आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पञ्चमः खण्डः] अनाविलोपेताम् । २३
पञ्चमः खण्डः] अनाविलोपेताम् । २३
देव सर्वेषु जनपदादिषु भवन्ति तथात्रापि सिद्धे नियमार्थ-
मिदमारभ्यते — यद्वक्ष्यामस्तत् सर्वेषां भवतीति । तेन जन-
पदादिधर्मस्य वक्ष्यमाणस्य च विरोधे वक्ष्यमाणमेव भवति ।
तद्यथा — केषुचिद् देशेषु सद्यः समावेशनं दृष्टं वक्ष्यमाणेन
त्रिरात्रं द्वादशरात्रमिति ब्रह्मचर्येण बाध्यते ॥ २ ॥
पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुद-
कुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मु-
ख्या आसीनाया गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्-
गुष्ठमेव गृह्णीयाद्यदि कामयेत पुमांस एव मे पुत्रा जाये-
रन्निति अङ्गुलीरेव स्त्रीकामो रोमान्ते हस्तं साङ्गुष्ठमु-
भयकामः ॥ ३ ॥
मृन्मय्या अपि दृषदः संभवादश्मग्रहणम् । अश्मनो य-
स्यकस्यचिद् ग्रहणाय दृषदमित्युक्तम्। यया पिष्यते सा दृषत् ।
उत्तरपुरस्तात् उत्तरस्याः पूर्वस्याश्च दिशोरन्तराले । समन्वार-
ब्धायां समन्वारब्धवत्याम् । हुत्वा तिष्ठन्निति होमोत्तरकालं
स्थानेदर्शनादासीन एव जुहोतीति दर्शयति । सामान्यापेक्षं²
च दर्शनम् आसीनो दर्विहोमान् जुहोतीति । प्रत्यङ्मुख इति
वचनं प्राक्चेष्टानिवृत्त्यर्थम् । प्राङ्मुख्या इति वचनं लज्जा-
दिनावाङ्मुखीत्वनिवृत्त्यर्थम् । इह आसीनाया इति वचनमु-
त्तरं कर्म तिष्ठन्त्याः स्यादिति । गृभ्णामि ते सौभगत्वाय हस्त-
मिति हस्तं गृह्णीयादिति नित्यो विधिः । इतरे गुणकामाः ।
१. 'नं दर्शयन्नासी' क. ग. घ. पाठः.
२. 'क्षं द' ख. ग. पाठः.
२४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
तथाचाङ्गुष्ठमेवाङ्गुलीरेवेत्येवकारः सङ्गच्छते । “दक्षिणेन नाचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयादि”त्यापस्तम्बः। पुत्रशब्दस्य स्त्र्यपत्येऽपि दर्शनात् पुमांस इत्युक्तम् । स्त्रीशब्दो दुहितृवाची पुत्रसन्निधानात् । रोमान्ते रोमवतः प्रदेशादुपरि । उभयकामः पुत्रकामः स्त्रीकामश्च ॥ ३ ॥
प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयन् जपति ॥ ४ ॥
सर्वेषां यज्ञाङ्गाना प्रदक्षिणेऽभ्यन्तरीभावः । अन्यान्यपि यज्ञाङ्गान्यपयुक्तानि “न विहारेण व्यवेयादि”ति वचनात् । उदकुम्भग्रहणं त्विह नियमार्थं — हविर्व्यतिरिक्तं यद् विवाहे विशेषविहितं तत्रोदकुम्भमेवेति । तेनाश्मनो¹ न भवति । लाजानां तु भवत्येव । त्रिरित्यस्य परिणयन्नित्यनेन सम्बन्धः अनन्तरत्वात्, न जपतीत्यनेन व्यवहितत्वात् । “परिणीये परिणीये”ति वीप्सा च तमेवार्थं स्पष्टयति। परिणयनाङ्गत्वाच्च जपस्य यावत्परिणयनमावृत्तिः ॥ ४ ॥
अमोहमस्मि सा त्वं सा त्वमस्य मोहं द्यौरहं पृथिवी त्वं सामाहमृक् त्वं तावेह विवहावहै प्रजां प्रजनयावहै संप्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति ॥ ५ ॥
परिणयनमन्त्रोऽयम् ॥ ५ ॥
परिणीय परिणीयाश्मानमारोहति ॥ ६ ॥
१. 'तदाश्म' क. पाठः.