सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

द्वितीयाध्याये चतुर्थः खण्डः ।

११८ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

मध्यमाष्टकायामाह — 'स्विष्टकृतप्रभृति समानमा पिण्डनिधानात्।' 'अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ती'ति । अपर आह — इत्युक्तमित्यनेनैव पिण्डनिपरणमपि प्राप्यते इतिशब्दस्याद्यर्थत्वात् । ब्राह्मणभोजनाद्युक्तमित्यर्थः । क्व पुनरुक्तं पार्वणश्राद्ध इति ॥ २१ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
द्वितीयाध्याये चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः ।

अपरेद्युरन्वष्टक्यम् ॥ १ ॥

अपरस्मिन्नहनि नवम्यामन्वष्टक्यं नाम कर्म कर्तव्यम् ॥ १ ॥

तस्यैव मांसस्य प्रकल्प्य ॥ २ ॥

योऽसौ पशुरष्टकायामुपाकृतः तस्यैव मांसस्यैकदेशं प्रकल्प्य संस्कृत्य तत् कर्म कर्तव्यम् । ब्राह्मणभोजनार्थ एवात्र मांससंस्कारः होमेऽभावात् । पूर्वेद्युस्तु होमे ब्राह्मणभोजने च मांसं भवति ॥ २ ॥

दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य द्वारं कृत्वा समूलं बर्हिस्त्रिरपसलैर्वधून्वन् परिस्तीर्य हवींष्यासादयेदोदनं कृसरं पायसं दधिमन्थान् मधुमन्थांश्च ॥ ३ ॥

दक्षिणदिग्भागेऽवैनतं दक्षिणाप्रवणम् उत्तरोन्नतं स्थण्डिलं तस्मिन्नग्निमुपसमाधाय तं प्रदेशं तिरस्करिण्यादिभिः


१. 'मा' ख. पाठः.
२. 'प्रवणं द' ग. पाठः.

पञ्चमः खण्डः] अनाविलोपेताम् । ११९

परिश्रित्य परिश्रितस्योत्तरपक्षे द्वारं करोति । परिश्रितस्येति वचनं यदा परिश्रितं तदोत्तरतो द्वारं करोतीत्येवमर्थम् । तेन कृताकृतं परिश्रयणम् । द्वारं कृत्वा मूलेन सहाहृतं बर्हिस्त्रिः परिस्तृणाति । अपसलैरपसव्यमित्यर्थः । अवधून्वन् अधस्तात् कम्पयन् परिस्तीर्य तस्मिन् परिस्तरणे हवींष्यासादयत्योदनादीनि । दधिमिश्राः सक्तवो दधिमन्थाः, मधुमिश्राः मधुमन्थाः । 'पिण्डपितृयज्ञकल्पेने'ति वक्ष्यमाणं सर्वत्रैवास्मिन् कर्मणि प्रवर्तते न होममात्रे । ततश्च ओदनादीनामप्यौपासन एव श्रपणं भवति ॥ ३ ॥

पिण्डपितृयज्ञकल्पेन ॥ ४ ॥

इदं कर्म कर्तव्यम् ॥ ४ ॥

हुत्वा मधुमन्थवर्जं पितृभ्यो दद्यात् ॥ ५ ॥

मधुमन्थमेकं वर्जयित्वान्यानि द्रव्याणि हुत्वा पितृभ्यो दद्यात् तान्येव द्रव्याणि सह मधुमन्थेन । अनेन पिण्डनिपरणमुक्तं भवति ॥ ५ ॥

स्त्रीभ्यश्च ॥ ६ ॥

तानि द्रव्याणि पिण्डरूपेण दद्यात् । काभ्यः, पितृसन्निधेस्तत्स्त्रीभ्यः मातृपितामहीप्रपितामहीभ्यः । द्वे लेखे भवतः । ऊहश्च^३ भवति यथा 'शुन्धन्तां मातरः शुन्धन्तां पितामह्यः शुन्धन्तां प्रपितामह्य' इति । तथा 'एतत् ते तत' 'ये च त्वामन्व'त्यत्र द्वयोर्मात्रोर्द्विवद् भवति । बहुषु बहुवत् । एतद्वां यज्ञदारुरुद्रे याश्च युवामत्रानु, एतद्वो यज्ञदारुरुद्राविष्णुदा


१. 'न्ने',
२. 'भ्यः। ऊ' ग. पाठः.
३. 'श्च । शु' ख. पाठः.

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

१२० आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

याश्च युष्मानत्रानु । अनुमन्त्रणं तु पितॄणां मातृणां च सकृ-
देव । एकशेषवृत्त्या पितर इत्युभयत्र सम्भवात् । तथा अभ्य-
ञ्जने यज्जदारुद्रदे अभ्यञ्जाथाम् । यज्जदारुद्रदाविष्णुदा अभ्य-
ङ्ग्ध्वमिति¹ । वासोदाने एतद्वो मातरो वासो मा नोऽतोऽन्य-
न्मातरो युङ्ग्ध्वम् । एवं पितामह्यः प्रपितामह्यो युङ्ग्ध्व-
मिति । उपस्थानं तु सकृदेव पूर्ववत् । एवमेतत् स्त्रीणां पिण्ड-
दानं भवति ॥ ६ ॥

सुरामाचाममित्यधिकम् ॥ ७ ॥
स्त्रीपिण्डेषु सुरामाचामं चाधिकं दद्यात् । सुरा प्र-
सिद्धा । आचामः तण्डुलप्रक्षालनाम्बु यवागूरित्यन्ये ॥ ७ ॥

कर्पूष्वेके द्वयोः षट्सु वा ॥ ८ ॥
एके आचार्याः कर्षूनिर्व²पेरणमिच्छन्ति । लेखयोर्ले-
खयोः कर्षूरित्य³भिधानम् । कर्ष्वौ च कर्ष्वश्च कर्ष्वः । द्वयोः
कर्ष्वोः षट्सु वा कर्षूषु । यदा द्वे तदा पितॄणामेका मातृ-
णामपरा । ते चायते भवतः । यदा षट् तदा तिस्रस्तिस्रश्च
वृत्ता भवन्ति ॥ ८ ॥

पूर्वासु पितृभ्यो दद्यात् ॥ ९ ॥
पूर्वा च लेखा पूर्वा कर्षूः पूर्वाश्च लेखाः पूर्वाश्च
कर्ष्वः । ताँसु पितृभ्यः पिण्डं दद्यात् ॥ ९ ॥


१. 'ति एवमञ्जने अञ्जाथामङ्ग्ध्वमिति । वा' घ. पाठः २. 'व' ग. ख. पाठः. ३. 'त्यवटाभि', ४. 'पूर्वासु' ख. पाठः.