कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
७४ कथासरित्सागर
७४ कथासरित्सागर
इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा ।
यमजिह्वाभिधानायाः कुट्टन्याः सदनं ययौ ॥५९॥
तत्र स्थूलहनुं दीर्घदशनां भुग्ननासिकाम् ।
शिक्षयन्तीं दुहितरं कुट्टनीं तां ददर्श स ॥६०॥
धनेन पूज्यते पुत्रि सर्वो वेश्या विशेषतः ।
तच्च नास्त्यनुरागिण्या रागं वेश्या त्यजेदत ॥६१॥
दोषाप्रदूतो रागो हि वेश्यापश्चिमसन्ध्ययोः ।
मिथ्यैव दर्शयेद्वेश्या तं नटीव सुशिक्षिता ॥६२॥
रञ्जयेत्तेन सा पूर्वं दुह्याद्रक्तं ततो धनम् ।
दुग्धार्थं च त्यजेदन्ते प्राप्तार्थं पुनराहरेत् ॥६३॥
समो यूनि शिशौ वृद्धे विरूपे रूपवत्यपि ।
वेश्याजनो यो मुनिवत्स चार्थं परमश्नुते ॥६४॥
इति ब्रुवाणां दुहितुस्तामुपागात्स कुट्टनीम् ।
रत्नवर्मा कृतातिथ्यस्तया च समुपविशत् ॥६५॥
अब्रवीत्ताञ्च पुत्रो मे त्वयार्य शिष्यतामयम् ।
वेश्योपचारकलां येन वैदग्ध्यं प्राप्नुयादसौ ॥६६॥
दीनाराणां सहस्रं च निष्क्रयं ते ददाम्यहम् ।
तच्छ्रुत्वा तस्य कामं स प्रतिपेदे तथेति सा ॥६७॥
ततो वितीर्य दीनारान् पुत्रं तस्यै समर्प्य च ।
स तमीश्वरवर्माणं रत्नवर्मा ययौ गृहम् ॥ ६८॥
अथात्रेश्वरवर्मा स यमजिह्वागृहे वसन् ।
वर्षेणैकेन शिक्षित्वा पितुस्तस्य गृहं ययौ ॥६९॥
प्राप्तषोडशवर्षश्च पितरं तमुवाच स ।
अर्थाद्धि धर्मकामौ न पूज्यार्थविधंत प्रजा ॥७० ॥
एवमुक्तवते तस्मै श्रद्धाम न तथेति तत् !
पञ्चानां द्रव्यकोटीनां भाण्डं¹ प्रीतो ददौ पिता ॥७१॥
तदादाय वणिक्पुत्रः ससार्थः स शुभेऽहनि ।
प्रायादीश्वरवर्माथ स्वर्णद्वीपाभिवाञ्छया ॥७२॥
१ अत्र किञ्चित्त्रुटितं नास्ति । २ विक्रेयद्रव्यम् । मुद्रितोऽयं पाठः ।