सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

नवमः खण्डः] अनाविलोपेनम् । १३३

नवमः खण्डः] अनाविलोपेनम् । १३३

मध्यमस्थूणायाः कर्तेऽवधाय प्रागयोदगग्रान् कुशानास्तीर्य व्रीहियवमतीरप आसेचयेद् अच्युताय भौमाय स्वाहेति ॥ १८ ॥

या गृहे मध्यमस्थूणा प्रधानभूता तस्याः कर्तेऽवधाय, किं, प्रागुक्ता अवकाः शीफालं च । किमर्थं तर्हि वचनं, ननु तेनैव सिद्धम् । वक्ष्यमाणो विशेषविधिस्तस्य बाधको मा भूदिति । यत्रावधानास्तरणे तत्राप आसेचयेद् अच्युताय भौमाय स्वाहेति मन्त्रेण ॥ १८ ॥

अथैनामुच्छ्रीयमाणामनुमन्त्रयेतैहैव तिष्ठ निमिता तिल्विलास्वामिरावतीं मध्ये पोषस्य तिष्ठतीम् आ त्वा प्रापन्नघायवः आ त्वा कुमारस्तरुण आ वत्सो जायतां सह आ त्वा परिश्रितः कुम्भ आ दध्नः कलशैरय इति ॥ १९ ॥

अथानन्तरमेनां मध्यमस्थूणामुच्छ्रीयमाणां कर्ते स्थाप्यमानामन्त्रयेत ‘इहैव तिष्ठेति द्वाभ्यामृग्भ्याम् ॥ १९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये अष्टमः खण्डः ।


अथ नवमः खण्डः ।

वंशमाधीयमानमृतेन स्थूणामधिरोह वंश द्राघीय आयुः प्रतरं दधाना इति ॥ १ ॥

स्थूणायामाधीयमानं वंशमनुमन्त्रयते ऋतेनेति¹ मन्त्रेण ॥ १ ॥


१. ‘ति’ ॥ ङ. पाठः.

१३४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत् पृथिव्या अधिसम्भवेति ॥ २ ॥

सदूर्वासु दूर्वासहितासु चतसृषु शिलासु मणिकं प्रतिष्ठापयति पृथिव्या अधिसम्भवेत्यनेन ॥ २ ॥

अरङ्गरो वावदीतीति वा ॥ ३ ॥

अथवा अरङ्गरो वावदीतीत्यनेन प्रतिष्ठापयति । मन्त्रयोर्विकल्पः ॥ ३ ॥

अथास्मिन्नप आसेचयत्यैतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः। इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्त्विति ॥ ४ ॥

अथानन्तरमस्मिन्मणिकेऽप आसेचयति ऐतु राजेति मन्त्रेण ॥ ४ ॥

अथैनच्छमयति व्रीहियवमतीभिरद्भिः ॥ ५ ॥

अथानन्तरमेनद् वास्तु शमयति शान्तं करोति व्रीहियवयुक्ताभिरद्भिः ॥ ५ ॥

तत्र प्रकारः —

हिरण्यमवधाय शन्तातीयेन त्रिः प्रदाक्षिणं परिव्रजन् प्रोक्षत्यविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन ॥ ६ ॥

तास्वप्सु हिरण्यमवधाय । शन्तातीयेनेत्यादि गतम् ॥

मध्येऽगारस्य स्थालीपाकं श्रपयित्वा वास्तोष्पते प्रतिजानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वो¹


१. 'त्वा शि' ख. पाठः.