आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
चतुर्थः खण्डः] अनाविलोपेसम् । २१
चतुर्थः खण्डः] अनाविलोपेसम् । २१
द्रव्यसंयोगात् । अन्ये त्रयोऽनियताः हेत्वभावात् । पैशा-
चो निन्दितः ॥ २१ ॥
तस्यां जातो द्वादशावरान् द्वादश परान् पुनात्यु-
भयतः ॥ २२ ॥
तस्यां ब्राह्मविवाहोढायां जातः पुत्रः उभयतः मातृ-
वंशे पितृवंशे च परानवरान् द्वादश द्वादश पुनाति । एवमु-
त्तरत्रापि ॥ २२ ॥
ऋत्विजे वितते कर्मणि दद्यादलङ्कृत्य स
दैवः ॥ २३ ॥
वितते कर्मणि कर्ममध्य इत्यर्थः ॥ २३ ॥
दशावरान् दश परान् पुनात्युभयतः ॥ २४ ॥
तस्यां जात इति सर्वत्रानुवर्तते ॥ २४ ॥
सह धर्मं चरतम् इति प्राजापत्यः ॥ २५ ॥
सह धर्मं चरतम् इति समयं कृत्वा यत्र प्रदानं स प्रा-
जापत्यः । यद्यप्यन्येष्वपि विवाहेषु सहधर्मचरणमस्ति, तथा-
प्यत्र यावज्जीवं सहधर्मचरणमेव न मध्ये आश्रमान्तरप्राप्ति-
रिति विशेषः । किञ्च तथा तयैव सहधर्मचरणं न स्त्र्यन्तर-
विवाहः ॥ २५ ॥
अष्टावरानष्ट परान् पुनात्युभयतः ॥ २६ ॥
गोमिथुनं दत्त्वोपयच्छेत स आर्षः । २७ ॥
सप्तावरान् सप्त परान् पुनात्युभयतः ॥ २८ ॥
मिथ समयं कृत्वोपयच्छेत स गान्धर्वः ॥ २९ ॥
मिथः रहसि परस्परं वा । समयं भद्रे भजस्व मां भद्र !
भजस्व मामित्येवमादि ॥ २९ ॥
२२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
धनेनोपतोष्योपयच्छेत स आसुरः ॥ ३० ॥
“वित्तेनानतिः स्त्रीमतामासुर” इति गौतमः। तेन कन्याया धनेनोपतोषणेऽपि नासुरत्वम् ॥ ३० ॥
सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः ॥ ३१ ॥
प्रमादोऽनवधानता ॥ ३१ ॥
हत्वा भित्त्वा च शीर्षाणि रुदतीं रुद्भ्यो हरेत् स राक्षसः ॥ ३२ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथखलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात् ॥ १ ॥
अथखल्विति वाक्योपन्यासे । उच्चावचा अनियताः, नैकरूपा इत्यर्थः । जनपदा अङ्गवङ्गादयः । जनपदधर्मान् ग्रामधर्मांश्च विवाहे प्रतीयादित्येव वक्तव्ये तानिति वचनसामर्थ्यात् तादृशानित्यर्थः । तेन कुलधर्माणामपि ग्रहणम् । प्रतीयात् जानीयात् । ज्ञानेन चात्र तत्पूर्वकं करणं लक्ष्यते । कुर्यादित्यर्थः । विवाहाधिकारे विवाहग्रहणं कृत्स्ने विवाहे एते धर्मा यथा स्युरिति । उपयमनादुत्तरकालं विधानादुपयमने न स्युः ॥ १ ॥
यत्तु समानं तद्वक्ष्यामः ॥ २ ॥
यत्त सर्वेषां समानं यथान्यानि कर्माण्यविशेषोपदेशा-