सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पञ्चमः खण्डः] अनाविलोपेतुम् । १२१

पञ्चमः खण्डः] अनाविलोपेतुम् । १२१

एतेन—

अपरासु स्त्रीभ्यः ॥ १० ॥
इति व्याख्यातम् ॥ १० ॥

एतेन माघ्यावर्षं प्रौष्ठपद्या अपरपक्षे ॥ ११ ॥

एतेनानन्तरोक्तेनान्वष्टक्येन माघ्यावर्षं नाम कर्म$^१$ व्याख्यातम् । तच्च प्रौष्ठपद्याः पौर्णमास्याः परो योऽपरपक्षः तत्र भवति । मघासु वर्षासंयोगान्माघ्यावर्षमिति भवति । तच्च त्रयोदश्याम् । तथा याज्ञवल्क्यः—

“यददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥”

इति । वर्षर्तौ या त्रयोदशी मघाभिः सह संबध्यते तस्यामित्यर्थः । अपरे सामान्याभिधानात् सर्वस्मिन्नेवापरपक्षे माध्यावर्षमिच्छन्ति ॥ ११ ॥

मासि मासि चैवम् ॥ १२ ॥

यथेदं माघ्यावर्षं प्रौष्ठपद्या अपरपक्षे भवति, एवं मासि मास्यपरपक्षे भवति। मासि मास्यमावास्यायां पार्वणश्राद्धं वक्ष्यति, तेन सहेदं विकल्प्यते एकौर्थत्वाद् । यद्यप्येवं तथापि प्रौष्ठपद्या अपरपक्षे माध्यावर्षमेव नियतम्, अन्यथा पूर्वो योगोऽपार्थकः स्यात् ॥ १२ ॥

पितृभ्योऽयुक्षु प्रतिष्ठापयेत् ॥ १३ ॥

पितृभ्यो यद् दीयते गन्धमाल्यादि तत्सर्वमयुक्संख्यायां प्रतिष्ठापयेत् सकृत् त्रिः पञ्चकृत्व इति दद्यात् ॥१३॥


१. 'र्मं कर्तव्यमाख्या', २. 'धर्ममा' ख. पाठः ३. ककार्य-त्वा' ग. घ. पाठः.

१२२आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

नवावरान् भोजयेत् ॥ १४ ॥

अन्वष्टक्यविषयमिति केचित् । सर्वत्राष्टकायामित्यन्ये । अष्टकायां नवावरा ब्राह्मणा भोजयितव्याः । पूर्वं विश्वेभ्यो देवेभ्य एकैकमेकैकस्ये¹त्येवमादिकमत्रे² न भवति तस्य पार्वणादिविषयत्वात्³ अतत्प्रकृतित्वाच्चाष्टकायाः । पिण्डपितृयज्ञोऽह्य⁴ष्टकायाः प्रकृतिः । स्वधाग्रहणादिकमपि नास्ति । केवलं नवावरा भोजयितव्या इति केचित् । अन्ये तु सर्वमनुतिष्ठन्ति ॥ १४ ॥

अयुजो वा ॥ १५ ॥

भोजयेदित्येव । पञ्च सप्तेति शक्त्यपेक्षो विकल्पः । बहुवचननिर्देशादेकस्याप्रसङ्गः ॥ १५ ॥

युग्मान् वृद्धिपूर्तेषु ॥ १६ ॥

आभ्युदयिकेषु श्राद्धेषु युग्मान् भोजयेत् । पार्वणेन सहाभ्युदयश्राद्धं वक्ष्यते । तत्र युग्मनियमार्थमिदम् । तेनैकैकमेकैकस्येत्यादिकल्पान्तरमाभ्युदयिकेषु न भवति । केषु पुनः कर्मस्वभ्युदयश्राद्धं भवति । येष्वपरेद्युर्देवेज्या भवति, ‘तस्मात्पूर्वेद्युः पितृभ्यः क्रियते उत्तरमहर्देवान् यजन्त’ इत्येतच्छ्रुतिमूलत्वात् ॥ १६ ॥

अयुग्मानितरेषु ॥ १७ ॥

उक्तेभ्यो येऽन्ये तेष्वयुग्मान् भोजयेत् । एकोद्दिष्टविषयमित्येतदुपदेशः । तेन तत्र द्वौ द्वाविति वक्ष्यमाणः कल्पो न भवति ॥ १७ ॥


१. 'कस्ये', २. 'त्र भ' ग. पाठः. ३. 'त् त' ग. घ. पाठः.
४. 'ध्य' ख. पाठः.