कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
७२६ कथासरित्सागर
७२६ कथासरित्सागर
प्रागेव मम नादिष्टं किं दवेनाधुनापि यत्।
धनेनेदीये सबलैः क्रियतामरि निग्रहः ॥४१॥
इत्युक्तः स तया कृत्वा तद्धनैरधिकं बलम्।
ययौ राजा स्वमित्रस्य राज्ञो बन्धुतोऽन्तिकम् ॥४२॥
तद्वलैः स्वबलैस्तैश्च सह गत्वा निहत्य तान्।
पञ्चाप्यरिनृपान् युद्धे तद्राज्यान्यप्यवाप सः ॥४३॥
ततस्तुष्टः कुमुदिकां सोऽब्रवीत्तां सह स्थिताम्।
प्रीतोऽस्मि ते तवाभीष्टं किं करोम्युच्यतामिति ॥४४॥
अथावाचत्कुमुदिका सत्यं तुष्टोऽसि चेत्प्रभो।
तदुद्धरेव हृच्छल्यमेकं मम चिरस्थितम् ॥४५॥
उज्जयिन्यां द्विजसुतं श्रीधरं नाम मे प्रियम्।
राज्ञाल्पेनापराधेन बद्धं तस्माद्विमोचय ॥४६॥
दृष्ट्वा त्वां भाविकल्याणमुत्तमे राजलक्षणे।
एतत्कार्यक्षमं वेद्य मक्त्या सेवितवत्यहम् ॥४७॥
अभीष्टसिद्धिनैराश्यादारोहे स्वचितामपि।
विफलं जीवितं मत्वा विना तं विप्रपुत्रकम् ॥४८॥
एवमुक्तवतीं तां स राजावाचद्विलासिनीम्।
साधयिष्याम्यहं तत्ते धीरा सुवदने भव ॥४९॥
इत्युक्त्वा मन्त्रिवचनं सस्मूर्याचिन्तयच्च सः।
सत्यं वेश्यास्वसद्भावः प्रोक्तोऽनन्तगुणेन मे ॥५०॥
अतस्तु पूरणीयेषा वराक्या कामना मया।
इति सङ्कल्प्य सबलः स तामुज्जयिनीमगात् ॥५१॥
श्रीधरं मोचयित्वा तं दत्त्वा च द्रविणं बहु।
व्यधात् कुमुदिकां तत्र प्रियसङ्गमसुस्थिताम् ॥५२॥
आगत्य च स्वनगरं मन्त्रिमन्त्रसमृद्धयम्।
प्रभादिश्रमसिंहोऽसौ बुभुजे सकलां महीम् ॥५३॥
एवं हृदयमज्ञेयमगाधं वशयोषिताम्।
॥५४॥¹
१ मूलपुस्तके पदार्धं मुद्रितमस्ति।