आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पञ्चमः खण्डः] अनाविलोपेताम् । १८५
पञ्चमः खण्डः] अनाविलोपेताम् । १८५
वासांसि परिधाय सकृद्देनान्यपीड्योदग्दशानि विष-
ज्ज्यासन्त आनक्षत्रदर्शनादादित्यस्य वा ॥ १० ॥
यस्मिन् प्रदेशे उदकमवहं स्थिरं भवति तटाकादि तत् प्राप्य सकृदुन्मज्ज्य तस्य प्रेतस्य गोत्रनाम गृहीत्वा ग-
र्गगोत्राय तुभ्यमिति एकैकं जलाञ्जलिमुत्सृज्य उत्तीर्यान्यानि शुष्काणि वासांसि परिधाय एनानि गृहीतमुक्तानि वासांस्युद-
ग्दशानि कृत्वा सकृदापीड्य विषज्ज्य सङ्घीभूयासते दिवा चे-
दानक्षत्रदर्शनाद् रात्रौ चेदा आदित्यस्य च दर्शनात् ॥ १० ॥
दृश्यमाने प्रविशेयुः कनिष्ठप्रथमा ज्येष्ठजघन्याः ॥
दृश्यमाने नक्षत्रे आदित्ये वा ग्रामं प्रविशेयुः ॥ ११ ॥
प्राप्यासद्मश्मानमग्निं गोमयमक्षतं तैलमप
इत्युपस्पृशन्ति ॥ १२ ॥
आसीदन्त्यस्याभित्यासद् गृहं तामासदं प्राप्याश्मादी-
न्युपस्पृशन्ति बहिरैव द्वारदेशे ॥ १२ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
नैतस्यां रात्र्यामन्नं पचेरन् ॥ १ ॥
रात्रिग्रहणादहोरात्रस्य ग्रहणं दिवा मरणे दिवाप्यन्नं न पचेरन् । अन्नग्रहणान्मुद्गादीनां प्रतिषेधः । अन्ये तु अदनी-
यमन्नं तन्न पचेरन् न किञ्चिद् भुञ्जीरन्नित्यर्थ इति वर्णयन्तः
फलादिभक्षणमपि नेच्छन्ति ॥ १ ॥
१., २. 'ता' ग. घ. पाठः... ३ 'यं तै' ग. पाठः.
५
१८१ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
त्रिरात्रमक्षारालवणाशिनः स्युः ॥ २ ॥
अपरेद्युरारभ्य त्रिरात्रमश्नन्तोऽपि क्षारं लवणं च नाश्नीयुः ॥ २ ॥
द्वादशरात्रं वा महागुरुषु ॥ ३ ॥
माता पिता पितामहः प्रपितामहः यश्चोपनीय कृत्स्नं वेदमध्यापयति एते महागुरवः । एतेषु मृतेषु द्वादशरात्रं वा त्रिरात्रं वाक्षारालवणाशिनः स्युः । शक्त्यपेक्षो विकल्पः ॥ ३ ॥
दानाध्ययने वर्जयेरन् दशाहं सपिण्डेषु ॥ ४ ॥
“सापिण्डता तु पुरुषे सप्तमे विनिवर्तते”
इति हि सपिण्डलक्षणम् । स्मर्यते च —
“उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥”
इति । नित्यानि निवर्तन्ते वैतानवर्जं शालाग्नौ चैके । अन्ये एतानि कुर्यादिति च । अन्ये तु दानाध्ययनमात्रप्रतिषेधोऽयम् आशौचं तु शास्त्रान्तरादवसेयमिति स्थिताः ॥ ४ ॥
गुरौ चासपिण्डे ॥ ५ ॥
असपिण्डो गुरुर्मातुलश्वशुरादिः ॥ ५ ॥
अप्रत्तासु च स्त्रीषु त्रिरात्रम् ॥ ६ ॥
सपिण्डासु त्रिरात्रं दानादि वर्जयेत् ॥ ६ ॥
१. ‘णं ना’ ग. पाठः. २. ‘निक्व’ ख. ग. ङ. पाठः.
