आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
यद्युभयोर्न विन्देताचार्यायैव ॥ २ ॥
यद्युभयोरेतानि द्रव्याणि न लभेत तदा आचार्यायैवोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजिताया दिशो यज्ञियस्य वृक्षस्य ॥ ३ ॥
अपराजिता पूर्वोत्तरा दिक् तस्याः समिध आहरेद् यज्ञियस्य वृक्षस्य ॥ ३ ॥
तत्र गुणकामैः—
आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ॥ ४ ॥
अन्नाद्यपुष्टितेजसामन्यतमं यः कामयते स आर्द्रां समिधमाहरेत् ॥ ४ ॥
ब्रह्मवर्चसकाम उपवाताम् ॥ ५ ॥
उपवाता शुष्का ॥ ५ ॥
उभयीमुभयकामः ॥ ६ ॥
अन्नाद्यादीनामन्यतमं ब्रह्मवर्चसं च यः कामयते स उभयीमार्द्रामुपवातां च समिधमाहरेत् । अर्धशुष्कामित्युक्तं भवति ॥ ६ ॥
उपरि समिधं कृत्वा गामन्नं च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत ॥ ७ ॥
तामाहृतां समिधमुपरि कृत्वा अनधो निधाय ब्राह्मणेभ्योऽन्नं भोजनाय दत्त्वा गां दक्षिणां दत्त्वा गौदानिकं कर्म कुर्वीत । कर्मग्रहणस्य प्रयोजनं गोदान एव स्थित्वोक्तम् ॥ ७ ॥
१. 'माः' ख. ग., 'नाः' घ. पाठः.
१६० आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
आत्मनि मन्त्रान् संनमयेत् ॥ ८ ॥
गौदानिके कर्मणि क्रियमाणे तत्रत्यान् मन्त्रानात्मा-
भिमुखान् ऊहेत । ऋचामप्यूहप्राप्त्यर्थं वचनम् । ‘ओषधे
त्रायस्व मा स्वधीते मा मा हिंसीः तेन ब्रह्मणो वपते दम
आयुष्मान् तेन म आयुषे वपामि¹ मा म आयुः प्रमोषी-
रि’ति ॥ ८ ॥
एकक्लीतकेन शीतोष्णाभिरद्भिः स्नात्वा युवं
वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्याश्म-
नस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आज्यीत ॥ ९॥
यस्मिन् करञ्जफले एकं बीजं तदेकक्लीतकं तत्पि-
ष्टमुन्मर्दनं पुरस्तादुपकल्पितम् । तेनोद्वर्तितगात्रः शीतोष्णा-
भिरद्भिः स्नात्वा युवं वस्त्राणीति मन्त्रेणाहते वाससी आच्छा-
दयति । एकमन्तर्वासः अपरं बहिर्वासः । अश्मनस्तेजोऽसि²
चक्षुर्मे पाहीति मन्त्रेण ततश्चक्षुषी आञ्जयीत, सव्यं पूर्वं
‘सव्यं हि पूर्वं मनुष्या अञ्जत’ इति श्रुतेः ॥ ९ ॥
अश्मनस्तेजोऽसि श्रोत्रं मे पाहीति मणिकुण्ड-
ले आबध्नीत अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्रा-
ह्मlocal: ह्मणोऽनुलिम्पेत ॥ १० ॥
अनुलेपनं चन्दनादि । ब्राह्मणो मुखं प्रथममनुलिम्पेत ।
ततोऽन्यान्यङ्गानि ॥ १० ॥
१. 'मि शुद्धिशिरोमा' क. पाठः. २. 'सीति' ङ. पाठः.