आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेताम् । २०१
अष्टमः खण्डः] अनाविलोपेताम् । २०१
तदर्थमप्यर्घ्योपकल्पनं भवति । त्रिग्रहणं तु उत्तरार्थम् । एकद्रव्येष्वित्यत्रापि एष्वेव तैजसादिषु त्रिष्वेकद्रव्यं यथा स्याद् येनकेनचिद् द्रव्येणैकद्रव्यं मा भूदिति । तेषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य ता अनुमन्त्रयते शं नो देवीरिति मन्त्रेण । एवमनुमन्त्रितास्वप्सु तिलानावपति तिलोऽसीति मन्त्रेण । अनुमन्त्रणं तु शक्यत्वाद् युगपत् । तिलावपनं पृथक् । आभ्युदयिके श्राद्धे यवैस्तिलार्थः। तत्र यवोऽसीत्यूहः ॥ २ ॥
प्रसव्येनेतरपाण्यङ्गुष्ठान्तरेणोपवीतत्वाद् दक्षिणेन वा सव्योपगृहीतेन पितरिदं तेऽर्घ्यं पितामहेदं तेऽर्घ्यं प्रपितामहेदं तेऽर्घ्यमित्यप्पूर्वम् ॥ ३ ॥
अर्घ्यं दद्यादिति शेषः । सव्यं प्रतिगतं प्रसव्यं तेन प्रकारेण दद्यात् । एवञ्च सर्वेषां पश्चात् पित्रर्था ब्राह्मणा उपवेशयितव्याः, पुरस्तात् प्रपितामहार्थाः, मध्ये पितामहार्था इत्युक्तं भवति । एवंहि प्रसव्येनार्घ्यं दत्तं भवति । केन पाणिना देयम् इतरपाण्यङ्गुष्ठान्तरेण 'दक्षिणं प्रतीयादनादेश' इति परिभाषा, अनन्तरं च वक्ष्यति दक्षिणेन वा सव्योपगृहीतेनेति । एवं बुद्धिसन्निहितं दक्षिणमपेक्ष्येतरः पाणिः सव्यः अङ्गुष्ठान्तरम् अङ्गुष्ठतर्जन्योरन्तरालं पितृतीर्थेनेत्युक्तं भवति । कस्मात् पुनः सव्येन दानं चोद्यते, तत्र हेतुः—उपवीतत्वात् । पित्र्येऽस्मिन् कर्मणि प्राचीनावीतं भवति । प्राची
१. 'ति तु' ख. ग., 'तीति दक्षिणं' ङ. पाठः. २. 'र्थम्' ख. ग. पाठः.
BB
| २०२ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः |
|---|
नावीते सव्यः पाणिरुपवीतो भवति यथोपवीते दक्षिणः। ततश्च सव्यस्योपवीतत्त्वात् तेन दद्यादिति। दक्षिणेन (वा) पाणिना सव्योपगृहीतेन दद्यात्। एवं हि दक्षिणाङ्गकारिता चापरित्यक्ता भवति। उपवीतत्वं चानुगृहीतं भवति सव्योपग्रहणात्। पितरिदं तेऽर्घ्यमित्यादयो मन्त्राः। अप्पूर्वमिति क्रियाविशेषणं, शुद्धा अपः पूर्वं दत्त्वा पश्चादर्घ्यं दद्यादित्यर्थः। पात्रत्रित्वोपदेशादिह च मन्त्रानुपदेशाच्च विश्वेभ्यो देवेभ्योऽर्घ्यदानं नास्तीति केचित् ॥ ३ ॥
ताः प्रतिग्राहयिष्यन् सकृत् सकृन्निवेदयेत् स्वधार्ध्या इति ॥ ४ ॥
ता अर्घ्यभूता अपः प्रतिग्राहयिष्यन् सकृत् सकृन्निवेदयेत् स्वधार्ध्या इति। यदि पित्रर्था बहवस्तेभ्यः सर्वेभ्यः सकृत्। एवं पितामहार्थेभ्यः एवं प्रपितामहार्थेभ्यः। सकृदिति किम्। प्रतिपुरुषं मन्त्रावृत्तिर्मा भूत्। वीप्सावचनं प्रतिवर्गं मन्त्रावृत्त्यर्थम्। यत्र यत्र पुनरेवंविधो यत्नो नास्ति। तत्र तत्र प्रतिब्राह्मणमावृत्तिः, यथा अर्घ्यप्रदानमन्त्रस्य ॥ ४ ॥
प्रसृष्टास्वनुमन्त्रयेत या दिव्या आपः पृथिवी संबभूवुः या अन्तरिक्ष्या उत पार्थिवीर्याः हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति ॥ ५ ॥
प्रसृष्टासु दत्तासु अर्घ्यासु ता एता अनुमन्त्रयेत या
१. 'यति स्व' घ. पाठः.