सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

तृतीयः खण्डः ] अनाविलोपेताम् । १०९

तृतीयः खण्डः ] अनाविलोपेताम् । १०९

रोहणं प्रत्यवरोहणम् । पौर्णमासीसाहचर्याच्चतुर्दश्यपि शुक्ला गृह्यते, न कृष्णा, नाप्युभे ॥ १ ॥

निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तरणैरस्तमिते पायसस्य जुहुयुरपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा न वै श्वेतस्याभ्यागारेऽहिर्जघान किञ्चन । श्वेताय वैदार्वाय नमः स्वाहेति ॥ २ ॥

निवेशनं गृहं तद्वर्षासुच्छिन्नभिन्नं पुनर्नवीकृत्य लेपनादिभिः, तत्र कुड्यानां लेपनं, स्तरणमच्छिद्रीकरणं छदिषाम्, उपस्तरणं निम्नानामुन्नतीकरणम् एवं पुनर्नवीकृत्यास्तमिते पायसं श्रपयित्वा जुहुयुः अपश्वेतपदेति मन्त्राभ्याम् । बहुवचनं पूर्ववत् ॥ २ ॥

नात्र सौविष्टकृत् ॥ ३ ॥

स्विष्टकृदेवसौविष्टकृत् । अकस्मादादिवृद्धिः । सौविष्टकृतमिति वा पाठः । न स्विष्टकृदित्युच्यमाने सर्वथैवास्मिन् कर्मणि स्विष्टकृतः प्रतिषेधः स्यात् । अत्रग्रहणात् प्रधानान्तरं¹ स्विष्टकृन्न भवतीति प्रतिषेधः स्यात् । यद्येवं माकारि स्विष्टकृतः प्रतिषेधः । मातावदत्रग्रहणं, ज्ञापकं हि भविष्यति सर्वेष्वेव कर्मस्वागन्तुकानामान्ते स्विष्टकृदिति । तस्मात् सर्वत्रैव स्विष्टकृतः प्रतिषेधः । अत्रग्रहणेनापि कर्मैव परामृश्यते विस्पष्टार्थम् ॥ ३ ॥


१. 'तीयात्' घ. पाठः.

११०
आश्वलायनगृह्यसूत्रम्
[द्वितीयोऽध्यायः

अभयं नः प्राजापत्येभ्यो भूयादित्यग्निमीक्षमा-
णो जपति शिवो नः सुमना भवेति हेमन्तं मनसा ध्या-
यात् ॥ ४ ॥

एतदेवात्र प्रत्यवरोहणम् । ध्यानस्य मनोवृत्तित्वादेव
सिद्धे मनसेति वचनं मनसा शब्दोच्चारणार्थम् । तच्च हेमन्ते-
त्यामन्त्रितविभक्त्या भवति ॥ ४ ॥

पश्चादग्नेः स्वस्तरः स्वस्तीर्णस्तस्मिन्नुपविश्य
स्योना पृथिवी भवेति जपित्वा संविशेत् सामात्यः प्रा-
क्शिरा उदङ्मुखः ॥ ५ ॥

अग्नेः पश्चात् स्वस्तरः स्वस्तीर्णो भवति सुष्ठु आस्ती-
र्यत इति स्वस्तरः पलालादिकृता शय्या सः सुष्ठु आस्तीर्णो
भवति । उभयत्रच्छान्दसो ह्रस्वः । तस्मिन्नुपविश्य स्योना
पृथिवी भवेति जपित्वा संविशेत् शयीत । सामात्यः भा-
र्यया पुत्रैश्च सहितः । प्राक्शिरा उदङ्मुखः । एवंच दक्षि-
णेन पार्श्वेन संवेशनं भवति ॥ ५ ॥

यथावकाशमितरे ॥ ६ ॥

इतरेऽमात्या यथावकाशं संविशेयुः ॥ ६ ॥

ज्यायान् ज्यायान् वानन्तरः ॥ ७ ॥

अथवा ज्यायान् ज्यायान् वानन्तरो गृहिणः सर्वेभ्यो
ज्येष्ठोऽनन्तरः तदनुजस्तदनन्तर इत्यादि ॥ ७ ॥

मन्त्रविदो मन्त्रान् जपेयुः ॥ ८ ॥