आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
अष्टमः खण्डः] अनाविलोपेसम् । १६५
अष्टमः खण्डः] अनाविलोपेसम् । १६५
अतो वृद्धो जपति ॥ ४ ॥
अतःपरं वृद्ध आचार्यो जपति ॥ ४ ॥
जप्यमाह —
प्राणापानयोरुरुव्यचास्त्वया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ५ ॥
प्राणापानयोरिति मन्त्रस्य पूर्वत्रैव कृत्स्नः पाठः कर्त-
व्यो न कृतः इह वा पठ्यतां पूर्वत्र वा कोन्वत्र विशेष
इति । पूर्वत्रोपांशुत्युक्तम् इह जपतीतितस्य प्रयोजन
जपलक्षणमुपांशुत्वं गृह्यकर्मण्यनित्यमिति । तेन ‘ब्रह्माञ्जलि-
कृतो जपेदि’त्यत्रोच्चैः प्रयोगः सिद्धो भवति ॥ ५ ॥
समाप्य ओं प्राक् स्वस्तीति च जपित्वा माहि-
त्रेणानुमन्त्र्य ॥ ६ ॥
अतिसृजेदिति शेषः । आमन्द्रैरित्येतामृचं समाप्य
ओं प्राक् स्वस्तीति च जपित्वा महित्रीणामवोऽस्त्विति सूक्ते-
नानुमन्त्र्यातिसृजेद् गुरुः शिष्यम् । महित्रीशब्दो यस्मिन्
सूक्तेऽस्ति तन्माहित्रम् । विमुक्तादित्वादण् । विवत्स्याव इति
लौकिक्या वाचातिसर्गः ॥ ६ ॥
एवमतिसृष्टस्य न कुतश्चिद् भयं भवतीति वि-
ज्ञायते ॥ ७ ॥
एवं माहित्रेणानुमन्त्र्य योऽतिसृष्टः तस्य न कुतश्चिद्
भयं भवतीति ब्राह्मणं भवति । माहित्रानुमन्त्रणस्य प्रशंसे-
यम् । इदं च कालान्तरेऽपि भवति । यो यस्य प्रियः स्यात्
१. ‘पा’ ख. ङ. पाठः.
| १६६ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः |
|---|
तथाविधत्वाद् ब्राह्मणस्य । एतदर्थमेव च ब्राह्मणमाकृष्टम् । आपस्तम्बोऽप्याह — 'यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्प' इति ॥ ७ ॥
वयसाममनोज्ञां वाचं^२ श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेद् देवीं वाचमजनयन्त देवा इति च ॥ ८ ॥
यदायं स्नातको मार्गे वान्यत्र वा पक्षिणां प्रतिकूलां वाचं शृणोति तदा नैमित्तिकोऽयं जपः । ८ ॥
स्तुहि श्रुतं गर्तसदं युवानमिति मृगस्य ॥ ९ ॥
अमनोज्ञां वाचं श्रुत्वेत्यनुवर्तते ॥ ९ ॥
यस्या दिशो बिभीयाद्यस्माद्वा तां दिशमुल्मुक-
मुभयतः प्रदीप्तं प्रत्यस्येन्मन्थं वा प्रसव्यमालोड्याभयं
मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून् दहन्तं प्रतीत्यमा-
ज्ञातारं मा प्रतिष्ठां विन्दैन्तु मिथो भिन्दाना उभयं तु
मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्थं न्यञ्चं
करोति ॥ १० ॥
यस्या दिशो यस्माद्वा पुरुषाद् बिभीयात् तां दिशं प्रति पुरुषोऽपि स यस्यां दिशि वसति तां दिशं प्रति उभयतः प्रदीप्तं मूले चाग्रे च ज्वलन्तमुल्मुकम् अस्येत् क्षिपेत् अभयं मित्रावरुणेति मन्त्रेण । दधिमिश्राः सक्तवः मन्थः तं वा प्रस-
१. 'ज्ञा', २. 'चः' ख. पाठः. ३. 'द' ख. ग. पाठः.