आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
प्रथमः खण्डः] अनाविलोपेताम् । १७३
प्रथमः खण्डः] अनाविलोपेताम् । १७३
अनिष्ट्वा वा ॥ ५ ॥
अथ वानिष्ट्वैव प्रविशेदगदः ॥ ५ ॥
संस्थिते भूमिभागं खानयेद् दक्षिणपूर्वस्यां दिशि दक्षिणापरस्यां वा दक्षिणाप्रवणं दक्षिणाप्राक्प्रवणं दक्षिणाप्रत्यक्प्रवणमित्येके यावानुद्बाहुकः पुरुषस्तावदायामं व्याममात्रं तिर्यक् वितस्तिमर्वाक् ॥ ६ ॥
यदि संस्थितो मृतः स्यात् ततस्तस्मात् प्रदेशाद् दक्षिणपूर्वस्यां दिशि आग्नेय्यां दक्षिणापरस्यां निर्ऋत्यां वा भूमिभागं खानयेत् कर्ता पुत्रादिः । दक्षिणादिप्रवणं यथा स्यात् तथा खानयेत् । प्रमाणनिर्देशः— उत्क्षिप्तबाहुकः पुरुषो यावान् तावानायामो यस्य तं तावदायामम् । तिर्यक्प्रमाणेन् व्याममात्रम् ।
“बाह्वोः सकरयोर्व्यामस्ततयोस्तिर्यगन्तरम्”
इति नैघण्टुकाः । अर्वाक्प्रमाणेन् वितस्तिं वितस्तिप्रमितम् ।
कनिष्ठाङ्गुष्ठयोर्मध्यं वितस्तिस्ततदीर्घयोः ।
अर्वाङिति ङकारोऽपपाठः। यथा पूर्वत्र तिर्यगिति एवमत्रावागिति ॥ ६ ॥
अभितआकाशं श्मशानम् ॥ ७ ॥
अभितः परित आकाशं यस्य एवंविधं श्मशानं भवति । मध्ये छदिरादिभिरनाकाशमित्युक्तं भवति ॥ ७ ॥
१७४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
बहुलौषधिकम् ॥ ८ ॥
बहुला ओषधयो यत्र एवं च तत् ॥ ८ ॥
कण्टकिक्षीरिणस्त्वति यथोक्तं पुरस्तात् ॥ ९ ॥
वास्तुपरीक्षायां तथात्रापि कार्यम् ॥ ९ ॥
यत्र सर्वत आपः प्रध्वंसेरन्नेतदादहनस्य लक्षणं श्मशानस्य ॥ १० ॥
यत्र प्रदेशे सर्वत आपः प्रध्वंसेरन् नावतिष्ठेरन् ए-
तदादहनस्य श्मशानस्य लक्षणम् । यत्रासावादह्यते तदा-
दहनम् । आदहनस्येति विशेषणादन्यदपि श्मशानमस्तीति
गम्यते यत्र संचितान्यस्थीनि निधीयन्ते तदेवंलक्षणं न
भवति । १तत्राप्यभित आकाश२मिति३ भवति श्मशानस्य तत्रा-
विशेषितत्वात् ॥ १० ॥
केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् ॥ ११ ॥
'केशश्मश्रुलोमनखानि वापयीरन्नि'त्यादि 'अवच्छेद्य-
मस्य पुत्रा अमाकुर्वीरन्नि'त्यन्तं यत् पुरस्तादुक्तं तदिहापि
द्रष्टव्यम् ॥ ११ ॥
विगुल्फं बर्हिराज्यं च ॥ १२ ॥
विगुल्फं प्रभूतं तत् तदुपविगुल्फयेयुः । सौम्यं वौ४-
विगुल्फमिति५ ॥ १२ ॥
दध्यन्यत्र सर्पिरानयन्त्येतत् पित्र्यं पृषदाज्यम् ॥ १३ ॥
१. 'तलक्ष' ख. ङ. पाठः.
२. 'अभित आकाशमित्येतत् तु तत्रा-पि भ' घ. पाठः.
३. 'शं भ' ख. पाठः.
४. 'वा गु' ङ. पाठः.
५. 'तिवत् ॥' ग. ङ. पाठः.