सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

अलङ्कारवती नाम नवमो लम्बकः

अलङ्कारवती नाम नवमो लम्बकः
इव गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्।
प्रसङ्ग रसयन्ति ये विगतविघ्नसम्वर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते॥
प्रथमस्तरङ्गः
मङ्गलाचरणम्
निष्कम्पमरुतोर्वीश्वसिताः पर्वता अपि।
यं नमन्तीव नृत्यन्तं नमामस्तं विनायकम्॥१॥
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
एव वत्सेश्वरसुतः कौशाम्ब्यां भवने पितुः।
वसन्विद्याधराधीशैरावासेव कृतानतिः॥२॥
नरवाहनदत्त' स कदाचिन्मृगयागतः।
विवेश गोमुखसखो मुक्तसैन्यो महद्वनम्॥३॥
स तत्र दक्षिणेनाक्ष्णा स्फुरतोक्तशुभागमः।
दिव्यवीणानिनादमिश्रमशृणोत् गीतनिःस्वनम्॥४॥
गत्वा तदनुसारेण नातिदूरं ददर्श सः।
स्वयम्ब्वायतनं शम्भोः सपताश्वो विवेश च॥५॥
तत्रोपवीणयन्तीं च देवेशं देवकन्यकाम्।
अपश्यद् वरकन्याभिर्बह्वीभिः परिवारिताम्॥६॥
सा दृष्टा तस्य हृदयं प्रसरत्कान्तिनिर्भरा।
इन्दुमूर्तिरिवाम्भोघेः क्षोभयामास तत्क्षणम्॥७॥

The provided image is completely blank and contains no text to transcribe.