आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः] अनाविलोपेत् । १६१
सप्तमः खण्डः] अनाविलोपेत् । १६१
बाहू राजन्यः ॥ ११ ॥
अग्रेऽनुलिम्पेत् ॥ ११ ॥
उदरं वैश्यः ॥ १२ ॥
पूर्ववत् ॥ १२ ॥
उपस्थं स्त्री ॥ १३ ॥
तद्वत् ॥ १३ ॥
ऊरू सरणजीविनः ॥ १४ ॥
ये सरणेन गतागतेन जीवन्ति दूताः ते ऊरू अग्रे-
ऽनुलिम्पेरन् ॥ १४ ॥
अनार्तस्य नार्तोऽहं भूयासमिति स्रजमपिनध्नीत ॥
अपिनह्येत ॥ १५ ॥
न मालोक्ताम् ॥ १६ ॥
मालाशब्दोक्तां स्रजं नापिनह्येत ॥ १६ ॥
मालेति चेद् ब्रूयुः स्रगित्त्यभिधापयीत ॥ १७ ॥
यद्यवशादज्ञानाद्वा मालेति ब्रूयुः परिकर्मिणस्तदा
तान् स्रगिति वाचयेत् ततोऽपिनह्येत ॥ १७ ॥
देवानां प्रतिष्ठे स्थः सर्वतो मा पातमित्युपानहा-
वास्थाय दिवश्छन्नासीतिच्छत्रमादत्ते ॥ १८ ॥
गतार्थम् ॥ १८ ॥
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि इति
वैणवं दण्डम् ॥ १९ ॥
आदत्ते ॥ १९ ॥
१. 'र्ता' ख. घ. पाठः.
W
१६२ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
आयुष्यमिति सूक्तेन मणिं कण्ठे प्रै¹मुच्योष्णीषं कृत्वा तिष्ठन् समिधमादध्यात्
स्मृतं निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी ।
इष्टं दत्तमधीतं च कृतं सत्यं श्रुतं व्रतै²म् ॥
यदग्ने सेन्द्रस्य सर्ऋ³षिकस्य सर्ऋषिराजस्य सपि-
तृकस्य सपितृराजस्य साकाशस्य सातीकाशस्य सानू-⁵
काशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धर्वाप्सर-
स्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आ-
त्मनि व्रतं तन्मे सर्वं व्रतमिदमहमग्ने सर्वव्रतो भवामि
स्वाहेति ॥ २० ॥
तत आयुष्यमिति सूक्तान्ते मणिं कण्ठे बद्ध्वा हतेन
वाससा उष्णीषं शिरोवेष्टनं कृत्वा तथैव तिष्ठन् पूर्वं⁶मुपरि
कृतां समिधमादध्यात् स्मृतं निन्दा चेति मन्त्रेण सर्वतोव्र
भवामि स्वाहेत्यन्तेन ॥ २० ॥
ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात् ॥ २१ ॥
तत्र नव समाम्नाताः । खैलकी दशमी अर्वाञ्चमि-
न्द्रममुतो हवामह इति तस्या अपि ग्रहणमित्याहुः ॥ २१ ॥
यत्रैनं पूजयिष्यन्तो भवन्ति तत्रैतां रात्रिं व-
सेत् ॥ २२ ॥
एनं समावृत्तं यत्र गृहे पूजयिष्यन्तो भवाँ⁷न्ति तत्र
१. ‘प्रतिमु’ घ. पाठः.
२. ‘तमिति य’ ङ. पाठः.
३. ‘पिरा’ ख. पाठः.
४. ‘सप्र’ ग. पाठः.
५. ‘स’,
६. ‘ति च प्र’ ङ. पाठः.
७. ‘विष्यन्ति’ ख. पाठः.