सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

अष्टमः खण्डः] अनाविलोपेतम् । १९७

अष्टमः खण्डः] अनाविलोपेतम् । १९७

णम् । एतन्नित्यम् । एतदेवापरपक्षस्य तिष्यन्तरेषु क्रियमाणं
काम्यम् । अत्रापस्तम्बः — 'प्रथमेऽहनि क्रियमाणे स्त्रीप्राय-
मपत्यं जायत' इत्यादि । अभ्युदया विवाहादयः, तेषु कर्त-
व्यमाभ्युदयिकं तत्र । यच्चापरेद्युर्देवेज्या भवति तत्र पूर्वेद्युः क-
र्तव्यम् । 'तस्मात् पूर्वेद्युः पितृभ्यः क्रियते उत्तरमहर्देवान्
यजन्ति' इति श्रुतेः । प्रेतमेकमुद्दिश्य यद् दीयते तदेकोद्दिष्टम्
एक उद्दिष्टोऽत्रेति कृत्वा । तस्य कालो याज्ञवल्क्येनोक्तः —
“मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥”
इति । प्रथमे वत्सरे प्रतिमासं मृततिथावेकोद्दिष्टं कर्तव्यम् ।
यच्चाद्ये मासे तदेकादशेऽहन्युत्कृष्यते, न मृतेऽहनि कर्तव्यम् ।
ततः संवत्सरे सपिण्डीकरणं द्वादशे मासे मृततिथौ । तत्र च
प्रेतस्यैकोद्दिष्टं, पित्रादिभ्यः पार्वणम् । तत्र च^१ मासे तदेव मा-
सिकम् । प्रथमे संवत्सरे सांवत्सरिकमपि तदेव । द्वितीयादिषु^२
संवत्सरान्ते मृततिथावेकोद्दिष्टम् । एवमेतानि त्रयोदशैकोद्दि-
ष्टानि । त्रिपक्षे पूर्णे अपरम् । षट्सु मासेषु पूर्णेष्वपरं मासि-
कस्य पूर्वेद्युरपरेद्युर्वा । अन्तर्दशाहे चापरम् ।
“चतुर्थे पञ्चमे चैव नवमैकादशेऽहनि ।
यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥”
इति पठन्ति । वर्णानुपूर्व्याच्चत्वार्येतानि श्राद्धानि न प्रत्येकं
समुच्चितानि नवत्वविरोधात् । प्रथमं हि क्रियमाणमभिनवम् ।
तदेवमेतानि षोडशैकोद्दिष्टश्राद्धानि । पठन्ति च —


१. 'मे च सां', २. 'षु संवत्सरेषु सं' ख. ग. ङ. पाठः.

१९८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

“नवत्रिपक्षषाण्मास्यसांवत्सरिकमासिकैः ।
श्राद्धैः षोडशभिः प्रेतः पिशाचत्वं विमुञ्चति ॥
यस्यैतानि न कुर्वन्ति एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥”
इति । एतेषु पार्वणादिषु चतुर्षु श्राद्धेषु विधिर्वक्ष्यते ॥ १ ॥
ब्राह्मणान् श्रुतशीलवृत्तसंपन्नानेकेन वा काले ज्ञापितान् स्नातान् कृतपच्छौचानाचान्तान उदङ्मुखान् पूर्वं विश्वेभ्यो देवेभ्यः पितृवदुपवेश्यैकैकमेकैकस्य द्वौ द्वौ त्रींस्त्रीन् वा वृद्धौ फलभूयस्त्वं न त्वेवैकं सर्वेषां काममनाद्ये पिण्डैर्व्याख्यातमपः प्रदाय दर्भान् द्विगुणभै²ग्नानासनं प्रदायापः प्रदाय तैजसाश्ममयमृन्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वपः प्रदाय शंनो देवीरभिष्टय इत्यनुमन्त्रितासु³ तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्तः स्वधया पितॄन् (इमान्) लोकान् प्रीणयाहि नः (स्वाहेति ? स्वधेति) ॥ २ ॥

ब्राह्मणानिति श्रुतादिसंपन्नयोः क्षत्रियवैश्ययोर्ग्रहणं मा भूत् । श्रुतं विद्या शीलमन्तःकरणशुद्धिः वृत्तमाचारः तैस्त्रिभिरपि संपन्नान् समुदितान् । एकेन वाँ⁴, समस्तमपि संपन्नानित्यपेक्ष्यते यदि श्रुतादयः सर्वे न लभ्यन्ते तेषामेकेनापि गुणेन संपन्नानिति । काले ज्ञापितान् पूर्वेद्युर्निमन्त्रितान् ,


१. ‘ ’, २. ‘भु’, ३. ‘न्त्र्य ता’ छ. पाठः. ४. ‘वा (उत्प!) स’ घ., ‘वा(यु ?) स’ ख. ग. पाठः.