आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेताम् । ४१
अष्टमः खण्डः] अनाविलोपेताम् । ४१
आज्यभागौ नाम यदेते यज्ञाख्यस्य पुरुषस्य चक्षुषी, तस्मादेवंदेशौ । अत एव हि यदा पुरुषः प्रत्यङ्मुख आसीनो भवति, तदा दक्षिणमक्ष्यत्तरं भवति आग्नेयं ^१चैतदुत्तरम् । सव्यं दक्षिणदिग्भागगतं भवति सौम्यं ^२चैतत् । तस्मादेवंदेशाविति । उत्तरमाग्नेयं दक्षिणं सौम्यमिति वचनादेवैवं देशत्वे सिद्धे ब्राह्मणवाक्यमनुकृ^३ष्यते — दक्षिणापवर्गेऽप्येवमेतौ होतव्याविति । तेनान्यत्रैवंजातीयके उदगप^४वर्ग^५ता भवति ॥ १६ ॥
मध्ये हवींषि ॥ १७ ॥
जुहुयादित्येव । सन्निधानादाज्यभागयोर्मध्ये प्रधानाहुतिं जुहुयात् ॥ १७ ॥
प्रत्यक्तरं वा ॥ १८ ॥
आज्यभागयोरेव प्रत्यक्तरं पश्चिमतरं वा प्रधानाहुतिं जुहुयात् ॥ १८ ॥
प्राक्संस्थान्युदक्संस्थानि वा ॥ १९ ॥
हवींषि जुहुयादित्येव, मध्ये हवींषीति वचनात् । उपर्युपरि होमे प्राप्ते वचनम् ॥ १९ ॥
उत्तरपुरस्तात् सौविष्टकृतम् ॥ २० ॥
उत्तरपूर्वे भागे अग्नावेव स्विष्टकृद्देवत्यामाहुतिं जुहुयात् ॥ २० ॥
मध्यात् पूर्वार्द्धाच्च हविषोऽवद्यति ॥ २१ ॥
हविषो मध्याच्च पूर्वार्द्धाच्चावद्यति, उपस्तरणाभिधारणे द्वे, एवं चतुरवत्तम् ॥ २१ ॥
१, २. 'च', ३. 'वक्ष्यते' क. ख. पाठः. ४. 'र्गो भ', ५. 'तीति ॥' घ. पाठः.
G
| ४२ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
मध्यात् पूर्वार्धात् पश्चार्धादिति पञ्चावत्तिनाम् ॥ २२ ॥
पञ्चावत्तिनो जमदग्नयः, तेषामयमवदानक्रमः । पश्चार्धाच्चेत्येतावत्युक्ते 'तस्य नित्याः प्राञ्चश्चेशा' इति प्राक्संस्थता प्राप्नोति । तस्मात् क्रमार्थं गुरुसूत्रकरणम् ॥ २२ ॥
उत्तरार्धात् सौविष्टकृतम् ॥ २३ ॥
सौविष्टकृतमवदानं हविष उत्तरार्धादवद्यति । एकवचनस्याविवक्षितत्वात् पञ्चावत्तिनो द्विरवदानम् । अभिघारणं तु सर्वेषां द्विर्भवति । एवमवदानसंपत्तिर्भवति । आपस्तम्बोऽप्याह—'सर्वेषां हविषामुत्तरार्धात् सकृत् सकृत् स्विष्टकृतेऽवद्यति । द्विःपञ्चावत्तिनो दैवतसौविष्टकृतैडचतुर्धाकरणकानामुत्तरमुत्तरं ज्यायो द्विरभिघार्ये'ति ॥ २३ ॥
नात्र हवींषि प्रत्यभिघारयति । स्विष्टकृतं द्विरभिघारयति ॥ २४ ॥
अत्र स्विष्टकृदवदाने हवींषि न प्रत्यभिघारयति । अत्रग्रहणेऽक्रियमाणे प्रधानावदाने प्रत्यभिघारणं न स्यात् ॥ २४ ॥
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे ।
अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान् समर्धय स्वाहा इति ॥ २५ ॥
सौविष्टकृतस्यैायं मन्त्रः ॥ २५ ॥
१. 'च्यमाने त', २. 'ति वचनात् प्रा' ग. घ. पाठः. ३. 'भिघारणेऽपि प्र' ग. पाठः. ४. 'स्य होमस्यायं 'ख. पाठः. ५. 'यं होमम- ग. घ. पाठः.