सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

दशमः खण्डः] अनाविलोपेताम् । ५१

दशमः खण्डः] अनाविलोपेताम् । ५१

अथ दशमः खण्डः ।

चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत् ॥ १ ॥

इह कश्चित् केनचिदर्थेनार्थी, या एताः प्रतिजनपदमायतनेषु देवताः पूज्यन्ते तासां मध्ये यां च भजते यां च परं मन्यते तस्यै प्रतिशृणोति पशुना स्थालीपाकेनाज्येन वा यच्चान्यदेवं युक्तं तेन त्वा यक्ष्य इति । स तस्मिन्नर्थे सिद्धे तां देवतां तेन हविषो यजते तस्मिन् विषय इदमुच्यते । चैत्यमायतनम् इह तात्स्थ्यात् ताच्छब्धं चैत्यस्थस्य दैवतस्य यज्ञश्चैत्ययज्ञः । अपर आह — यत्र द्रव्यं देवता काम इति सर्वं चित्तपरिकल्पितं स चित्ते भवश्चैत्यः । ‘गम्भीराञ्ञ्यः’ । ‘अव्ययीभावाच्चे’त्यत्र परिमुखादेर्ग्रहणम् । तेषु चित्तशब्दः पठितव्यः । चैत्यश्चासौ यज्ञश्चेति चैत्ययज्ञ इति । तस्मिन् सङ्कल्पितेन हविषाज्यभागान्ते हुत्वा स्विष्टकृतः प्राक् तस्मै चैत्याय तदेव हविर्बलिं हरेत् प्रत्यक्षेण निवेदयेत् । पश्चात् स्विष्टकृत् । तस्याप्यवदानं पूर्वमेव । तदायतनवासिनेऽमुष्मै स्वाहेति प्रधानहोमः । पुनश्चैत्यायेति वचनं प्रत्यक्षहरणार्थम् । सर्वेष्वेव कर्मसु आगन्तुकानि प्राक् स्विष्टकृतः । प्राक् स्विष्टकृत इति वचनमस्मिन् कर्मणि होमोऽस्तीति प्रदर्शनार्थम् । अन्यथा बलिहरणमात्रमेव स्याद् यज्ञशब्दस्य तावत्यपि दृष्टत्वाद् यथा भूतयज्ञ इति ॥ १ ॥

यद्यु वै विदेशस्थम् ॥ २ ॥


१. ‘प्रा स्विष्टकृतः प्रोक्तस्मै च चेत्याय तदेव बलिं हरे य’ ग. पाठः.

५२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

यजेतेति शेषः । उवै इति निपातौ वाक्यालङ्कारे
विप्रकृष्टो देशो विदेशः ॥ २ ॥

यदि विदेशस्थं चैत्यं यजेत यदा चोलेषु स्थितः सोमनाथं, तदा प्रत्य-
क्षहरणाद्योगात् किं कर्तव्यं तदाह —

पलाशदूतेन ॥ ३ ॥

हारयेदिति शेषः । पलाशवृक्षेण दूतं कारयित्वा
तेन हारयेत् ॥ ३ ॥

यत्र वेत्थ वनस्पत इत्येतयर्चा द्वौ पिण्डौ कृत्वा
वीवधेऽभ्याधाय दूताय प्रयच्छेत् ॥ ४ ॥

पादग्रहणादेव सिद्धे एतयर्चेति वचनं पिण्डकरणे
अभ्याधाने प्रदाने चाभ्यासार्थम् । यत्र वेत्थ वनस्पत इति
द्वौ पिण्डौ कृत्वा एतयर्चा अभ्याधाय एतयर्चा प्रयच्छे-
दिति । पिण्डयोरेकश्चैत्याय अपरो दूताय पाथेयरूपः । वी-
वधो नाम स्कन्धवाह्य उभयतोबद्धशिक्यः काष्ठविशेषः त-
स्मिन् पिण्डावभ्याधाय दूताय प्रयच्छेत् तस्य स्कन्धे नि-
दध्यात् ॥ ४ ॥

इमं तस्मै बलिं हरेति चैनं ब्रूयात् ॥ ५ ॥

यश्चैत्याय परिकल्पितः तमभिमृश्य । तस्मा इत्यस्य
स्थाने चैत्यस्य चतुर्थ्या नामनिर्देशः ॥ ५ ॥

अयं तुभ्यमिति यो दूताय ॥ ६ ॥

यो दूताय परिकल्पितः पिण्डः तमभिमृश्यायं तुभ्य-
मिति ब्रूयात् ॥ ६ ॥


१. 'यदूतः रू' क. ख. पाठः.