आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
षष्ठः खण्डः] अनाविलोपेत्तम् । १५५
षष्ठः खण्डः] अनाविलोपेत्तम् । १५५
अथ षष्ठः खण्डः ।
अव्याधितं चेत् स्वपन्तमादित्योऽभ्यस्तमिया-
द्वाग्यतोऽनुपविशन् रात्रिशेषं भूत्वा येन सूर्य ! ज्योतिषा
बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ॥ १ ॥
अव्याधितो यः स्वपिति तं प्रति यद्यादित्योऽस्तं
गच्छेत् तदा वाग्यतो भूत्वानुपविशन् रात्रिशेषं सर्वामेव रात्रिं
तिष्ठन् व्युष्टायां येन सूर्येति पञ्चभिर्ऋग्भिरादित्यमुपतिष्ठेत ।
तस्येदं प्रायश्चित्तम् ॥ १ ॥
अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा
वाग्यत इति समानमुत्तराभिस्तसृभिरुपस्थानम् ॥ २ ॥
यः कर्मणा गुरोरभ्यङ्गादिना श्रान्तो न भवति तम-
कर्मश्रान्तम् अनभिरूपं कर्म नृत्तदर्शनादि तेन वा श्रान्त-
मप्यव्याधितं स्वपन्तमादित्यश्चेदभ्युदियात् तदा वाग्यत इति
समानं वाग्यतोऽनुपविशन् अहःशेषं भूत्वेत्यूहेन । एवं भूत्वो-
त्तराभिश्चतसृभिर्यस्य ते विश्वा भुवनानि केतुनेत्यादिभिरस्तं
यन्तमुपतिष्ठेत ॥ २ ॥
सन्ध्योपासनमाह —
यज्ञोपवीती नित्योदकः सन्ध्यामासीत वाग्यतः
सायमुत्तरापरमभिमुखोऽन्वष्टमदेशनर्धास्तमिते मण्डले
आनक्षत्रदर्शनात् ॥ ३ ॥
यज्ञोपवीती भूत्वा नित्योदकः नित्यमुदककर्म प्रोक्ष-
णाचमनादिकं कृतं येन स एवमुच्यते एवंभूतः सन्ध्यामो-
१. 'त्येताभि' ग० ङ० पाठः. २. 'मुपासी' ख० पाठः.
१५६ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्याय
सीत वाग्यतः सायं यावान् सन्ध्याकालः तावन्तमासीत । उत्तरापरमन्वष्टमदेशमभिमुखः प्रतीच्यां दिशि य उत्तरो भागः तस्याष्टधा विभक्तस्य योऽष्टमो देशः उत्तरत आरभ्य तमनु । तं प्रति कियन्तं कालमासीत । अर्धास्तमयादारभ्या-नक्षत्रदर्शनात् । एतावती सन्ध्या । वाग्यत इति वचनादेता-वन्तं कालं न सावित्र्यपि जप्य पश्चात्तु जप्य । तथाच जैमिनीये गृह्ये भारद्वाजगृह्ये च द्रष्टव्यम् । अन्ये तु स्मृतिषु दर्शनात् सावित्र्या जपमिच्छन्ति । वाग्यतवचनं तु लौकिक-वाक्यनिवृत्त्यर्थमित्याहुः ॥ ३ ॥
एवं प्रातः प्राङ्मुखास्तिष्ठन्नामण्डलदर्शनात् ॥ ४ ॥
एवं प्रातः सन्ध्यामुपासीत1 प्राङ्मुखस्तिष्ठन्नासीत आदित्यस्यामण्डलदर्शनात् । उत्तरपूर्वमन्वष्टमदेशमभिमुखः अर्धास्तमितेषु नक्षत्रेषु । तथा गौतमः — ‘तिष्ठेत् पूर्वा-मासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वाग्यत’ इति । आपस्तम्बस्तूभयोरपि सन्ध्ययोरासनं वाग्यमनं चाह— ‘सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतस्ये2ति ॥ ४ ॥
कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत-इति प्रत्यूचं जुहुयाज्जपेद् वा ॥ ५ ॥
कपोतः पक्षिविशेषः स चेदगारमुपहन्यात् तुण्डादिभि-र्घट्टयेद् अनुपतेद्वा तद्दुर्निमित्तम् । तस्येदं प्रायश्चित्तम् । देवाः