सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

दशमः खण्डः] अनाविलोपेताम् । १३५

दशमः खण्डः] अनाविलोपेताम् । १३५

ब्राह्मणान् भोजयित्वा शिवं वास्तु शिवं वास्त्विति वा-
चयीत ॥ ७ ॥

स्थालीपाकधर्मत्वादेव श्रपणे सिद्धे श्रपयित्वेति वचनं
नियमार्थं स्थालीपाकस्यास्यैव प्रथमं श्रपणं यथा स्याद् भोज-
नार्थं मा भूदिति । तैर्भुक्तवद्भिरेव वाचनम् ॥ ७ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
द्वितीयाध्याये नवमः खण्डः ।


अथ दशमः खण्डः ।

उक्तं गृहप्रपदनम् ॥ १ ॥

यदनन्तरोक्तं मणिकप्रतिष्ठापनादि तद् गृहप्रपदनं
स्वगृहप्रवेशः । पूर्वं कृतसंस्कारमपि गृहं क्रयादिप्राप्तं प्रविश-
ताप्येतत् कर्तव्यमित्युक्तं भवति ॥ १ ॥

बीजवतो गृहान् प्रपद्येत ॥ २ ॥

पूर्वं व्रीह्यादिबीजानि स्थापयित्वा पश्चाद् गृहान् प्रप-
द्येत ॥ २ ॥

क्षेत्रं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फल्गुनीभी रोहिण्या वा ॥

सर्वत्र ‘नक्षत्रे च लुपि’त्यधिकरणे तृतीया । एषु नक्ष-
त्रेषु क्षेत्रस्य कर्षणं कारयेत् ॥ ३ ॥

तत्र प्रकारः —

क्षेत्रस्यानुवातं क्षेत्रस्य पतिना वयमिति प्रत्यृचं
जुहुयाज्जपेद् वा ॥ ४ ॥

क्षेत्रस्यानुवातं यस्यां दिशि होमे कृते क्षेत्रं धूमो

१३६आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

व्याप्नोति तस्यां दिग्होमः कर्तव्यः । जपेद्वा जपहोमयोर्वि-
कल्पः ॥ ४ ॥

गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि
वात्स्त्रा इति द्वाभ्याम् ॥ ५ ॥

आत्मीया गावो यदा प्रतिष्ठन्ते गृहान्निर्गच्छन्ति तदा
ता अनुमन्त्रयते मयोभूरिति द्वाभ्यामृग्भ्याम् ॥ ५ ॥

आयतीर्यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च
ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्यः ॥ ६ ॥

इतिकरणाध्याहारेण मन्त्रसमाप्तिः । आयतीर्गृहान्
प्रत्यागच्छतीरनुमन्त्रयते यासामूध इति मन्त्रेण ॥ ६ ॥

या देवेषु तन्वा मैरयन्तेति च सूक्तशेषम् ॥ ७ ॥

द्वितीयानिर्देशाद् ब्रूयादिति गम्यते । या देवेष्विति
(यत् ? यः) सूक्तशे(षं?षः) तमप्यायतीनामनुमन्त्रणे ब्रूयात् ॥

आगावीयमेके ॥ ८ ॥

एक आचार्या आ गावो अग्मन् इति सूक्तमिच्छन्ति ॥

गणानासामुपतिष्ठेतागुरूगवीनां भूताः स्थ प्रश-
स्ताः स्थ शोभनाः प्रियाः प्रियो भूयासं शं मयि जानी-
ध्वं शं मयि जानीध्वम् ॥ ९ ॥

आसां गवां गणान् संघात् यत्र यत्र दृष्ट्वानुपतिष्ठेत ।
किमविशेषेण, नेत्याह — अगुरुगवीनां गुरोर्या गावः तद्व्य-
तिरिक्तानाम् आसां गवां गणानुपतिष्ठेत भूताः स्थेति मन्त्रेण ।


१. 'या वो भू' ग. पाठः. २. 'ण द्विरु' घ. पाठः.