सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

द्वितीयः खण्डः] अनाविलोपेताम् । ९

द्वितीयः खण्डः] अनाविलोपेताम् । ९

क्रियते वैश्वदेवं प्रातरारम्भं यथा स्यादिति । उत्तरत इति
सर्वेषां बलीनां गृहस्य वा । एतेन दक्षिणेति च व्याख्या-
तम् ॥ २ ॥

स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा
निनयेत् ॥ ३ ॥

प्राचीनावीतीत्यनुच्यमाने यथा “दक्षिणस्यां दिशि¹
मासाः पितर” इत्यत्र पित्र्येऽपि प्राचीनावीतित्वं न भवति,
तथात्रापि न स्यात् । यथा पूर्वेषु³ बलिष्वर्थसिद्धं निनयनं,
तथेहापि सिद्धे निनयेदिति वचनं क्रियान्तरत्वज्ञापनार्थम् ।
तेन बलिहरणमिदं न भवति । ततश्च स्वाहाकाराभावः ।
तदत्र यद् अग्नौकरणं स देवयज्ञः । यद् बलिहरणं स
भूतयज्ञः । यद् दक्षिणतो निनयनं स पितृयज्ञः । त एते त्रयो-
ऽपि सहैव कर्तव्याः । तदर्थमिह शेषग्रहणम् । “अथ बलिह-
रणमि”त्यानन्तर्यार्थोऽथशब्दस्यै⁴। ब्रह्मयज्ञमनुष्ययज्ञौ वक्ष्येते ।
त एते पञ्च महायज्ञाः। कः पुनरस्याग्निः। गृह्याणीत्यधिकाराद्
गृह्यः। गृहस्थश्चाधिकारी। तथाचापस्तम्बः— “गृहमेधिनोर्य-
दशनीयस्य होमा बलयश्चे”ति। “औपासने पचने वे”ति व्यव-
स्थितो विकल्पः— औपासनवत औपासने, विधुरादेः पचन
इति। तथौचच्छन्दोगानां गृह्ये— “यस्मिन्नग्नौ पाणिं गृह्णीया-
दि”ति प्रकृत्य वैश्वदेवमाम्नातम् । भाष्यकारस्तु “विवाहाग्नेः
प्रागस्यारम्भादनियतोऽत्राग्निः⁵, समावृत्तस्य च पृथक्पाकस्य


१. ‘तं न’ ख. ग. घ. पाठः. २. ‘र्वेष’ ग. पाठः. ३. ‘श्च’ क. ख. ग. पाठः. ४. ‘था छ’ ख. ग. पाठः. ५. ‘तोऽग्निः’ ख. पाठः.

C

१०आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

प्रागपि विवाहाद्वैश्वदेवं कर्तव्यमि”त्याह। स्मृतिषु च स्नातक-
प्रकरणे पञ्च महायज्ञा विहिताः, न गृहस्थप्रकरणे । पात्रस्य
चोविहितत्वात् पाणिना होमा बलयश्चेति । अङ्गिरास्तु—
“शालाग्नौ विपचेदन्नं लौकिके वापि नित्यशः ।
यस्मिन्नेव पचेदन्नं तस्मिन् होमो विधीयते ॥”
इति ॥ ३ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये द्वितीयः खण्डः ।


अथ तृतीयः खण्डः ।

अथ खलु यत्र क्वच होष्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड् लेखा उदगायतां पश्चात् प्रागायते नानन्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् ॥ १ ॥

अथशब्दोऽधिकारार्थः। तेन पूर्वोक्ते वैश्वदेवे वक्ष्यमाणं तन्त्रं न भवति। खलुशब्दो वाक्यालङ्कारे। यत्रक्वचग्रहणस्याकरणे अथ खलु होष्यन्त्स्यादित्यहरहर्होमविधिः प्रसज्येत। करणे त्वन्यत्र विहितस्य होमस्य विशेषो विधीयत इति गम्यते। यत्र होष्यन्त्स्यादित्येव सिद्धे क्वचग्रहणं क्रियते यत्राग्निहोत्रिकं तन्त्रं, तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्याताविति तस्मिन्नौपासनेऽपि परिस्तरणादयो होष्यद्धर्मा


१. 'चाप्यवि' क. पाठः.