आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः] अनाविलेापेतम् । १९५
सप्तमः खण्डः] अनाविलेापेतम् । १९५
अश्मन्वतीरीयते संरभध्वमित्यश्मानं कर्ता प्रथमोऽभिमृशेत् ॥ १४ ॥
अथ यै उत्तरतः स्थापितोऽश्मा तं कर्त्ता प्रथममभिमृशेद् अश्मन्वतीरिति मन्त्रेण । पश्चादमात्या मन्त्रविदो मन्त्रेण, तूष्णीमितरे ॥ १४ ॥
अथापराजितायां दिश्यवस्थायाग्निनानडुहा गोमयेनाविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन परीमेगामनेषतेति परिक्रामत्सु जपेत् ॥ १५ ॥
एतावत् कर्म गृहाद् बहिर्भवति । अथ गृहं प्रवेष्टुममात्याः परिक्रामन्ति । अग्निना सह अग्निमादायेत्यर्थः । अनडुहा गोमयेनाविच्छिन्नया चोदकधारया । अविच्छिन्नामुदकधारां युवतयः स्रावयन्ति । आपो हीति तृचममात्या जपन्ति । एवं तेषु परिक्रामत्सु अपराजितायां दिश्यवस्थाय परीमेगामित्येतामृचं कर्ता जपेत् ॥ १५ ॥
पिङ्गलोऽनड्वान्व्रणः स्यादित्युदाहरन्ति ॥ १६ ॥
येनानडुहा परिक्रामन्ति स एवंगुणः स्यादिति ब्राह्मणमुदाहरन्ति ॥ १६ ॥
अथोपविशन्ति यत्राभिरंस्यमाना भवन्त्यहतेन वाससा प्रच्छाद्यास्वपन्त ओदयात् ॥ १७ ॥
अथ गृहं प्रविश्य तमग्निं शुचौ महानसे चुल्ल्यां प्रतिष्ठापयति एष पचनाग्निः । अत ऊर्ध्वं ततो यत्र देशे अभिरंस्य
१. 'त् । उ' ख. ग. पाठः.
२. 'यः स उ' घ. पाठः.
३. 'पश्चा' ख. ग. ङ. पाठः.
१९६ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
माना भवन्ति स्वे स्वे शयनस्थान इत्यर्थः , तत्रोपविशन्त्यो-
दयादहतेन वाससा प्रच्छाद्यास्वपन्तः ॥ १७ ॥
उदिते सौर्याणि स्वस्त्ययनानि^१ च जपित्वाऽन्नं सं-
स्कृत्यापनः शोशुचदघमिति प्रत्यृचं हुत्वा ब्राह्मणान्
भोजयित्वा स्वस्त्ययनं वाचयीत गौः कंसो^२ऽहतं वासश्च
दक्षिणा ॥ १८ ॥
ते जपन्ति ये मन्त्रविदः । अन्नसंस्कारस्तस्मिन्नग्नौ
होमः । कर्तुर्ऋगन्तेन होमः । प्रत्यृचवचनान्न स्वाहाकारेण ।
तेनान्नेन ब्राह्मणभोजनम् । तैर्भुक्तवद्भिः स्वस्त्ययनं वाचयेत् ।
तेभ्यश्च गवाद्यो दक्षिणाः । अथामात्यानां भोजनम् । पूर्वे-
द्युरुपवासः^३ । पाकश्च तस्मिन् गृहे न स्यात् ॥ १८ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये सप्तमः खण्डः ।
अथाष्टमः खण्डः ।
अथातः पार्वणश्राद्धे काम्य आभ्युदयिक एको-
द्दिष्टे वा ॥ १ ॥
अथशब्दोऽधिकारार्थः । अतःशब्दो हेतौ । यस्माच्छ्राद्धा-
यत्तौ गृहस्थस्याभ्युदयः, तस्मात् । श्राद्धे विधिर्वक्ष्यते । वाशब्दः
समुच्चये । पक्षसन्धिः पर्व तद्योगात् कृत्स्नमहरुच्यते । अवि-
शेषाभिधानेऽपि अमावास्यैव गृह्यते शास्त्रान्तरवशात् । तत्र
गौतमः—'अथ श्राद्धममावास्यायामि'ति । तत्र कर्तव्यं पार्व-
१. 'नि ज', २. 'कां' ख. घ. पाठः. ३. 'ह्ये' ख. पाठः.