आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 56, कुल 292 में से
संदर्भ में पढ़ें६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
ङ्गवचनभेदः, तादृग्रूपं हविः ते तव उक्षाण ऋषभाश्च व-
शाश्च भवन्ति । वन्ध्या गावो वशाः । व्याचष्टे — एत एव
म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति । भरद्वाजस्यैषा —
य इमं स्वाध्यायमधीयत इति । चलोपोऽत्र द्रष्टव्यः । ये
चेमं स्वाध्यायमधीयत इति । न केवलं भरद्वाजस्यैव, किं
तर्हि, अन्येऽपि य इमं स्वाध्यायमधीयते तेषामपि एते
उक्षाण ऋषभाश्च वशाश्च भवन्ति, द्रष्टव्यतिरिक्तानामप्य-
ध्ययनमात्रेण भवन्तीत्यर्थः । यो नमसा स्वध्वर इति व्याख्ये-
योपादानं, व्याचष्टे — नमस्कारेण वै खल्वपि । अस्ति प्रीति-
रित्यपेक्ष्यते । एतदेवोपपादयति — न वै देवा नमस्कारमति ।
वै प्रसिद्धौ । न खलु देवा नमस्कारमतिक्रामन्ति । "यज्ञो वै
नम" इति हि ब्राह्मणं भवति । ततश्च यथा यज्ञं नातिका-
मन्ति, एवं नमस्कारं²मपीति ॥ ५ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयाद-
ग्नयेऽग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्रा-
ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो
देवेभ्यो ब्रह्मणे स्वाहेति ॥ १ ॥
अथेमानि गृह्याणि विधीयन्ते, यानि प्राक् प्रतिज्ञा-
तानि³ इत्यथशब्दस्यार्थः । सायंशब्दो रात्रेरुपक्रमे प्रसिद्धः
१. 'रं नाति' ख. ग. पाठः. २. 'पि नातिका(मति) ॥ ३. 'नीत्यर्थः' क. पाठः.