सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

१५६ कथासरित्सागर

१५६ कथासरित्सागर
मार्जारं स्थापयानीय सोऽत्र खादति मूषकान्।
इति सोऽपि सुहृद्विप्रस्तमुपाध्यायमब्रवीत् ॥१६०॥
मार्जारः कीदृशः क्वास्ते न स दृष्टचरो मया।
इत्युक्तवत्युपाध्याये तं सुहृत्सोऽब्रवीत् पुनः ॥१६१॥
काचरं लोचने तस्य वर्णः कपिशधूसरः।
पृष्ठे च लोमशं चर्म रथ्यास्वटति यह सः ॥१६२॥
तदेभिस्त्वमभिज्ञानैरन्विष्यानानयाशु तम्।
मित्र मार्जारमित्युक्त्वा तत्सुहृत्स ययौ गृहम् ॥१६३॥
ततः शिष्यानुपाध्यायः स जगाद जडो निजान्।
अभिज्ञानानि युष्माभिः श्रुतान्येव स्थितेरिह ॥१६४॥
तदन्विष्यत मार्जारं रथ्यासु तमिह क्वचित्।
तथेति ते गताः शिष्यास्तत्र भ्रमुरितस्ततः ॥१६५॥
तथापि न तु तैर्दृष्टो मार्जारः स कदाचन।
अथैकं ते वटुं रथ्यामुखाविक्षन्त निर्गतम् ॥१६६॥
काचरं नेत्रयुगलं वर्णं धूसरपिङ्गलम्।
पृष्ठोपरि दधानं च लोमशं हरिणाजिनम् ॥१६७॥
दृष्ट्वा तं सैष मार्जारः प्राप्तोऽस्माभिर्यथाश्रुतः।
इत्यवष्टभ्य तं निन्युस्पाध्यायान्तिकं च ते ॥१६८॥
उपाध्यायोऽपि मित्रोक्तैर्युक्तं मार्जारलक्षणैः।
दृष्ट्वा तं स्थापयामास रात्रौ तत्र मठान्तरे ॥१६९॥
मार्जारो नूनमस्तीति मेने सोऽपि वटुर्जडः।
मार्जाराख्यां कृतां शृण्वन्नात्मनस्तैर्मुखिभिः ॥१७०॥
स च भीतो वटुः शिष्यस्तस्य विप्रस्य येन तत्।
उपाध्यायस्य तस्योक्तं मख्या मार्जारलक्षणम् ॥१७१॥
प्रातः सोऽत्रागतो विप्रो वटुमन्तर्विलोक्य तम्।
इह कनायमानीत इति मौठानवाच तान् ॥१७२॥
धृतोपलक्षणस्त्वत्तो मार्जारोऽस्माभिरप्य सः।
आनीत इत्युपाध्यायो भीतः शिष्याश्च तेऽवदन् ॥१७३॥