आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः] अनाविलोपेताम् । ३३
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
सप्तमः खण्डः] अनाविलोपेताम् । ३३
दृष्टाः सूर्याशब्देनोच्यन्ते । यथा ‘वृषाकपिरप्रतिरथ’ इति । तान् मन्त्रान् पदशोऽक्षरशः स्वरशोऽर्थतश्च यो वेत्ति, तस्मै सूर्याविदे। वधूवस्त्रं विवाहकाले यत् तया परिहितं वासः तद्, दद्यात् ॥ १२ ॥
अन्नं ब्राह्मणेभ्यः ॥ १३ ॥
दद्यादित्येव ॥ १३ ॥
अथ स्वस्त्ययनं वाचयीत ॥ १४ ॥
अथ तैर्भुक्तवद्भिः स्वस्त्ययनं वाचयेत् । स्वस्त्ययनमस्त्विति वाचयेदित्यर्थ इति केचित् । पुण्याहवाचनोपलक्षणमित्यन्ये । तच्चरणभेदेन देशभेदेन च भिद्यते । ततस्तस्यां रात्रौ पुण्ये मुहूर्ते समावेशनम् ॥ १४ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पत्न्यपिवा पुत्रः कुमार्यन्तेवासी वा ॥ १ ॥
यस्मिन् कर्मणि पाणिर्गृह्यते तत् पाणिग्रहणं विवाहः, तत आरभ्य गृह्यमग्निं परिचरेत् । परिचरणं शुश्रूषा, समिन्धनादिः । होमश्च पत्नीकुमारीव्यतिरिक्तानाम्। तयोस्तु संमार्जनमुपलेपनं हविरुपकल्पनं समिन्धनमित्यादि । पुत्रस्याप्युपनीतस्य ग्रहणम् । तथापस्तम्बः — 'स्त्रियानुपेतेन क्षारलवणावरात्नसंसृष्टस्य च होमं परिचक्षते' इति । अन्ये तु होममपि सर्वेषामिच्छन्ति । तथाचच्छन्दोगाः — 'पत्नी
३४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
जुहुयादित्येके गृहाः पत्नी गृह्योऽग्निरेष' इति । तत्र स्वय-
मिति मुख्यः कल्पः । इतरे क्रमेणाभावे विधयः । पाणिग्र-
हणादिवचनं गृहप्रवेशनीयादूर्ध्वं मा भूदिति । सायमुपक्रमञ्च
परिचरणम् ॥ १ ॥
नित्यानुगृहीतः स्यात् ॥ २ ॥
अनुशब्दः परेऽर्थे । अयमग्निर्नित्यपरिगृहीतः स्याद्
यजमानेन पत्न्या वा । अन्यतरोऽवश्यमग्निसमीपे तिष्ठेत् ।
नोभौ सह¹ प्रवसेतामित्यर्थः । उदयास्तमययोश्चायं नियमः ।
अन्ये तु नित्यं धार्य इत्यर्थमाहुः ॥ २ ॥
यदि तूपशाम्येत् पत्न्युपवसेदित्येके ॥ ३ ॥
यदि खल्वग्निरुपशाम्येत् पत्न्या उपवासः स्यादि-
त्येके मन्यन्ते । अन्ये यजमानस्य । उभयोरपरे । अत्राग्न्यु-
त्पत्तिप्रकारानुपदेशात् कल्पान्तरमपेक्ष्यम् । तत्रापस्तम्बः —
'नित्यः धार्यः । अनुगतो मन्थ्यः । श्रोत्रियागाराद् वाहार्यः ।
उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा । अनुगतेऽपि वोत्तरया
जुहुयान्नोपवसेदि'ति । उत्तरया 'अयाश्चाग्न' इत्येतया । सर्व-
त्राग्न्युत्पत्तिरेषैव ॥ ३ ॥
तस्याग्निहोत्रेण ॥ ४ ॥
विधिरिति शेषः । तस्य गृह्यस्याग्नेरग्निहोत्रेण विधि-
र्व्याख्यातः । तत्र पाकयज्ञतन्त्रं न भवति, होष्यद्धर्मास्तु भव-
न्तीति प्रागेवोक्तम् ॥ ४ ॥
१. 'ह देशान्तरं गच्छेता' घ. पाठः.