आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
षष्ठः खण्डः] अनाविलोपेताम् । १८९
षष्ठः खण्डः] अनाविलोपेताम् । १८९
सुसंचितं संचित्य पवनेन संपूय यत्र सर्वत॑ आपो नाभिव्यन्देरन् अन्या वर्षाभ्यस्तत्र कर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ॥ ८ ॥
अस्थि सुसंचितं यथा तथा संचित्य पवनेन शूर्पादिजन्येन संपूय भस्मपांसूंच्च संशोध्य सूक्ष्माण्यप्यस्थीनि संचित्य तं कुम्भं यत्र वर्षाभवाभ्योऽन्या आपो नाभिव्यन्देरन् तादृशे कर्तेऽवदध्युरुपसर्पेत्यृचा ॥ ८ ॥
उत्तरया पांसूनवकीर्य अवकीर्णे उत्तरामुत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्राद्धमस्मै दद्युः ॥ ९ ॥
उत्तरया उच्छ्वञ्चस्वेति^२ पांसूनभितोऽवकीर्य उच्छ्वञ्चमानेति जपति तत उत्त स्तभ्नामीति कपालेनापिधाय कुम्भमुपर्यपि पांसूनवकिरति । केचित्तु पूर्वमपिधाय जपित्वा पांसूनवकिरन्ति । प्रत्याव्रज्य श्मशानाद् अप उपस्पृश्य स्नात्वा श्राद्धमस्मै प्रेताय दद्युः । सर्वमेतत् कर्ता करोति । अमात्यानामनुसन्धानमात्रकमिदम् । श्राद्धमेकोद्दिष्टं तच्चोत्तरत्र वक्ष्यते । नवश्राद्धमासिकादीनि श्राद्धान्तराणि स्मृतिभ्योऽवगन्तव्यानि ॥ ९ ॥
ति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये षष्ठः खण्डः ।
१. 'त्रापो' ख. घ. पाठः.
२. 'त्यनया पां' घ. पाठः.
CC-0. Agamnigam Digital Preservation Foundation, Chandigarh
| १९० | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः |
|---|
अथ सप्तमः खण्डः ।
गुरुणा॑भिम्मृता अन्यतो वापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन् ॥ १ ॥
येषु जीवत्सु गुरुर्म्रियते ते गुरुणाभिम्मृताः । यथा सूर्योदये स्वपन् सूर्याभ्युदित इत्युच्यते तथा । गुरुः कुलश्रेष्ठः पित्रादिर्वा । अन्येषां वा पित्रादीनां बहूनामुपर्युपरि मरणेनापक्षीयमाणा अमावास्यायां शान्तिकर्म वक्ष्यमाणं कुर्वीरन् अमात्याः। तत्रैको ज्येष्ठः पुत्रादिः कर्ता । अपरेऽनुसन्धातारः ॥
पुरोदयादग्निं संहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्धर्चेन ॥ २ ॥
प्रागुदयादग्निं भस्मना सहितमायतनेन सहितं दक्षिणस्यां दिशि हरेयुः क्रव्यादमित्यर्धर्चेन । गृहोपकरणभूतानां मणिकादीनां पुराणानामुत्सर्गः नवानां चोत्पत्तिरनन्तरं वक्ष्यते । तत्साहचर्याद् गृहोपकरणभूतस्य पचनाग्नेरयमुत्सर्गः न गृह्यस्य नापि श्रौतानाम् ॥ २ ॥
तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्येमायतनं परियन्ति सव्यैः पाणिभिः सव्यानूरूनाघ्नानाः ॥ ३ ॥
यत्र वा चतुष्पथादन्यत्रापि यत्र कुत्रापि वा दक्षिणस्यामेव दिशि ॥ ३ ॥
१. 'साय' ख. ग. ङ. पाठः. २. 'व्यं प' ङ. पाठः. ३. 'त्रचिद् वा' ख. पाठः. ४. 'स्यां दि' ख. घ. पाठः.