आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
द्वितीयः खण्डः] अनाविलोपेतम् । १४१
द्वितीयः खण्डः] अनाविलोपेतम् । १४१
ध्यायम् । स्वाध्यायविधिरित्युपक्रम्यापि पुनः स्वाध्यायग्रहण-
मोङ्कारव्याहृतिसावित्रीणामपि स्वाध्यायेऽनुप्रवेशार्थम् ॥ २ ॥
ओंपूर्वा व्याहृतयः ॥ ३ ॥
प्रथमं तावदोङ्कारपूर्विका व्याहृतयो वक्तव्याः ॥ ३ ॥
सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् ॥ ४ ॥
पश्चात् सवित्रीमन्वाह, कथं, प्रथमं पच्छः द्वितीय-
मर्धर्चशः तृतीयं सर्वामिति । तृतीयग्रहणं पच्छो वार्धर्चशो वा
सर्वां वेति विकल्पसंशयनिवृत्त्यर्थम् ॥ ४ ॥
अथ स्वाध्यायमधीयीत ॥ ५ ॥
पुनः स्वाध्यायग्रहणं वक्ष्यमाणो विशेषो वक्ष्यमा-
णस्य स्वाध्यायस्यैव यथा स्यादिति । कः पुनरसौ । 'स या-
वन्मन्येत तावदधीत्ये'ति । किं सिद्धं भवति । प्रणवव्या-
हृतिसावित्र्यात्मकस्य वोक्तस्य स्वाध्यायस्य नित्यत्वं सिद्धं
भवति ॥ ५ ॥
स्वाध्यायमाह —
ऋचो यजूंषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि
कल्पान् गाथा नाराशंसीरितिहासपुराणानीति ॥ ६ ॥
कल्पशब्देन सूत्राण्युच्यन्ते । कथं पुनर्नित्ये स्वाध्या-
याध्ययने अनित्यानां सूत्राणां विधानमुपपद्यते, तदाकृते-
१४२ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
नित्यत्वात् । यथा पशोरनित्यस्य नित्ये ब्राह्मणवाक्ये दर्शनं तद्वत् । एतेन इतिहासपुराणानि व्याख्यातानि । गाथाः ‘तदे-षाभियज्ञगाथा गीयते’ इत्याद्युदाहृताः । नाराशंसीः नराशं-सदेवत्याः ‘नराशंसमिह प्रियमि’त्याद्या ऋचः । आसां पृथग् ग्रहणं फलविशेषविधानार्थम् । इतिहासो महाभारतम् । पुराणं वायुप्रोक्तादि ॥ ६ ॥
ऋगादीनामध्ययने फलविशेषमाह —
यदृचोऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः, यत्सामानि मध्वाहुतिभिः, यद-थर्वाङ्गिरसः सोमाहुतिभिः, यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृताहुतिभिः ॥ ७ ॥
यथा पयःप्रभृतीनामाहुतिभिर्देवतास्तृप्यन्ति एवमृ-गादीनामध्ययनेनेत्युक्तं भवति । द्वितीयादिषु यद्यजूंषीत्या-दिष्वेवेत्यादेरनुषङ्गः ॥ ७ ॥
न केवलं देवतास्तर्पयति, पितॄनपीत्याह—
यदृचोऽधीते पयसः कुल्या अस्य पितॄन् स्वधो-पक्षिरन्ति, यद्यजूंषि घृतस्य कुल्याः, यत्सामानि मध्वः कुल्याः, यदथर्वाङ्गिरसः सोमस्य कुल्याः, यद् ब्राह्म-णानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृ-तस्य कुल्याः ॥ ८ ॥
कुल्याः क्षुद्रनद्यः । ऋगादीनामध्ययने पयःप्रभृ-तीनां कुल्या अस्याध्येतुः पितॄन् स्वधा भूत्वोपक्षरन्ति उप-
१. ‘त् पशुवत् । य’ व. पाठः.
२. ‘पो’ ग. पाठः.