आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेताम्। १९९
अष्टमः खण्डः] अनाविलोपेताम्। १९९
“निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान् १ शुचिः।
निमन्त्रितैश्च २ तैर्भाव्यं मनोवाक्कायसंयतैः ३॥”
इति याज्ञवल्क्यवचनात्। तच्च श्वः श्राद्धं भविता तत्रभवता आहवनीयार्थे प्रसादः कर्तव्य इत्येवंरूपम्। “तत्र पितरो देवताः ब्राह्मणास्त्वाहवनीयार्थ” इत्यापस्तम्बवचनात्। स्नातान्। यद्यपि ‘प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्ये’त्यत्र स्नानमुक्तं तथापि तस्यानित्यत्वज्ञापनार्थं पुनः स्नातानित्युक्तं कर्माङ्गतयावश्यं स्नातव्यमिति। कृतपच्छौचान् ‘आर्द्रपादस्तु भुञ्जीत’ इति वचनात् प्राप्तमपि पादशौचं पुनर्विधीयते। कथं, कर्तैव ब्राह्मणानां पादौ प्रक्षालयेदिति आत्मना कृतपच्छौचानिति। आचान्तान् ‘भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेदि’ति स्मार्त्ताचमनव्यतिरेकेण कर्माङ्गं तृतीयं विधीयते। उदङ्मुखान् पित्रर्था उदङ्मुखाः। विश्वेदेवार्थौ प्राङ्मुखौ द्वौ।
“द्वौ दैवे प्राक् त्रयः पित्र्य उदङ्ङेकैकमेव वा”
इति याज्ञवल्क्यः। एवंभूतान् ब्राह्मणान् पितृवत् पितृभिस्तुल्यान् मन्यमानः यादृशी पित्रादिषु वृत्तिः तां वृत्तिमास्थायोपवेशयेत्। अपर आह—पितृवदिति वयः परिगृह्यते पितुर्वृद्धान् पितामहस्य वृद्धतरान् प्रपितामहस्य वृद्धतमानिति। उपवेशयंश्च पूर्वं विश्वेभ्यो देवेभ्य उपवेशयेत् प्राङ्मुखौ। कस्य
१. ‘वच्छुचीन्।’ ड. पाठः.
२. ‘तैश्चापि संयतैर्भा’,
३. ‘कर्मभिः॥’ ग. ढ. पाठः.
२०० आश्वलायनगृह्यसूत्रम् [ चतुर्थोऽध्यायः
पुनः कति ब्राह्मणा इत्येत आह—एकैकमित्यादि । तत्राभ्युदयिके एकोद्दिष्टे च नियम उक्तः — “युग्मान् वृद्धिपूर्तेष्वयुग्मानितरेष्वि”ति । त्रिभ्य ऊर्ध्वमपि वृद्धौ फलभूयस्त्वैवम् । न त्वेवैकं सर्वेषां न तु सर्वेषामर्थायैकं भोजयेदिति । काममनाद्ये आद्यं सपिण्डीकरणं तत्र हि प्रथमतस्त्रयाणां पिण्डनिपरणं क्रियते, तद् वर्जयित्वा द्वितीयादिषु काममेकैकं भोजयेत् । अपर आह—आद्यते यस्मिन् श्राद्धे तदाद्यं ततोऽन्यदनाद्यम् आमश्राद्धं तत्र काममेकमपि नियुञ्जीतेति । अथवा आद्यमदनीयं न विद्यते यत्र तदनाद्यं दुर्भिक्षं तत्रैकमपि भोजयेदिति । पिण्डैर्व्याख्यातं पिण्डनिपरणे ये कल्पा “न जीवेभ्यो निपृणीयादि”त्यारभ्योक्ताः त इहापि भवन्ति, पिण्डैर्ब्राह्मणभोजनं व्याख्यातमिति । अपः प्रदाय उपवेशनानन्तरं ब्राह्मणानां हस्तेष्वपः प्रदाय । दर्भान् द्विगुणर्भग्नानासनं प्रयच्छति दक्षिणाग्रान् , विश्वेदेवार्थे प्रागग्रान् उदगग्रान् वा अभैग्नान् तेषूपवेशयति । अस्मिन्नवसरे द्वितीयं निमन्त्रणं विश्वेदेवार्थे क्षणः कर्तव्यः पित्रर्थ इत्यादि । ओं तथेति प्रतिवचनम् । प्राप्नोतु भवानित्यासनेषूपवेशनम् । प्राप्तवानीत्युपविशति । एष आचारः । अपः प्रदाय उपविष्टानां हस्तेषु पुनरपः प्रयच्छति । ततस्तैजसादिषु त्रिषु पात्रेषु पित्रादीनां त्रयाणां यथासंख्यमर्घ्याणि कल्पयति । तैजसे राजतादौ पितुः, अश्ममये पितामहस्य, मृन्मये प्रपितामहस्य । त्रिष्वित्युच्यते विश्वेदेवार्थमपि पात्रमर्घ्योपकल्पनं च मा भूदिति । आचारस्तु
१. 'त्याह' , २. 'स्त्वम् । न तु' ख. ग. ङ. पाठः. ३., ४. 'भु' ङ. पाठः.