५ ष्ठः खण्डः] अनाविलोपेताम् । १८७
इतरेषु ॥ ७ ॥
महागुरुव्यतिरिक्तेष्वाचार्येषु 'एकदेशमुपाध्याय' इत्या-
दिषु ॥ ७ ॥
ज्ञातौ चासपिण्डे ॥ ८ ॥
असपिण्डो ज्ञातिः समानोदकः । तत्र च त्रिरात्रम् ।
“समानोदकभावस्तु जन्मनाम्नोरवेदने”
इति समानोदकलक्षणम् ॥ ८ ॥
प्रत्तासु च स्त्रीष्वदन्तजाते परिजाते चैकाहं स-
ब्रह्मचारिणि समानग्रामीये च श्रोत्रिये ॥ ९ ॥
प्रत्तासु दुहित्रादिषु अदन्तजाते दन्ता यस्य न
जाताः तस्मिन् बाले परिजातो दन्तजातः तत्रापि एकाहं
दानादि वर्जयेत् । उपनयनादारभ्यासमावर्तनाद् यः सह व्रतं
चरितवान् एकस्मिन्नाचार्ये स सब्रह्मचारी एवंविधमपरं प्रति
तस्मिन् मृते एकाहमाशौचम् । समाने एकस्मिन् ग्रामे भवः
समानग्रामीयः, श्रोत्रियोऽधीतवेदः तस्मिंश्च ॥ ९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
संचयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेक-
नक्षत्रे ॥ १ ॥
अस्थीनि सञ्चीयन्ते यस्मिन् कर्मणि तत् संचयनं
कृष्णपक्षस्य दशम्या ऊर्ध्वमयुजासु विषमासु तिथिषु एका-
१. 'श उपा' ग. ङ. पाठः.
१८८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
दशीत्रयोदशीपञ्चदशीषु एकनक्षत्रे दिवसे कर्तव्यम् । सा दशमी यद्यन्तर्दशाहे भवति तत्रैव कर्तव्यम् । अथ बहिर्दशाहात् संचयनमपि तत्रैव । अपर आह — दशमी रात्रिर्गृह्यते मृताहादारभ्य तस्या ऊर्ध्वमित्यादीति ॥ १ ॥
लक्षणे कुम्भे पुमांसम् ॥ २ ॥
लक्षणे लक्षणयुक्ते शुभे कुम्भे पुमांसं संचिन्वीरन् पुंसोऽस्थीनीत्यर्थः ॥ २ ॥
अलक्षणायां स्त्रियम् ॥ ३ ॥
अलक्षणायां कुम्भ्यां स्त्रियोऽस्थीनि संचिन्वीरन् ॥ ३ ॥
अयुजोऽमिथुनाः प्रवयसः ॥ ४ ॥
व्याख्यातम् । एते संचेतारः ॥ ४ ॥
क्षीरोदकेन शमीशाखया त्रिः प्रसव्यायतनं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ॥ ५ ॥
क्षीरमिश्रेणोदकेन ॥ ५ ॥
अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्लादयन्तोऽवदध्युः ॥ ६ ॥
संह्लादः शब्दः, यदि ग्रावाणः संह्लादेरन्निति दर्शनात् । उपकनिष्ठिकानामिका । अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्याम् एकैकमस्थ्यादाय असंह्लादयन्तोऽस्थ्नां परस्परसङ्घट्टनेन शब्दो यथा न स्यात् तथा कुर्वन्तः कुम्भेऽवदध्युः ॥ ६ ॥
पादौ पूर्वं शिर उत्तरम् ॥ ७ ॥
तत्र पादास्थीनि पूर्वमवदध्युः । ततोऽङ्गान्तराणि क्रमेणाशिरसः । चरमं शिरःकपालम् ॥ ७ ॥