सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पञ्चमः खण्डः] अनाविलोपे तम् । २७

पञ्चमः खण्डः] अनाविलोपे तम् । २७

परिणीय कर्तव्याविति ज्ञापनार्थम् । अन्यथा त्रीणि परिण-
यनान्यश्मारोहणान्तानि निरन्तराणि कृत्वा होमा अपि त्र-
यो निरन्तराः क्रियेरन् , तथोपदिष्टत्वात् । ततश्च प्रथम एव
होमः परिणीय कृतः स्याद् , नेतरौ । अनेन तु प्रतिषेधेन
सर्वेषामेव होमानां चतुर्थव्यतिरिक्तानां परिणीय क्रिया ज्ञा-
पिता भवति । शूर्पपुटेन शूर्पकोणेन । अभ्यात्ममिति प्राक्-
चेष्टानिवृत्त्यर्थम्। मन्त्रानुपदेशादेव सिद्धे तूष्णींवचनं “प्रजा-
पतिं मनसा ध्यायात् तूष्णींहोमेषु सर्वत्रे”त्यस्य प्राप्त्यर्थम् ।
उपदेशक्रमादेव सिद्धे चतुर्थवचनं लाजानां स्विष्टकृन्मा भू-
दिति । वधूरेव कर्त्री चतुर्थवचनादेव ॥ १३ ॥

ओप्योप्य हैके लाजान् परिणयन्ति ॥ १४ ॥

एके आचार्या लाजानोप्योप्य हुत्वा हुत्वा परिणयनं
कर्तव्यमित्याहुरित्यर्थः । हशब्दोऽभिमतोऽयं पक्ष इति दर्श-
नार्थः ॥ १४ ॥

तथोत्तमे आहुती न सन्निपततः ॥ १५ ॥

तथा कर्तव्यम् । अस्मिन् पक्षे उत्तमयोराहुत्योः स-
न्निपातो न भवतीत्यर्थः । किमर्थमिदमिह । प्रागुक्तमपरिणी-
येति । तदन्यार्थं सदिह दोषमावहति । तृतीयं परिणयनम-
कृत्वा चतुर्थो होमः कर्तव्य इति सिद्धं भवति अपरिणीय
चतुर्थमिति वचनात् । अस्माद् वचनात् तृतीयं परिणयनं
कृत्वा चतुर्थो होमः कर्तव्य इति सिद्धं भवति ॥ १५ ॥

अथास्यै शिखे विमुञ्चति यदि कृते भवतः ॥ १६ ॥

अथशब्दोऽनन्तरार्थः । तेन स्विष्टकृत उत्कर्षः । अस्यै


१. 'प्यौ' ग. पाठः. २. 'इ' क. पाठः.

२८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अस्या इत्यर्थः । आत्मनिवृत्त्यर्थं चैतदुक्तम् । यदि कृते भवत इति ग्रामादिधर्माणामनियतत्वादुक्तम् ॥ १६ ॥

ऊर्णास्तुके केशपक्षयोर्बद्धे भवतः ॥ १७ ॥

– एवंलक्षणे ते शिखे, ययोर्विमोक उपदिष्टः । ऊर्णास्तुके ऊर्णासूत्रे । केशपक्षयोः केशसन्निवेशस्य दक्षिणोत्तरयोः पार्श्वयोः ॥ १७ ॥

प्र त्वा मुञ्चामि वरुणस्य पाशादिति ॥ १८ ॥

दक्षिणस्या ऊर्णास्तुकाया अयं मन्त्रः ॥ १८ ॥

उत्तरामुत्तरया ॥ १९ ॥

उत्तरामोर्णास्तुकामुत्तरयर्चा “प्रेतो मुञ्चामि”त्यनया विमुञ्चति ॥ १९ ॥

अथैनामपराजितायां दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान् विन्दावहै बहूंस्ते सन्तु जरदष्टय इति ॥ २० ॥

अथशब्दः पूर्ववत् । पूर्वोत्तरा दिगपराजिता । अन्यपेक्षया च सा गृह्यते । तस्यां दिशि एनां व