आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
चतुर्थः खण्डः] अनाविलोपेताम् । १५१
चतुर्थः खण्डः] अनाविलोपेताम् । १५१
एक आचार्याः जायोपेया उपयन्तव्येति मन्यन्ते ॥ १३ ॥
तत्रोपपत्तिः —
प्राजापत्यं तत् ॥ १४ ॥
तद् जायोपेयमनं प्राजापत्यम्, 'आसिञ्चतु प्रजापति-
रि'ति दर्शनात् । रेतःसेचनं प्राजापत्यं तच्च प्रजार्थं तेन यदाह
प्राजापत्यमिति प्रजार्थमित्येवैतदाह। यद्यप्यनुक्तमप्येतद् गम्यते
जायोपेयमनं प्रजार्थमिति । तथाप्युच्यते ऋतावेवोपगमनं
यथा स्यादनृतौ मा भूदिति ॥ १४ ॥
वार्षिकमित्येतदाचक्षते ॥ १५ ॥
यदिदमुपाकृत्य षण्मासाध्ययनमेतद् वार्षिकमित्याचार्या
आचक्षते वर्षातौ भवति वा प्रतिसंवत्सरं भवतीति वा ! तथा
च गौतमः —"श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत
छन्दांस्यर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ब्रह्मचार्यत्सृष्ट-
लोमा न मांसं भुञ्जीत द्वैमास्यो वा नियम इति" । समाप्त-
मुपाकरणम् ॥ १५॥
उत्सर्जनमुच्यते —
मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वापो-
ऽभ्यवयन्ति ॥ १६ ॥
मध्यमाष्टकायामिति सामीपिकमधिकरणम् । तस्याः
पूर्वा या पौर्णमासी तस्यामिदं भवति । एतच्च षण्मासानधी-
यीतेति पूर्वमुक्तत्वाल्लभ्यते । याः पूर्वोक्ताः सावित्र्याद्याः ता-
भ्योऽन्नेन होमः । तत्र सावित्र्यादीनामाज्यमेवेति पूर्वमुक्तम् ।
१. 'ग', २. 'तदा' घ. पाठः. ३. 'त तद् द्वै' ख. पाठः.
१५२ | आश्वलायनगृह्यसूत्रम् | [तृतीयाेऽध्यायः
हुत्वा स्विष्टकृत् ततो वेदारम्भणं ततः शिष्टं तत् परिसमा-
प्यापोऽभ्यवयन्ति अवगाहन्ते ॥ १६ ॥
एताश्चैव देवतास्तर्पयन्ति ॥ १७ ॥
सावित्र्याद्या इति केचित् । अपरे तु देवतास्तर्पयन्ती-
त्यारभ्य यत्तर्पणं विहितं तदत्र कर्तव्यमिति मन्यन्ते ॥ १७ ॥
आचार्यान्¹ पितॄंश्च ॥ १८ ॥
आचार्याः सुमन्तुजैमिनिप्रभृतयः । पितरस्तत्रैवोक्ताः ॥
एतदुत्सर्जनम् ॥ १९ ॥
एतत् कर्मोत्सर्जनमिति शाखेषु² प्रसिद्धम् ॥ १९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
तृतीयाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथ काम्यानां स्थाने काम्याः ॥ १ ॥
अथशब्दो वाक्यारम्भे । यानि कर्माणि त्रेतायां काम्यानि तेषां स्थाने काम्याः पाकयज्ञाः कर्तव्याः । तत्रेष्टीनां स्थाने स्थालीपाकाः पशूनां स्थाने पशवः । यद्येवं सोमस्य स्थाने सोमोऽपि प्राप्नोति । स्यादेवेत्येके । अन्ये त्वाहुः— अस्मिन् गृह्ये पशुकल्पः स्थालीपाककल्पश्चोक्तः न सोमकल्पः, तेन सोमस्थाने सोमो न स्यादिति ॥ १ ॥
चरवः ॥ २ ॥
चरवश्च भवन्ति काम्यानां स्थाने काम्याः । पूर्वेणैव सिद्धे नियमार्थमिदं चरव एव न सान्नाय्याद्यन्यद् द्रव्यमिति ।
१. 'न् ऋषीन् पि',
२. 'खान्तरेषु' ङ. पाठः.