सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

अष्टमः खण्डः ] अनाविलोपे तम् । ४३

अष्टमः खण्डः ] अनाविलोपे तम् । ४३

बर्हिषि पूर्णपात्रं निनयेत् ॥ २६॥

यदपां पूर्णं प्रणीतापात्रं तद् हविरासादनार्थं स्तीर्णै बर्हिषि निनयेत् निषिञ्चेत् । अस्मादेव प्रतिपत्तिविधानाद् गम्यते अस्ति पाकयज्ञेषु प्रणीताप्रणयनमिति । तत्र पात्रे प्रोक्षणानन्तरमापस्तम्बः — ‘अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्ये’ति ॥ २६ ॥

एषोऽवभृथः पाकयज्ञानाम् ॥ २७ ॥

यदिदं पूर्णपात्रनिनयनमेष पाकयज्ञानामवभृथो वेदितव्यः । अनवभृथेऽवभृथवचनम् अवभृथधर्मा यथा स्युरिति । के पुनस्ते । कालश्चाभ्युक्षणं च । कः पुनरवभृथस्य कालः । ऊर्ध्वं सर्वप्रायश्चित्तेभ्यः प्राक् संस्थाजपात् । अभ्युक्षणं च भवति । कर्तुः संस्कार्यस्य चोपनयनादौ प्रतिदिशमुक्षणं चाचरन्ति । पाकयज्ञानामित्यनुच्यमाने प्रकरणात् स्थालीपाकेष्वेव स्यात् । पाकयज्ञग्रहणात्तु सर्वेषु पाकयज्ञेषु भवति । सर्वप्रायश्चित्तानि च ब्रह्मण इति केचित् । अन्ये त्वनित्यत्वाद् ब्रह्मणः प्रायश्चित्तस्यावश्यंभावित्वात् कर्तुरिति ॥ २७ ॥

एतत् तन्त्रम् ॥ २८॥

पाकयज्ञानामित्युभयत्रापि सम्बध्यते । पुरस्ताच्चोपरिष्टाच्च यदङ्गजातं तत्तन्त्रम् ॥ २८ ॥


१. 'अनभ्यु', २. 'ति स्थितम् ।।' घ. पाठः.

४४आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

हविरुच्छिष्टं दक्षिणा ॥ २९ ॥

हविषो यद्धुतशिष्टं, सा दक्षिणा । अस्मादेव दक्षिणा-
विधानादन्यः कर्तेति गम्यते । तन्त्रव्यपदेशे कृते सत्युत्तर-
कालविधानाद् दक्षिणायाः पूर्वसूत्रेषु सर्वेषु पाकयज्ञेषु प्रवृत्ति-
र्न भवति, किं तर्हि पार्वण एव स्थालीपाके । सर्वेषु स्थाली-
पाकेष्वित्यन्ये ॥ २९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये अष्टमः खण्डः ।


अथ नवमः खण्डः ।

अथ पशुकल्पः ॥ १ ॥

अथशब्दोऽधिकारार्थः । इत उत्तरं पशुकल्पोऽधिकृतो
वेदितव्यः । कल्पग्रहणं किमर्थम् । अथ पशुरित्युच्यमाने योऽयं
त्रेतायां पशुर्विहितः स षाण्मास्यः सांवत्सरो वेति, तस्य स्थाने
गृह्येऽग्नौ पशुर्विधीयत इति विज्ञायते । कल्पग्रहणात्तु योऽस्मिन्
गृह्येऽन्यत्र चोदितः पशुरष्टकायां शूलगवे आतिथ्ये मधुपर्के,
अथ काम्यानां स्थाने काम्या इत्यत्र च, तस्य पशोः कल्पमा-
त्रमत्र विधीयत इत्यर्थो भवति ॥ १ ॥

उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा
पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति
द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेद-
मुष्मै त्वा जुष्टमुपाकरोमीति ॥ २ ॥