदेनाग्निं प्रीणाति । यो नमसा यश्च
नमस्कारेणाग्निं प्रीणाति । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः ।
१. 'ताः ब', २. 'यः उदाहरणं ब्रा' क. ख. ग. पाठः. ३. 'ता
नाम । आ' ग, 'ता नाम पाकयज्ञाः । आ' घ. पाठः. ४. 'ए' ग. घ. पाठः.
५. 'व तन्त्र' घ. पाठः. ६. 'म' ग. पाठः. ७. 'ज्ञशब्दत्व' क. ख. पाठः.
८. 'सा अग्नये ददाशेत्यपेक्ष्यते । यश्च' ग. घ. पाठः.
४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः]
सः स्वध्वरः स सर्वोऽपि शोभनयज्ञः, न केवलं य आहुत्या
प्रीणाति स एव । किञ्च तस्येत् तस्यैव अर्वन्तः अश्वा रंह-
यन्ते गमयन्ति कं रथम् आशवः क्षिप्रगामिनः । द्युम्नि-
तमं द्युम्नं¹मिति हिरण्यनाम अतिशयेन द्युम्नवत् द्युम्नित-
मम् । एवंभूतं यशोऽपि तस्यैव । तस्य देवकृतमंहः व्यसनं
कुतश्चनापि न नशत् न व्याप्नोति मर्त्यकृतं चांहो न नशद्
इत्यृग्द्वयस्यार्थः ॥ ४ ॥
समिधमेवापि श्रद्दधान आदधन्मन्येत यज इ-
दमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्य-
स्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच । अगोरुधाय गविषे
द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधुनश्च वोच-
तेति । वच एव स इदं घृताच्च मधुनश्च स्वादीयोऽस्ति
प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । आ ते अग्न ऋचा
हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो
वशा उतेति । एत एव स उक्षाणश्च ऋषभाश्च वशाश्च
भवन्ति। य इमं स्वाध्यायमधीयत इति यो नमसा स्व-
ध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कार-
मति यज्ञो वै नम इति हि ब्राह्मणं भवति ॥ ५ ॥
एवापिशब्दावल्पतां द्योतयतः । कनिष्ठामात्रं³ हि समित्
तामपि श्रद्दधानो भूत्वा आदधत् पुरुषः यज इदमिति मन्येत
याग एवायं मया क्रियत इति मन्येतेत्यर्थः । सूत्रकारोऽपि तं
नमस्यति नमस्तस्मै । दृष्टश्चैवंविधः प्रासङ्गिकोऽन्यत्रापि
१. 'म्नि' क. ग. पाठः. ३. 'काष्ठमा' ख. ग. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
प्रथमः खण्डः] अनाविलोपेतम् । ५
नमस्कारः । यथा आर्शानुक्रमण्यां — “नमोऽग्निभ्यस्तवबो-
ध्नि” इति । तदेवं यः समिधा ददाश सः स्वध्वर इति व्याख्या-
तम् । य आहुतीति व्याचष्टे — य आहुत्या । तृतीयैकवचनस्य
पूर्वसवर्णदीर्घ इति¹ व्याख्यातम् । यो वेदेनेति व्याख्या-
तुमुपादानं, व्याचष्टे³ — विद्ययैवाप्यस्ति प्रीतिः । दाशतिः
प्रीत्यर्थ इत्यनेन दर्शितम् । तदेतत् पश्यन्नृषिरुवाच तदेत-
दनन्तरोक्तमर्थरूपं पश्यन्नृषिर्वैय्यै॑श्वो⁴ विश्वमना उवाच । अ-
गोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधु-
नश्च वोचतेति । स्तुतिलक्षणां गां वाचं यो न निरुणद्धि तस्मै
अगोरुधाय गविषे गामिच्छते द्युक्षाय द्युःस्थानाय दस्म्यम्
अनुरूपं स्तुतिलक्षणं वचः घृताद् मधुनश्च स्वादीयः स्वादुतरं
दर्शनीयं वोचत ब्रूत हे मदीया ऋत्विजः पुत्रपौत्रा वा । अत्र
तृतीयं पादमर्थतो व्याचष्टे — वच एव म² इदं घृताच्च मधुनश्च
स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । मम स्व-
भूतमिदं वच एव घृताच्च मधुनश्च स्वादीयोऽस्त्विति यद् एतद्दे-
वानेन पादेन ऋषिराहेत्यर्थः । न केवलं घृताच्च मधुनश्च, मां-
सादपि स्वादुतरमिति दर्शयितुमृगन्तरमुदाहरति — आ ते
अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋष-
भासो वशा उतेति । हे अग्ने! ते तुभ्यं हृदा तष्टं हृदयेन चि-
कीर्षितं हविः ऋचा ऋग्रूपेण आभरामसि आहरामो वयम् । ते,
हविरपि परामृशतस्तच्छब्दस्योक्षादिभिः सामानाधिकरण्याल्लि-
१. 'ति ददाश स स्वध्वर इति व्या' क. ख. ग. पाठः. २. 'म',
३. 'ष्टे अत्र वि' ग. पाठः. ४. 'र्य' क. पाठः.
६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
ङ्गवचनभेदः, तादृग्रूपं हविः ते तव उक्षाण ऋषभाश्च व-
शाश्च भवन्ति । वन्ध्या गावो वशाः । व्याचष्टे — एत एव
म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति । भरद्वाजस्यैषा —
य इमं स्वाध्यायमधीयत इति । चलोपोऽत्र द्रष्टव्यः । ये
चेमं स्वाध्यायमधीयत इति । न केवलं भरद्वाजस्यैव, किं
तर्हि, अन्येऽपि य इमं स्वाध्यायमधीयते तेषामपि एते
उक्षाण ऋषभाश्च वशाश्च भवन्ति, द्रष्टव्यतिरिक्तानामप्य-
ध्ययनमात्रेण भवन्तीत्यर्थः । यो नमसा स्वध्वर इति व्याख्ये-
योपादानं, व्याचष्टे — नमस्कारेण वै खल्वपि । अस्ति प्रीति-
रित्यपेक्ष्यते । एतदेवोपपादयति — न वै देवा नमस्कारमति ।
वै प्रसिद्धौ । न खलु देवा नमस्कारमतिक्रामन्ति । "यज्ञो वै
नम" इति हि ब्राह्मणं भवति । ततश्च यथा यज्ञं नातिका-
मन्ति, एवं नमस्कारं²मपीति ॥ ५ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयाद-
ग्नयेऽग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्रा-
ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो
देवेभ्यो ब्रह्मणे स्वाहेति ॥ १ ॥
अथेमानि गृह्याणि विधीयन्ते, यानि प्राक् प्रतिज्ञा-
तानि³ इत्यथशब्दस्यार्थः । सायंशब्दो रात्रेरुपक्रमे प्रसिद्धः
१. 'रं नाति' ख. ग. पाठः. २. 'पि नातिका(मति) ॥ ३. 'नीत्यर्थः' क. पाठः.